०१५ इन्द्रद्युम्नेश्वरमाहात्म्यवर्णनम्

॥ श्रीमहादेव उवाच ॥ ॥
इन्द्रद्युम्नेश्वरं विद्धि शिवं पञ्चदशं प्रिये ॥
यस्य दर्शनमात्रेण यशः कीर्तिश्च जायते ॥ १ ॥
आसीद्राजा पुरा देवि इन्द्रद्युम्नो महीपतिः ॥
येनेयं रक्षिता पृथ्वी पिता पुत्रमिवौरसम् ॥ २ ॥
दृष्ट्वा सोऽथ बहून्यज्ञान्भूमौ प्रचुरदक्षिणान्॥
गतः स्वर्गं महात्मा वै सर्वकामफलप्रदम् ॥ ३ ॥
स चाथ प्रत्युतः स्वर्गान्नष्टकीर्तिर्यदा क्षितौ ॥
पपात भूमौ सहसा गतपुण्यो नरा धिपः ॥
पतितश्चिन्तयामास भ्रशं शोकपरिप्लुतः ॥ ४ ॥
कृतस्य कर्मणस्त्वत्र भुज्यते यत्फलं दिवि ॥
न चान्यत्क्रियते तद्यद्भूतलस्थेन भुज्यते ॥५॥
सोऽत्र दोषो मतस्तस्यामतस्तत्पतनं च यत् ॥
पतनात्तु महद्दुःखं परितापश्च जायते ॥६॥
स्वर्गभाजो भवन्तीह यावत्कीर्तिश्च जायते ॥
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः॥
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥७॥
अकीर्तिः कीर्त्त्यते यस्य लोके भूतस्य कस्यचित्॥
स पतत्यधमाल्ँलोकान्यावच्छब्दोऽस्य कीर्त्तितः ॥ ८ ॥
तस्मात्कल्याणवृत्तः स्यादन्यथा पतनं भुवि ॥
विधाय वृत्तं पापिष्ठं कीर्तिमेवाभिवर्द्धयेत् ॥ ९ ॥
अत्यन्तं श्लाघयाम्यत्र कीर्त्तिं स्वर्गकरां पराम् ॥
देवैरपि हि सा कीर्तिः काङ्क्ष्यते परमा यतः ॥ 5.2.15.१० ॥
यावत्कीर्त्तिर्मनुष्याणां वर्त्तते भुवि चाक्षया ॥
तेजः पुञ्जेन युक्तानि शरीराणि भवन्ति हि ॥ ११ ॥
न स्वेदो न च दौर्गन्ध्यं पुरीषं मूत्रमेव वा ॥
तेषां निर्वचनं राजा विधाता च त्रिविष्टपे ॥
उह्यन्ते ते विमानैश्च नानाभरणभूषिताः ॥ १२ ॥
एवं विमृश्य नृपतिरिन्द्रद्युम्नो वरानने ॥
स्वर्गकामो जगामाथ हिमवन्तं नगोत्तमम् ॥ १३ ॥
यत्र तेपे तपस्तीव्रं मार्कण्डेयो महामुनिः ॥
दृष्ट्वा प्रणम्य शिरसा साष्टाङ्गं च पुनःपुनः ॥
पप्रच्छ विनयोपेतस्तमृषिं शंसितव्रतम् ॥ १४ ॥
विदितास्तव धर्मज्ञ देवदानवराक्षसाः ॥
राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः ॥ १५ ॥
न तेऽस्त्यविदितं किञ्चिदस्मिल्ँलोके द्विजोत्तम ॥
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथ्यतां त्वया ॥
कथं कीर्त्तिर्ध्रुवा लोके जायते किं तपःफलात् ॥ १६ ॥
॥ मार्कण्डेय उवाच ॥ ॥
हन्त ते कथयिष्यामि यतः कीर्तिं समीहसे ॥
यावत्कीर्तिर्भूमिसंस्था तावद्वस सुरैः सह ॥
तद्गच्छ शीघ्रं धर्मज्ञ महाकालवनोत्तमम् ॥ १७ ॥
कल्कलेश्वरदेवस्य समीपे वाम भागतः ॥
लिङ्गं पापहरं तत्र समाराधय यत्नतः ॥ १८ ॥
तस्याभ्यर्चनमात्रेण लप्स्यसे कीर्तिमुत्तमाम् ॥
स्वर्गं सनातनं चैव यत्सुरैरपि दुर्ल्लभम् ॥ ॥ १९ ॥
गत्वा स पूजयामास तल्लिङ्गं कीर्तितं त्विदम् ॥
ततो देवाः सगन्धर्वाः प्रशस्य च मुदान्विताः ॥ 5.2.15.२० ॥
अन्तरिक्षे विमानस्था प्रोचुर्वाचं नराधिपम् ॥
त्वत्कीर्त्तिर्निर्मला जाता लिङ्गस्यास्य समर्चनात् ॥ २१ ॥
अद्यप्रभृति राजेन्द्र लिङ्गं त्वन्नाम नामतः ॥
ख्यातिं यास्यति लोकेऽस्मिन्निन्द्रद्युम्नेति निश्चितम्॥ २२ ॥
इन्द्रद्युम्नेश्वरं देवं पूजयिष्यन्ति ये नराः ॥
सर्वपापविनिर्मुक्ता विमानैः सर्वकामिकैः ॥ २३ ॥
स्वर्गं यास्यन्ति ते हृष्टाः स्तूयमानाः सुरर्षिभिः॥
किञ्चिच्च दुर्लभं लोके तेषां नैव भविष्यति॥२४॥
दर्शनं ये करिष्यन्ति लोभाद्वापि प्रसङ्गतः॥
तेषां कीर्तिर्यशः पुण्यं धर्मश्चैवं भविष्यति ॥ २५ ॥
न स्वर्गात्पतनं तेषां यावदिन्द्राश्चतुर्द्दश ॥
ये च पूजां करिष्यन्ति चतुर्दश्यां विशेषतः ॥
ते कुलं तारयिष्यन्ति मातृकं पैतृकं सदा ॥ २६ ॥
इत्युक्ता त्रिदशाः सर्वे लिङ्गं सम्पूज्य यत्नतः ॥
इन्द्रद्युम्नेन सहिताः पुनः स्वर्गं गताः प्रिये ॥ २७ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
इन्द्रद्युम्नेशदेवस्य श्रूयतामपरः प्रिये ॥ २८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य इन्द्रद्युम्नेश्वरमाहात्म्यवर्णनन्नाम पञ्चदशोऽध्यायः ॥ १५ ॥ छ ॥