॥ श्रीहर उवाच ॥ ॥
पञ्चविंशतिकं देवं विद्धि मुक्तीश्वरं प्रिये ॥
यस्य दर्शनमात्रेण मुक्तिर्भवति पार्वति ॥ १ ॥
पुरा राथन्तरे कल्पे बभूव द्विजसत्तमः ॥
मुक्तिर्नाम महाभागे संशितात्मा जितेन्द्रियः ॥ २ ॥
महाकालसमीपे तु मुक्तिलिङ्गमनुत्तमम् ॥
महाकालवने रम्ये तत्रास्ते योगत त्परः ॥ ३ ॥
ततस्तेपे जिताहारो वत्सराणि त्रयोदश ॥
कदाचित्सोऽभिषेकाय आजगाम महानदीम्॥ ४ ॥
शिप्रां विप्रप्रियां पुण्यां महापातकना शिनीम् ॥
तत्र स्नात्वा जपन्विप्रो ददर्शायान्तमग्रतः ॥ ५ ॥
व्याधं महाधनुष्पाणिं रक्तनेत्रं सुभीषणम्॥
वदन्तं हन्तुकामं वै वल्कलानां जिघृक्षया ॥ ॥ ६ ॥
तं दृष्ट्वा क्षुभितो विप्रो ब्रह्मघ्नस्य भयादिति ॥
ध्यायन्नारायणं देवं तस्थौ तत्रैव स द्विजः ॥ ७ ॥
तं दृष्ट्वान्तर्गतहरिर्व्याधो भीत इवाग्रतः ॥
विहाय सशरं चापं ततो वचनमब्रवीत् ॥ ८ ॥
॥ व्याध उवाच ॥ ॥
हन्तुमिच्छुरहं ब्रह्मन्भगवन्तमिहागतः ॥
इदानीं स्वगता बुद्धिस्त्वां दृष्ट्वैव महाप्रभम् ॥ ९ ॥
ब्राह्मणानां सहस्राणि स्त्रीणामयुतशस्तथा ॥
निहतानि मया ब्रह्मन्वृत्तिहेतोः कुटुम्बिना ॥ 5.2.25.१० ॥
न च मे व्यथितं चित्तं कदाचिदपि जायते ॥
इदानीं तप्तुमिच्छामि तपोऽहं त्वत्समीपतः ॥ ११ ॥
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ॥
एवमुक्तो ह्यसौ विप्रो नोत्तरं प्रत्यप द्यत ॥ १२ ॥
ब्रह्महा पापकर्मेति मत्वा ब्राह्मणपुङ्गवः ॥
अनुक्तोऽपि स धर्मस्तु व्याधस्तत्रैव तस्थिवान्॥ १३ ॥
स्नात्वा सद्यः समायातो मुक्ति लिङ्गसमीपतः ॥
द्विजेन सहितो देवि दृष्ट्वा देवं सनातनम् ॥ १४ ॥
तत्क्षणाद्दिव्यदेहस्तु तस्मिल्ँलिङ्गे लयं गतः ॥
दृष्ट्वा तन्महदाश्चर्यं मुक्तिर्विप्रो निजान्तरे ॥
चिन्तयामास सहसा मुक्तिः प्राप्ता वरानने ॥ १५ ॥
व्याधेन पापयुक्तेन समाधिरहितेन च ॥
मया पुनः समाचीर्णं तपः परम दुष्करम् ॥ १६ ॥
न प्राप्ता परमा मूर्त्तिर्मुक्तिर्नैव च लभ्यते ॥
एवं सचिन्तयित्वाथ वैराग्याद्ब्राह्मणर्षभः ॥
अन्तर्जलगतो भूत्वा चचार विपुलं तपः ॥ १७ ॥
कस्यचित्त्वथ कालस्य तां नदीमगमत्किल ॥
व्याघ्रो बुभुक्षितः साध्वि तं विहन्तुं समुद्यतः ॥ १८ ॥
अन्तर्जलचरं विप्रं याव द्व्याघ्रो जिघृक्षति ॥
नमो नारायणायेति तावद्वाक्यं द्विजोऽब्रवीत् ॥ १९ ॥
व्याघ्रेणापि श्रुतो मन्त्रोऽजहात्प्राणांश्च तत्क्षणात् ॥
दिव्याम्बरधरो देवि दिव्याभरणभूषितः ॥
दिव्यालङ्कारशोभाढ्यः पुरुषश्चाभवच्छुभः ॥ 5.2.25.२० ॥
सोऽब्रवीद्यामि तं देशं यत्र विष्णुः सनातनः ॥
त्वत्प्रसादाद्द्विजश्रेष्ठ मुक्त्वा शापान्निरामयः ॥ २१ ॥
इत्युक्ते ब्राह्मणः प्राह कोऽसि त्वं पुरुषर्षभ ॥
सोऽब्रवीदस्मि राजेन्द्र प्रतापी पूर्वजन्मनि ॥ २२ ॥
दीर्घबाहुरिति ख्यातः सर्वधर्मविशारदः ॥
अहं जानामि वेदांश्च शास्त्राणि विविधानि च ॥ २३ ॥
शुभाशुभमहं वेद्मि सर्वज्ञोऽहं महीतले ॥
ब्राह्मणैर्नैव मे कार्यं किं वस्तु ब्राह्मणा इति ॥ २४ ॥
तस्यैकस्मिन्दिने विप्राः सर्वे क्रोधसमन्विताः ॥
ददुः शापं दुराधर्षं क्रूरो व्याघ्रो भविष्यति ॥ २५ ॥
अपमानेन विप्राणां मांसाहारी भयावहः ॥
सञ्जातोऽस्मि द्विजश्रेष्ठ पश्य कालविपर्यये ॥ २६ ॥
इत्युक्तोऽहं पुरा तैस्तु ब्राह्म णैर्वेदपारगैः ॥
दुर्धर्षोऽयं मया प्राप्तो ब्रह्मशापो द्विजर्षभ ॥ २७ ॥
ततस्ते ब्राह्मणाः सर्वे प्रणिपत्य मया मुने ॥
प्रसादिता भृशं विप्र तदा गद्गद या गिरा ॥ २८ ॥
जानामि तेजो विप्राणां महाभाग्यं च धीमताम् ॥
अपेयः सागरः क्रोधात्कृतो यैर्लवणोदकः ॥२९॥
तथैव दीप्ततपसां मुनीनां भावितात्मनाम्॥
येषां क्रोधाग्निरद्यापि कण्डके नोपशाम्यति ॥ 5.2.25.३० ॥
ब्राह्मणानां परीभावाद्वातापिश्च दुरात्मवान् ॥
अगस्तिमृषिमासाद्य जीर्णः क्रूरो महासुरः ॥ ३१॥
सर्वभक्षः कृतो वह्निर्भृगुणा कारणान्तरे ॥
गौतमेन पुरा शक्रः स सहस्रभगः कृतः ॥ ३२ ॥
दशधा केशवो जज्ञे ब्रह्मशा पात्सुदुस्तरात् ॥
प्रसन्नैर्वालखिल्यैश्च पक्षीन्द्रो गरुडः कृतः ॥ ३३ ॥
अश्विनौ देवभिषजौ च्यवनेन महात्मना ॥
विष्टम्भयित्वा कुलिशं कृतौ तौ सोमपायिनौ ॥ ३४॥
कार्त्तवीर्यार्जुनेनैव बाहूनां च सहस्रकम् ॥
दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम् ॥ ३५ ॥
पुरा सेन्द्रा वशिष्ठेन रक्षितास्त्रि दिवौकसः ॥
ब्राह्मणप्रभवं सौख्यं कीर्तिरायुर्यशो वलम् ॥ ३६ ॥
लोकालोकेश्वराश्चैव सर्वे ब्राह्मणपूर्वकाः ॥
एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ ३७ ॥
भस्मीकुर्युर्जगदिदं कुद्धाः प्रत्यक्षदर्शनाः ॥
प्रभावा बहवश्चापि श्रूयते ब्रह्मवदिनाम् ॥ ३८ ॥
क्रोधश्च विपुलः सद्यः सद्यः प्रत्य यकारकः ॥
अहं कोपाद्द्विजेन्द्राणां गतो निरययातनाम् ॥ ३९ ॥
नित्यं क्रोधाच्छ्रियं रक्षेद्धनं रक्षेत्समत्सरात् ॥
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥5.2.25.४०॥
मयाऽज्ञानात्कृतं पापं राजगर्वेण दैवतः ॥
क्षन्तुमर्हथ विप्रेन्द्रा भवतः शरणागतम् ॥४१॥
अथ तुष्टा द्विजाः सर्वे त ऊचुर्मामिदं मुदा॥
षष्ठान्नकालिकस्तेऽग्रे यदा स्थास्यति कश्चन ॥ ४२ ॥
मांसभोक्ता च भविता कञ्चित्कालं नराधिप ॥
यदा शिप्रान्तरे पुण्ये स्नातस्तु द्विजसत्तमः ॥ ॥ ४३ ॥
अन्तर्जलगतेनोक्तो नमो नारायणेति च ॥
जिघृक्षुर्व्याघ्ररूपेण तदा मुक्तो भविष्यसि ॥ ४४ ॥
एवं स भवता प्रोक्तो नमो नारायणेति च ॥
मन्त्रः श्रुतो मया त्वत्तस्तस्येयं व्युष्टिरागता ॥ ४५ ॥
जातोऽहं दिव्यदेहस्तु प्रसादात्तव सुव्रत ॥
स कृतार्थोऽस्मि सञ्जातो भगवन्दर्शना त्तव ॥ ४६ ॥
वरं च गृह्यतां मत्तो यश्च ते संशयो हृदि ॥
तं च ब्रूहि द्विजश्रेष्ठ सर्वं सम्पादयामि ते ॥ ४७ ॥
तवोपदेशदानेन आनृण्यं गन्तु मुत्सहे ॥ ४८ ॥
इति तस्य वचः श्रुत्वा दिव्यदेहस्य स द्विजः ॥
प्रोवाच परया तुष्ट्या प्रफुल्लमुखपङ्कजः ॥ ४९ ॥
अद्य मे सफलं ज्ञानमद्य मे सफलं तपः ॥
अद्य मे सफला जिह्वा सफलं चक्षुरद्य मे ॥ 5.2.25.५० ॥
श्रुतं देवेन सम्प्रोक्तं स्नात्वा पश्यन्ति देहिनः ॥
प्राक्छरीरगतं तेऽद्य व्याघ्ररूपं तपोत्तम ॥ ५१ ॥
तेजोमयं शरीरं तु ब्रह्मरूपं सनातनम् ॥
यदि त्वहमनुग्राह्यो यद्येवं कर्तुमर्हसि ॥ ५२ ॥
कारणं श्रोतुमिच्छामि हृदि मे वर्त्तते चिरम् ॥
कथं मुक्तिर्महाभाग मुक्तिकामेन यत्नतः ॥५३॥
योगाभ्यासरतेनापि वत्सरांश्च त्रयोदश ॥
न लब्धा परमाश्चर्यं तपसा दुष्करेण तु ॥५४॥।
व्याधेनापि भृशं तेन प्राप्ता मुक्तिः क्षणेन तु ॥
अत्र मे संशयो जातः को हेतुः कथ्यतां भृशम् ॥ ५५ ॥
तस्य तद्वचन श्रुत्वा ततो वचनमब्रवीत् ॥
कथयामि परं गुह्यं रहस्यं मुक्तिलक्षणम् ॥ ५६ ॥
महादेवमुपास्याशु मुने मुक्तिः सुदुर्लभा ॥
पुरातनैस्तु विद्वद्भिरिदमुक्तं महात्मभिः ॥ ५७ ॥
शृणुष्वैकमना विप्र कुरु यत्नं यथार्थतः ॥
मन्नियोगाद्द्विजश्रेष्ठ ततो मुक्तिमवाप्स्यसि ॥ ५८ ॥
शप्तोऽहं तैर्यदा विप्रैस्तदा मे तोषिता भृशम् ॥
ममानुकम्पया प्रोक्तं मुक्तिस्ते भविता नृप ॥ ५९ ॥
मुक्तिकामो महाकाले मुक्तिर्ब्राह्मणसत्तमः ॥
विद्यते तपसा युक्तः स ते प्रश्नं करिष्यति ॥ 5.2.25.६० ॥
मुक्तीश्वरं तदा लिङ्गं तस्याग्रे कथयिष्यसि ॥
तवापि तस्य मुक्तेश्च मुक्तिरेवं भविष्यति ॥ ६१ ॥
पूर्वं हि चिह्नितं कर्म देहिनो न विमुञ्चति ॥
धात्रा विधिरयं दृष्टो बहुधा कर्मभिश्च यः ॥ ६२ ॥
इति तस्य वचः श्रुत्वा स विप्रो ब्रह्मवित्तमः ॥
अन्तर्जलात्समुत्थाय ततो वचनमब्र वीत् ॥ ६३ ॥
दिष्ट्या त्वमागतो भूप दिष्ट्या ते सङ्गतं मया ॥
ईदृशा दुर्लभा लोके नरा मुक्तिप्रदर्शकाः ॥ ६४ ॥
इत्युक्त्वा नृपविप्रौ तौ मुक्तिलिङ्गं समा गतौ ॥
दर्शनार्थं विशालाक्षि दृष्ट्वा देवं सनातनम् ॥ ६५ ॥
तत्क्षणात्सशरीरौ तौ तस्मिल्ँलिङ्गे लयं गतौ ॥
ईदृशोऽयं मया देवि महिमा कथितस्तव ॥ ६६ ॥
अस्य लिङ्गस्य संस्पर्शान्मुक्तिर्भवति नान्यथा ॥
येऽर्चयन्ति सदा भक्त्या मुक्तिलिङ्गं सनातनम् ॥
अपि पापसमायुक्तः स याति परमां गतिम् ॥ ६७ ॥
रे मूढाः किं तपोभिश्च किं दानैर्नियमैश्च किम् ॥
कुरुध्वं मुक्तिलिङ्गस्य दर्शनं मुक्तिदायकम् ॥ ६८ ॥
न मां विदुर्देवगणा नासुरा न महर्षयः ॥
परं रूपं विशालाक्षि यदश्मद्युति निर्मलम् ॥ ६९ ॥
न मे वेत्ति परं रूपं स्वयं साक्षात्प्रजापतिः ॥
न विष्णुस्त्रिदशश्रेष्ठाः कुतोन्ये मुनयः प्रिये ॥ 5.2.25.७० ॥
यदेतद्दृश्यते तेजो लिङ्गरूपं यशस्विनि ॥
एतदेव शुकाद्या हि ध्यायन्ति त्रिदशा अमी ॥ ७१ ॥
अनेकजन्मसंशुद्धा योगिनोऽनुग्रहान्मम ॥
प्रविशन्तु तनुं देवि मदीयां मुक्तिदायिकाम् ॥ ७२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्न्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये मुक्तीश्वरमाहात्म्यवर्णनन्नाम पञ्चविंशतितमोऽध्यायः॥२५॥