०१६ ईशानेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ईशानेश्वरसञ्ज्ञं तु षोडशं विद्धि पार्वति ॥
यस्य दर्शनमात्रेण ऐश्वर्यं जायते नृणाम्॥ १ ॥
तुहुण्डेन पुरा देवि सर्वे ह्युपद्रुताः सुराः ॥
ऋषयश्च महाभागा यक्षगन्धर्वकि न्नराः ॥ २ ॥
नन्दनाख्यं वनं सर्वं तदधीनमभूत्किल ॥
ऐरावणं द्विपेन्द्रं च जित्वा द्वारि समादधत् ॥ ३ ॥
उच्चैःश्रवससञ्ज्ञं तु हृतवान्दानवेश्वरः ॥
देवाङ्गनानां सर्वासां विध्वंसं कर्तुमुद्यतः ॥ ४ ॥
स्वर्गमार्गः खिलीभूतस्तद्भयेन ह्यभूत्सति ॥
हृताधिकारा देवाश्च मन्त्रं समुपचक्रमुः ॥ ५ ॥
तस्मिन्काले च कालज्ञो नारदोऽथ महामुनिः ॥
आजगाम महातेजा भ्रममाणश्च मन्त्रिभिः ॥ ६ ॥
देवैर्नमस्कृतः सोऽथ पूजितश्च यथाविधि ॥
निवेदितं यथावृत्तं तुहुण्डस्य विचेष्टितम् ॥ ७ ॥
पप्रच्छुरथ ते मन्त्रं नारदं मुनिसत्तमम् ॥
कथयस्व महाबुद्धे सर्वं जानासि सर्व्वतः ॥ ८ ॥
ईदृक्काले समायाते किं कर्त्तव्यं महामुने ॥
नाज्ञातं त्रिषु लोकेषु किञ्चिद्देवर्षिसत्तम ॥ ९ ॥
मुहूर्तं ध्यानमालम्ब्य किञ्चिन्मील्य च लोचने ॥
उपायं कथयामास सर्वदुःखविनाशनम् ॥ 5.2.16.१० ॥
महाकालवने रम्ये शीघ्रं गच्छन्तु विह्वलाः ॥
इन्द्रद्युम्नेश्वरस्यैव पश्चाद्भागे व्यवस्थिताः ॥
सेवध्वं परमं लिङ्गमीशानेश्वरसञ्ज्ञकम् ॥ ११ ॥
पुरा चेशानकल्पे तु ईशानेन सुखेन हि ॥
मुनिना श्रोत्रियेणैव वेदाभ्यासरतेन वै ॥
उत्तमाङ्गपदं लब्धं शङ्करस्य च मूर्द्धनि ॥ १२ ॥
तस्याराधनमात्रेण मनोऽभीष्टं हि लभ्यते ॥ १३ ॥
नारदस्य वचः श्रुत्वा देवा मुदितमानसाः ॥
जग्मुर्यत्र महल्लिङ्गं स्तुतिं सर्वेऽप्यकुर्वत ॥ १४ ॥
ईशानेशान ईशान तत्पुरुष नमोऽस्तु ते ॥
नमो वाम महाघोर सद्योमुख नमोनमः ॥ ॥ १५ ॥
त्र्यक्ष भर्ग महादेव उमाकान्त नमोनमः ॥
नमः शिव नमो भीम नमः सर्व नमोनमः ॥ १६ ॥
नमः शम्भो नमो रुद्र विरूपाक्ष नमोनमः ॥
त्वया देव प्रजाः सर्वाः सदेवासुरमानुषाः ॥ १७ ॥
स्थावराणि च भूतानि जङ्गमानि चराणि च ॥
ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महेश्वर ॥ १८॥
शिरस्ते गगनं देवा नेत्रे शशिदिवाकरौ ॥
निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युतः ॥ १९ ॥
बाहवस्ते दिशः सर्वाः कुक्षिश्चैव महार्णवः ॥
उरू ते पर्वता देव चरणौ पृथिवी मता ॥ 5.2.16.२० ॥
इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः ॥
प्रह्वास्त्वामनुतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः ॥ २१ ॥
त्वया व्याप्तानि भूतानि सर्वाणि भुवनेश्वर ॥
त्वयि तुष्टे जगत्तुष्टं त्वयि क्रुद्धे महद्भयम् ॥ २२ ॥
भयानामपनेतासि त्वमेकः शत्रुसूदनः ॥
असुराणां समर्थानां विनाशश्च त्वया कृतः ॥ २३ ॥
न च विक्रमणैर्देव निर्वाणमगमत्परम् ॥
त्वं हि कर्त्ता विकर्त्ता च भूतानामिह सर्वशः ॥ २४ ॥
आराधयित्वा सर्वे ते नमस्यन्ति च सर्वशः ॥
एतस्मिन्नन्तरे देवि लिङ्गमध्यात्समुत्थिता ॥ २५ ॥
धूमावृता महा ज्वाला यया दग्धः स दानवः ॥
तुहुण्डो मुण्डपुत्रस्तु ससैन्यपरिवारितः ॥ २६ ॥
स्वाधिकारांश्च सम्प्रापुर्लिङ्गस्यास्य प्रभावतः ॥
सुरैश्चाख्या समादिष्टा लिङ्गस्यास्यैव हर्षितः ॥ २७ ॥
ऐश्वर्यशीलमस्यास्तीत्यस्माकं च विनिश्चितम् ॥
ईशान इति विख्यातस्त्रैलोक्ये च भविष्यति ॥ २८ ॥
ईशानेश्वरसञ्ज्ञं तु ये समाराधयन्ति च ॥
कीर्तिर्लक्ष्मीर्ध्रुवा तेषां सिद्धिः प्रीतिर्भविष्यति ॥ २९ ॥
पूज्यमानः सदा देवैर्गन्धर्वाप्सरसाङ्गणैः ॥
स्वर्गलोकं गमिष्यन्ति विमानैरुज्ज्वलैर्मुदा ॥ 5.2.16.३० ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः स्त्रियः कुमारिकाः ॥
यथाभिलषितान्कामानाप्नुवन्ति न संशयः ॥३१॥
यः करोति नरः सम्यग्दर्शनं नियमस्थितः ॥
न कुत्र तस्य हानिः स्याद्यावजन्मशतं भवेत् ॥ ३२ ॥
सर्वदा सर्वकार्येषु ते समर्था यशस्विनि ॥
ईशानेश्वरसञ्ज्ञं तु ये पश्यन्ति दिनेदिने ॥ ३३ ॥
एवं ते कथितो देवि प्रभावः पापनाशनः ॥
ईशानेश्वरदेवस्य श्रूयतामप्सरेश्वरः ॥ ३४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य ईशानेश्वरमाहात्म्यवर्णनन्नाम षोडशोऽध्यायः ॥ १६ ॥