॥ ईश्वर उवाच ॥ ॥
एकोनविंशतितमं नागचण्डेश्वरं प्रिये ॥
निर्माल्यलङ्घनाप्तपापान्मुच्यते यस्य दर्शनात॥१॥
तस्य प्रभावं सुभगं कथयाम्यथ विस्तरात्॥
शृण्वेकाग्रमना देवि सर्वपापप्रणाशनम्॥ २ ॥
पुरा देवर्षिगन्धर्वाश्चारणा गुह्यकास्तथा ॥
उपविष्टाः सुधर्मायां कथयन्तः शुभां कथाम् ॥ ३ ॥
एतस्मिन्नन्तरे शक्रो देवर्षिं नारदं मुनिम् ॥
पप्रच्छ सादरं देवि समायातं शुचिव्रतम् ॥ ४ ॥
दृष्ट्वा विनयसम्पन्नं ब्रह्मचर्यपरायणम् ॥
मेखलाजिनकौपीनं वीणादण्डविभूषितम्॥५॥
त्वया दृष्टमिदं सर्वं त्रैलोक्यं भूर्भुवादिकम्॥
उत्पाद्यमानमुत्पन्नं प्रलयच्च सहस्रशः ॥६॥
त्वत्तुल्यो नास्ति लोकेऽस्मिन्मु क्त्वैकं परमेष्ठिनम्॥
जगत्कारणमव्यक्तं नित्यं सदसदात्मकम्॥ ७ ॥
योगेन तपसा भक्त्या यत्त्वया परितोषितः ॥
त्रैलोक्यमभिजानासि तत्सर्वं सर्वतः स्फुटम्॥ ८ ॥
अतोऽहं प्रष्टुमिच्छामि कथ्यतां मम निश्चयम् ॥
पृथिव्यां प्रवरं क्षेत्रं पावनं भुक्तिमुक्तिदम् ॥ ९ ॥
एवं श्रुत्वा तदा ध्यात्वा चिन्तयामास नारदः ॥
चिन्तयित्वा चिरं कालमिदं वचनमब्रवीत् ॥5.2.19.१०॥
देवराज स्मृतं पुण्यं क्षेत्रराजमनुत्तमम् ॥
क्षेत्राणामुत्तमं क्षेत्रं प्रयागं च प्रश स्यते ॥ ११ ॥
तस्माद्दशगुणं क्षेत्रं महाकालस्य कथ्यते ॥
भुक्तिदं मुक्तिदं तच्च दर्शनादपि वासव ॥ १२ ॥
एतच्छ्रुत्वा सहस्राक्षो वर्णयित्वा च तं मुनिम्॥
सर्वैर्देवगणैः सार्द्धं विमानस्थस्त्वरान्वितः ॥ १३ ॥
अन्तरिक्षस्थितो जिष्णुरद्राक्षीच्च सुरैः सह ॥
क्षेत्रं लिङ्गैः समाकीर्णमङ्गुलस्यान्तरं न हि ॥ १४ ॥
षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ॥
महाकालवने रम्ये निर्माल्यं लङ्घ्यते कथम् ॥ १५ ॥
निर्माल्यलङ्घनाद्दोषो महान्भवति निश्चितम्॥
इत्यालोच्य पुनर्देवि जग्मुः स्वर्गे मनोरमाः ॥ १६ ॥
निर्माल्यदोषभीतास्ते क्षेत्रे न विविशुः सुराः ॥
एतस्मिन्नन्तरे देवि विमानस्था गणोत्तमाः ॥ १७ ॥
गणैर्नानाविधैः गेयैर्गीयमानश्च किन्नरैः ॥
चारणैः स्तूयमानस्तु स्वर्गलोकं व्रजन्सुरैः ॥ १८ ॥
प्रफुल्लनयनैर्दृष्टः कोऽयं धन्यो महातपाः ॥
तेजसा दीप्यमानोयम्पसरोभिश्च सेव्यते ॥ १९ ॥
पप्रच्छुरमराः सर्वे कोऽयं रुद्रनिभो गणः ॥
याति कुत्र महाबाहो हृष्टात्मा प्रहसन्मुखः ॥ 5.2.19.२० ॥
पृष्टस्तदा सुरैः सर्वैर्विस्मयाविष्टमानसैः ॥
कस्त्वं पुरुषशार्दूल किं त्वया सुकृतं कृतम् ॥ २१ ॥
देवानां पुरतो देवि निःशेषं कथितं तदा ॥
महाकालो महादेवः पूजितो भक्तितः स्तुतः ॥ २२ ॥
हृष्टेन तेन मे दत्तं गणत्वं यत्सुदुर्लभम् ॥
नाम दत्तं च सुभगं नागचण्ड इति ध्रुवम् ॥ २३ ॥
पप्रच्छुरमरास्तच्च सादरं गणसत्तम ॥
नागचण्ड त्वया तत्र निर्माल्यं पतितं त्वथ ॥ २४ ॥
महाकालवने पुण्ये लङ्घितं चरता त्वया ॥
सञ्चारो नास्ति तत्रैव लिङ्गसङ्कीर्णता यतः ॥ २५ ॥
उपायस्तेन कथितो देवानां पुरतस्तदा ॥
तत्र तिष्ठति देवेशा लिङ्गं सर्वफलप्रदम् ॥ २६ ॥
ईशानेश्वरदेवस्य तिष्ठतीशानभागतः ॥
तस्य दर्शनमात्रेण न स गच्छति दुष्कृतम् ॥ २७ ॥
निर्माल्यलङ्घनोद्भूतं यत्पापं जायते महत् ॥
तत्सर्वं नाशमायाति तस्य लिङ्गस्य दर्शनात् ॥ २८ ॥
ततो देवगणाः सर्वे महाकालवने पुनः ॥
समायाता महाभागा महाकालश्च पूजितः ॥ २९ ॥
यथा लिङ्गं च तद्दृष्टं सर्वदोषक्षयङ्करम् ॥
तस्य दर्शनमात्रेण निर्माल्यलङ्घनादिभिः ॥
दोषो नष्टः सुराणां च ततो नामास्य चक्रिरे ॥ 5.2.19.३० ॥
अस्माकं तेन कथितं नागचण्डेन धीमता ॥
नागचण्डेश्वराख्यानमतो लोके भविष्यति ॥ ॥ ३१ ॥
कृत्वास्य नाम ते देवा जग्मुः स्वर्गेहमुत्तमम् ॥
पूजयिष्यन्ति ये केचिन्नागचण्डेश्वरं शिवम् ॥
निर्माल्यलङ्घनोद्भूतं तेषां नश्यति पातकम्॥ ॥ ३२ ॥
नागचण्डेश्वरं देवं ये पश्यन्ति दिनेदिने ॥
अज्ञानाज्ज्ञानतः पापं तेषां नश्यति नान्यथा ॥ ३३ ॥
आह्लादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपताम् ॥
सप्त जन्मान्यवाप्नोति दर्शनेन न संशयः ॥ ३४ ॥
प्राप्नोत्यभिमतान्कामान्देवानामपि दुर्लभान् ॥
कीर्त्तनान्नात्र सन्देहो नागचण्डेश्वरस्य च ॥ ३५ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
नागचण्डेश्वरस्यैव प्रतीहारेश्वरं शृणु ॥ ३६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये नागचण्डेश्वरमाहात्म्यवर्णनन्नामैकोनविंशोऽध्यायः ॥ १९ ॥ छ ॥ ॥