०२४ महालयेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
महालयं महाभागे चतुर्विंशतिकं शुभम् ॥
ब्रह्मादिस्तम्बपर्यन्तं त्रैलोक्यं सचरा चरम् ॥ १ ॥
उत्पादितं धृतं व्याप्तं त्वया देव मया श्रुतम् ॥
त्वयैकेन विशुद्धेन सर्वगेन महात्मना ॥ २ ॥
अत्यर्थं मुनयः सर्वे मुदिता मौनिनो ऽव्ययाः ॥
वदन्ति कारणं चास्य त्रैलोक्यस्य महेश्वर ॥ ३ ॥
त्वया सर्वमिदं सृष्टं त्रैलोक्यं भूर्भुवादिकम् ॥
उत्पाद्यमानमुत्पन्नं प्रलीयच्च सहस्रशः ॥ ४ ॥
देवदानवगन्धर्वमुनिचारणभोगिनाम् ॥
उत्पत्तिस्थितिसंहारास्त्वया दृष्टा मुहुर्मुहुः ॥ ५ ॥
जगच्चराचरं देव कुत्र स्थित्वासृजस्य लम् ॥
लीलया संहरस्येतत्प्रसादाद्वक्तुमर्हसि ॥ ६ ॥
कोऽसौ महालयो रौद्रग्रहरूपी व्यवस्थितः ॥
यस्मिन्धृतं त्वया सर्वं त्रैलोक्यं भूर्भुवादिकम् ॥ ॥ ७ ॥
इति पृष्टस्त्वया देवि मया ते कथितं पुरा ॥
इदानीं कथयिष्यामि शृणुष्वैकाग्रमानसा ॥ ८ ॥
पृथिव्यादीनि भूतानि महाकालवने प्रिये ॥
धृतानि प्रलयस्यान्ते एकोद्देशे महालये ॥ ९ ॥
ब्रह्मलोकादिभिर्लोकैरनौपम्यगुणं शुभम् ॥
स्थानं महालयं तत्र ममानन्दकरं परम् ॥ 5.2.24.१० ॥
परं ब्रह्ममयं लिङ्गं तत्र तिष्ठति सर्वदा ॥
तस्य लिङ्गस्य मध्ये तु धृतं कृत्स्नं चराचरम् ॥ ११ ॥
तत्र ब्रह्मादयो देवा विष्णुस्तत्रैव संस्थितः ॥
लिङ्गस्याभ्यन्तरे देवि सर्वमेवाधितिष्ठति ॥
तस्माल्लिङ्गात्समुत्पन्नो महानात्मा महामतिः ॥ १२ ॥
भूतादिश्चाप्यहङ्कारो विष्णुः शम्भुश्च पार्वति ॥
बुद्धिः प्रज्ञा धृतिः ख्यातिः स्मृतिर्लज्जा सरस्वती ॥१३॥
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१४॥
अस्माद्भूतानि लिङ्गानि महाभूतानि पञ्च वै ॥
पृथिवी वायुराकाशमापो ज्योतिः प्रलीयते ॥ १५ ॥
स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम्॥
अण्डजोद्भिज्जं च सस्वेदं जरायुजमथापि वा ॥ १६ ॥
चतुर्द्धा जन्मचिह्नं यल्लिङ्गेस्मिन्नेव लक्ष्यते ॥
तपः कर्म च पुण्यं च व्रतं दानं तथैव च ॥ १७ ॥
रजःसत्त्वं तमोभावस्तस्माल्लिङ्गाच्च जायते ॥
तस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥ १८ ॥
अव्यक्तकारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः ॥ १९ ॥
विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितर स्तथा ॥ 5.2.24.२० ॥
आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥
संवत्सरर्तवो मासाः पक्षाहोरात्रयस्तथा ॥ २१ ॥
यच्चान्यदपि तत्सर्वं सम्भूतं लोक साक्षिकम् ॥
यदिदं दृश्यते किञ्चित्तस्यान्ते च प्रलीयते ॥ २२ ॥
अतो महालयोनाम विख्यातो भुवनत्रये ॥
मुक्तीश्वरस्य देवस्य दक्षिणे संव्यव स्थितः ॥ २३ ॥
यः पूजयति तल्लिङ्गं रुद्रमूर्त्या महालयम् ॥
त्रैलोक्यविजयी नित्यं कीर्त्तिमान्स नरो भवेत् ॥ २४ ॥
महालयेश्वरे पुण्ये पूजिते परमेश्वरे ॥
भक्त्या परमया चैव सर्वे देवाः सुपूजिताः ॥
भवन्तीह महाभागे यतस्तैरपि पूज्यते ॥ २५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये महालयेश्वरमाहात्म्यवर्णनन्नाम चतुर्विंशोऽध्यायः ॥ २४ ॥