०१८ कलकलेश्वरमाहात्म्यवर्णनम्

॥ श्रीशिव उवाच ॥ ॥
देवमष्टादशं विद्धि ख्यातं कलकलेश्वरम् ॥
यस्य दर्शनमात्रेण कलहो नैव जायते ॥ १ ॥
सर्वदुःखोपशमनं सर्वपाप प्रमोचनम्॥
व्याधिसर्पाग्निचौराणां शमनं वाञ्छितप्रदम् ॥ २ ॥
मम देवि त्वया सार्द्धं कलहः समपद्यत ॥
पुरा विस्तरतो वच्मि शृण्वेकाग्रमनाः शुभे ॥ ३ ॥
यदा त्वं हिमशैलस्य दुहिता वरवर्णिनि ॥
तदा विवाहितं कान्ते यथोक्तविधिना मया ॥ ४ ॥
विनिवृत्ते विवाहे च त्वया सार्द्धं वरानने ॥
महाकालीति नाम्ना वै वर्णेनापि च तादृशी ॥ ५ ॥
नीलोत्पलनिभप्रख्या नीलकुञ्चितमूर्द्धजा ॥
अप्येकस्मिंस्तदा त्वं हि मातॄणां मण्डपे शुभे ॥
मध्ये समुपविष्टासि कृष्णाञ्जनसमप्रभा॥ ६ ॥
कालि सुन्दरि मत्पार्श्वे वल्लभे त्वमुपाविश ॥
शरीरे मम तन्वङ्गि सिते भास्यसितद्युतिः॥७॥
भुजङ्गीवासिता शुभ्रे संश्लिष्टा चन्दने तरौ ॥
रजनीवासिते पक्षे दृष्टिदोषहरासि मे ॥ ८ ॥
इत्युक्तासि मया देवि गिरिजे चारुहासिनि ॥
तदा प्रोक्तं त्वया वाक्यं मामुद्दिश्य सगद्गदम् ॥ ९ ॥
यदा त्वया मदर्थे हि प्रेरिता वेदपारगाः ॥
सप्तर्षयो महाभागाः किङ्कृते न तदात्थ माम् ॥ 5.2.१० ॥
तदा त्वया मदर्थेऽपि प्रार्थितो जनको मम ॥
हिमाद्रिराजो यत्नेन किं काली न तदात्थ माम् ॥ ११ ॥
यदाप्युक्तं त्वया दैन्यान्मदर्थे गच्छ नारद ॥
प्रार्थ्यतां पार्वती शीघ्रं किं काली न तदात्थ माम् ॥ १२ ॥
सत्येयं लौकिकी गाथा न वृथा परिजायते ॥
स्वकृतेन जनः सर्वो जाड्येन परि भूयते ॥ १३ ॥
अवश्यमर्थी प्राप्नोति खण्डनां तुण्डमुण्डनाम्॥
तपोतिदीर्घचारैर्तयत्त्वां प्रार्थितवत्यहम् ॥ १४ ॥
तस्या मे नियतस्त्वेष ह्यवमानः पदेपदे ॥
नैवास्मि कुटिला रौद्रा विषमा न च धूर्जटे ॥ १५ ॥
नाकुलीना वृथाचारा न दुष्टा न समत्सरा ॥
सविषस्त्वं यतः ख्यातो व्यक्तं दोषा कराश्रयः ॥१६॥
अकुलीनो वृथाचारो मात्सर्येणाश्रितः सदा ॥
नाहं मुष्णामि नयने तत्र हन्ता त्वमेव च ॥१७॥
आदित्यस्त्वां विजानातु भगवान्द्वादशात्मकः ॥
मया नोत्पाटिता दन्ताः कस्यापि निरपत्रप ॥१८॥
पूषादेवो विजानाति द्वादशात्मा दिवाकरः ॥
मूर्ध्नि शूलं तव यतः स्वैदोषैर्मामधिक्षिपः ॥१९॥
यत्तु मामाह कृष्णेति महाकालेति विश्रुतः॥
इत्यथापि प्रवादोऽयं प्रवरः ख्यामि ते हर ॥5.2.२०॥
निदर्शनार्थं न द्वेषाच्छ्रुत्वा तं क्षन्तुमर्हसि॥
विरूपो यावदादर्शे नात्मनः पश्यते मुखम्॥२१॥
मन्यते तावदात्मानमन्येभ्यो रूपवत्तमम् ॥
यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते॥२२॥
तदेतरं विजानाति ह्यात्मानं नेतरं जनम्॥
सत्यधर्मच्युतात्पुंसः क्षुद्रादाशीविषादिव ॥ २३ ॥
स नास्तिकोप्युद्विजते जनः किं पुनरास्तिकः ॥
इत्युक्तोऽहं त्वया देवि मया कोलाहलः कृतः ॥ २४ ॥
अनात्मज्ञासि गिरिजे मृडे पण्डितमानिनि ॥
सत्यं सर्वैरवयवैः स्तुतोऽपि सदृशः पितुः ॥२५॥
काठिन्यं कष्टमभ्येति धातुभ्यो बहुघातिता ॥
कुटिलत्वं च सर्वेभ्योऽसेव्यत्वं च हिमादिव ॥२६॥
इत्युक्ताऽसि मया देवि पुनः प्रोक्तं त्वया वचः ॥
तथापि दुष्टसंसर्गात्सङ्क्रान्तं सर्वमेव हि ॥२७॥
व्यालेभ्योऽनेकजिह्वत्वं भस्मतः स्नेहवर्जनम् ॥
हृत्कालुष्यं शशाङ्काद्वै दुर्बोधत्वं वृषादपि॥२८॥
श्मशानवासाद्भीरुत्वं नग्नत्वं च न लज्जया ॥
निर्घृणत्वं कपालाच्च दया ते विगता चिरम् ॥ २९ ॥
एवं तदाभवद्रौद्रः कलहो भयकृच्छुभे ॥
एवं प्रवृत्ते तु तदा कम्पितं भुवनत्रयम् ॥ 5.2.३० ॥
भीताश्च देवगन्धर्वा यक्षगन्धर्वराक्षसाः ॥
तस्मात्कोलाहलो भूमिं भित्त्वा लिङ्गमभूत्तदा ॥ ३१ ॥
लिङ्गमध्यात्समुत्पन्ना वाणी सुखकरी शुभा ॥
आश्वासयन्ती देवान्वै त्रैलोक्यं सचराचरम् ॥ ३२ ॥
नामास्य चक्रुर्देवेशास्तदा कलकलेश्वरम् ॥
स्वरनामासौ ततोऽभूच्छङ्करो भुवि विश्रुतः ॥ ३३ ॥
यस्तमर्चयते भक्त्या देवं कलकलेश्वरम्॥
न राक्षसाः पिशाचाश्च न भूता न विनायकाः ॥
विप्रं कुर्युर्वरारोहे कलहो न भवेद्गृहे ॥ ३४ ॥
सुशीला गृहिणी तस्य सुरूपा सुभगा प्रिये ॥
बहुपुत्रा बहुधना जायते दर्शनात्तथा ॥ ३५ ॥
ये पश्यन्ति चतुर्द्दश्यां देवं कलकलेश्वरम् ॥
न दुःखं न जराव्याधिर्नाकालमरणं तथा ॥ ३६ ॥
न च शत्रुभयं तेषां जायते गिरिपुत्रके ॥
लोकोऽक्षयो भवेद्देवि यावदिन्द्राश्चतुर्द्दश ॥ ३७॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
यस्य श्रवणमात्रेण क्षेममत्र परत्र च ॥ ३८ ॥
इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कलकलेश्वरमाहात्म्यवर्णनन्नामाष्टादशोऽध्यायः ॥ १८ ॥।छ॥।