॥ श्रीहर उवाच ॥ ॥
मेघनादेश्वरं देवि त्रयोविंशतिमं शृणु ॥
यस्य दर्शनमात्रेण प्राप्यते सर्वसिद्धयः ॥१॥
राजमूला महादेवि योगक्षेमाः सुवृष्टयः॥
प्रजाश्च व्याधयश्चैव मरणं च भयानि च ॥२॥
राजा कृतं तथा त्रेता द्वापरश्च तथा कलिः ॥
राजमूलानि सर्वाणि राजाधर्मस्य कारणम् ॥ ३ ॥
राजा बभूव लोकेऽस्मिन्मदान्धोनाम पार्वति ॥
अहङ्कारावृतो दुष्टो देवब्राह्मणकण्टकः ॥ ४ ॥
कलि द्वापरयोः सन्धौ तस्य दोषाच्च भामिनि ॥
अनावृष्टिरभूद्धोरा लोके द्वादशवार्षिकी ॥ ५ ॥
न ववर्ष सहस्राक्षः प्रतिलोमोऽभवत्प्रभुः ॥
नादृश्यन्तापि रात्र्यन्ते कुत एवाभ्रजातयः ॥ ६ ॥
नद्यः सङ्क्षिप्ततोयौघाः क्वचिदन्तर्हितास्तदा ॥
निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गलाः ॥ ७ ॥
उच्छिन्नकृषि गोरक्षा निवृत्तविपणास्तथा ॥
अस्थिकङ्कालसङ्कीर्णा हाहाभूतनराकुलाः ॥ ८ ॥
शून्यभूयिष्ठनगरा दग्धग्रामनिवेशिनः ॥
गोजाश्वमहिषैर्हीना भक्ष्यमाणाः परस्परम् ॥ ९ ॥
आश्रमान्सम्परित्यज्य पर्यधावन्नितस्ततः ॥
ब्राह्मणा दुःखबहुला मृता नष्टाश्च पार्वति ॥ 5.2.23.१० ॥
सूष्टिरुन्मूलिता सर्वा जङ्गमा स्थावराखिला ॥
एतस्मिन्नन्तरे देवाः शक्राद्या भयविह्वलाः ॥ ११ ॥
शरण्यं शरणं जग्मुर्देवदेवं जनार्दनम् ॥
क्षीरोदस्योत्तरे कूले श्वेतद्वीपं मनोरमम् ॥ १२ ॥
ब्रह्मलोकादिभिर्लोकैरनौपम्यगुणं शुभम् ॥
सदानन्दकरं शान्तं सूर्यकोटिसमप्रभम् ॥ १३ ॥
स्वेच्छाकल्पितवि न्यासप्रासादशयनासनम् ॥
वज्रेन्द्रनीलवैडूर्यचन्द्रकान्तादिदीपितम् ॥ १४ ॥
जरामृत्युभयोपेतसर्वव्याधिविवर्जितम् ॥
तस्मिन्द्वीपे ततो देवि सूर्य कोटिसमप्रभम् ॥
साष्टाङ्गां प्रणतिं कृत्वा ते देवाः स्तुतिमब्रुवन् ॥ १५ ॥
भवान्ब्रह्मा च रुद्रश्च महेन्द्रो देवसत्तमः ॥
भवान्कर्त्ता विकर्त्ता च लोकानां प्रभवोऽव्ययः ॥ १६ ॥
एवं च सत्यं परमं तपश्च परमं तथा ॥
पवित्रं परममार्गं यज्ञस्त्वं परमः प्रभो ॥ १७ [॥
परं हौत्रं परं धाम त्वामाहुः पुरुषं परम् ॥
एवं स्तुतस्तदा तैस्तु देवदेवो वरानने ॥ १८ ॥
प्राह देवांस्ततः कृष्णः किं करोम्यद्य वः सुराः ॥
विज्ञप्तस्तैर्हरिर्देवो ह्यनावृष्ट्या प्रपीडितैः ॥ १९ ॥
उपायः कथ्यतां देव तुष्टिः धुष्टिर्यथा भवेत् ॥
ध्यानेन चिन्तयित्वा च कथयामास केशवः ॥ 5.2.23.२० ॥
गच्छध्वं त्रिदशाः सर्वे महाकालवने शुभे ॥
लिङ्गं वृष्टिकरं तत्र पुरा मेघैः प्रतिष्ठितम् ॥ २१ ॥
मेघा वृष्टिकराः सर्वे तस्मिल्ँलिङ्गे च सन्ति वै ॥
तस्य लिङ्गस्य माहात्म्याद्वृष्टिरेव भविष्यति ॥ २२ ॥
प्रतीहारेश्वराद्देवादीशाने विद्यते सुराः ॥
तस्य तद्वचनं श्रुत्वा वासुदेवस्य पार्वति ॥२३॥
महाकालवने प्राप्ता यत्रास्ते लिङ्गमुत्तमम् ॥
तुष्टुवुः परया भक्त्या दृष्ट्वा देवं मनोरमम् ॥ २४ ॥
नमस्तेऽस्तु महेशाय नमोऽनन्ताय मालिने ॥
नमस्तैजसमूर्त्ताय नमः सौन्दर्यशालिने ॥ २५ ॥
नमो योगाय वेदाय नमः पिङ्गजटाय ते ॥
अनन्तज्ञानदेहाय नम ईश्वरमूर्त्तये ॥ २६ ॥
नमः शुभ्राट्टहासाय नमस्तेऽस्तु शिखण्डिने ॥
शङ्कराय नमस्तेऽस्तु नमस्तेस्तु पिनाकिने ॥ २७ ॥
नमोंऽतकाय भव्याय त्र्यम्बकायास्तु ते नमः ॥
नमस्ते बहुरूपाय नमस्तेऽचिन्त्यमूर्त्तये ॥ २८ ॥
नमो योगशरीराय नमस्ते सर्व सर्वदा ॥
नष्टं देव जगत्सर्वमनावृष्ट्या प्रपीडितम् ॥ २९ ॥
सुवृष्ट्या देवदेवेश पाहि नः शरणागतान् ॥
एतस्मिन्नन्तरे मेघा पार्वणाङ्गारवर्चसः ॥ 5.2.23.३० ॥
लिङ्गमध्यात्समुत्तस्थुर्वादयन्तो नभस्तलम् ॥
अन्योन्यवेगाभिहता ववृषुर्भूतले तदा ॥ ३१ ॥
जातं विनिष्प्रभं सर्वं न प्राज्ञायत किञ्चन ॥
तिमिरौघपरिक्षिप्ता रेजुश्चाथ दिशो दश ॥ ३२ ॥
ते तस्य देवदेवस्य माहात्म्येन प्रतोषिताः ॥
देवाः प्रीतिं परां जग्मुः सर्वेऽमृतमिवोत्तमाः ॥ ३३ ॥
ततस्तमः संहरतो विनेशुश्च बलाहका ॥
प्रववुः शीतला वाताः प्रशान्ताश्च दिशो दश ॥ ३४ ॥
शुद्धप्रभाणि ज्योतींषि सोमं चक्रुः प्रदक्षिणाम् ॥
अविग्रहं ग्रहाश्चक्रुः प्रशान्ताश्चापि सिन्धवः ॥ ३५ ॥
महर्षयो विशोकाश्च गन्धर्वाश्च कलं जगुः ॥
अभूत्सृष्टिः पुनः सर्वा लिङ्गस्यास्य प्रभावतः ॥ ३६ ॥
सुरैः सम्पूज्य भक्त्या ते चक्रुर्नाम यथार्थतः ॥
अस्य लिङ्गस्य माहात्म्यं दृष्ट्वा प्रीताः सुरा बहु ॥ ३७ ॥
मेघनादेश्वरं नाम भविष्यत्यस्य सर्वतः ॥
मेघनादेश्वराख्यानं मया ते कथितं प्रिये ॥ ३८ ॥
भविष्यन्ति नरा भूमौ कृतार्थास्तत्प्रभावतः ॥
दर्शनादस्य लिङ्गस्य कामवृष्टिर्भविष्यति ॥ ३९ ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥
कुर्वंल्लिङ्गस्य स्नपनं रुद्रलोके महीयते ॥ ४० ॥
प्रभावः पठ्यते यत्र मेघनादस्य पार्वति ॥
अतिवृष्टिश्चैव ततो भविष्यति च भूतले ॥ ४१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमआवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये मेघनादेश्वरमाहात्म्यवर्णनन्नाम त्रयोविंशो ऽध्यायः ॥ २३ ॥ ॥ अ ॥ ॥