॥ ईश्वर उवाच ॥ ॥
देवं सप्तदशं विद्धि विख्यातमप्सरेश्वरम् ॥
यस्य दर्शनमात्रेण लोकोऽभीष्टानवाप्नुयात् ॥ १ ॥
नन्दनाख्ये वने देवि सर्वकामसमन्विते ॥
सिद्धचारणगन्धर्वकिन्नरोद्गीतनादिते ॥ २ ॥
शुककोकिलचक्राह्वचकोरकुररावृते ॥
दिव्यलोकोपमस्थाने त्रिविष्टपवि भूषणे ॥ ३ ॥
तत्रोपविष्टो वृत्रारिः सुरज्येष्ठश्च सेवितः ॥
ननर्त्त रम्भा तस्याग्रे नृत्यभावान्विवृण्वती ॥ ४ ॥
ततोन्यचित्ता सञ्जाता किञ्चित्स्मृत्वा प्रमादतः ॥
लयतालविहीना च दृष्टा वै वासवेन सा ॥ ५ ॥
चुकोप च सुरश्रेष्ठस्तस्याः शापं ददौ किल ॥
विस्मृतिर्मानुषं कर्म न दिव्यं क्वापि दृश्यते ॥
तस्मात्तु मानुषे लोके गच्छ त्वं निष्प्रभा सती ॥ ६ ॥
अथेन्द्रकोपसङ्क्षोभात्पतिता भुवि साप्सराः॥
निश्चेष्टा विकलीभूता रुदती विस्वरं बहु ॥ ७ ॥
करुणं विलपन्ती च किं मया दुष्कृतं कृतम् ॥
निर्मलं न तपस्तप्तं कथं नाराधितः सुरः ॥ ८ ॥
अथाप्सरोगणः सर्वः सखीगण समन्वितः ॥
रम्भा यत्रैव पतिता समायातो वरानने ॥
तस्याः शोकाग्निदाहेन सन्तप्तोऽप्सरसां गणः ॥ ९ ॥
सुसुप्ता पद्मिनी साभ्रे यथा नैव विराजते ॥
तथा शापेन विध्वस्ता रम्भा नो राजते सदा ॥ 5.2.17.१० ॥
सखीगणैः परिवृता रम्भा दृष्टा वरानने ॥
देवर्षिणा नारदेन विस्मितेनान्तरात्मना ॥ ११ ॥
कस्मादप्सरसः सद्यो दृश्यन्ते शोकविह्वलाः ॥
कस्माच्च करुणं रम्भा रोदित्येषा मुहुर्मुहुः ॥ ॥ १२ ॥
पप्रच्छ च समागत्य कस्मादप्सरसो वराः ॥
विषण्णवदना दीनाः कथ्यतां मम सादरम् ॥ १३ ॥
वृत्तान्तं कथयामासुस्ताश्च तस्मै पुरातनम् ॥
श्रुत्वा च नारदस्तत्र ध्यानासक्तोऽभवन्मुनिः ॥ १४ ॥
उपायं कथयामास हितं तासां प्रयत्नतः ॥
गच्छन्त्वप्सरसः सर्वा महाकालवनोत्तमे ॥ १५ ॥
आराधयध्वं देवेशं लिङ्गं सर्वार्थसाधकम् ॥
पृच्छादेव्यास्तु पुरतः पुरा कल्पे प्रपूजितम् ॥ १६ ॥
उर्वश्या मम वाक्येन भर्त्ता प्राप्तः पुरूरवाः ॥
नारदस्य वचः श्रुत्वा समाजग्मुर्गणास्तथा ॥ १७ ॥
महाकालवने रम्ये लिङ्गाराधनकाम्यया ॥
ततस्तुष्टः स्वयं रुद्रस्तासां भक्त्या वरं ददौ ॥ १८ ॥
रम्भे प्राप्स्यसि सौभाग्यं स्वर्गलोकं यशस्विनि ॥
भविष्यसि महाभागे जिष्णोस्त्वं वल्लभा धुवम् ॥ १९ ॥
तस्मात्त्रिविष्टपं गच्छ सङ्घेनानेन पूजिता ॥
आराधितोऽप्सरोभिश्च पुरा स्वर्गार्थकाम्यया ॥
अतोप्सरेश्वरः ख्यातो ययौ ख्यातिं जगत्त्रये ॥ 5.2.17.२० ॥
ये समाराधयिष्यन्ति भक्त्या चाप्सरसेश्वरम् ॥
ते सर्वकामसम्पूर्णा भविष्यन्ति युगेयुगे ॥ २१ ॥
प्रेरयिष्यन्ति ये लोके दर्शनार्थं यशस्विनि ॥
स्थानभ्रंशो वियोगश्च तेषां स्वप्ने न जायते ॥ २२ ॥
किं दानैः किं तपोभिश्च किं यज्ञैर्बहुदक्षिणैः ॥
स्पर्शनाल्लभते राज्यं स्वर्गं मोक्षं क्रमेण तु ॥ २३ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
अप्सरेश्वरदेवस्य श्रूयतां कल्कलेश्वरः ॥ २४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्येऽप्सरेश्वरमाहात्म्यवर्णनन्नाम सप्तदशोऽध्यायः ॥ १७ ॥ ॥ छ ॥ ॥