०१४ कुटुम्बेश्वरमाहात्म्यवर्णनम्

॥ श्रीमहादेव उवाच ॥ ॥
कुटुम्बेश्वरसञ्ज्ञं तु देवं विद्धि चतुर्दशम् ॥
यस्य दर्शनमात्रेण गोत्रवृद्धिश्च जायते ॥ १ ॥
यदा देवासुरैः पूर्वं मथितः क्षीरसागरः ॥
तदा च निर्गतं देवि दुर्द्धरं दुःसहं विषम् ॥ २ ॥
कालकूटमयं रौद्रं विषं ज्वालाविभीषणम् ॥
दह्यते च जगत्तेन सदेवासुरमानुषम् ॥ ३ ॥
ततो देवगणाः सर्वे सासुरा यक्षराक्षसाः ॥
विषज्वालातिभीताश्च मामेव शरणं गताः ॥ ४ ॥
स्तुतोहं विविधैः स्तोत्रैरिदमुक्तं वरानने ॥
अमृतार्थे कृतो यत्नः सम्प्राप्तं मरणं विभो ॥ ५ ॥
अन्यथा चिन्तितं कार्यं दैवेन कृतमन्यथा ॥
अतिमथितुमारब्धे लोभाद्वै क्षीरसागरम् ॥६॥
उत्पन्नं कालकूटं तु येन दग्धं चराचरम् ॥
ततोऽस्माकं भयं जातं कालकूटोद्भवं प्रभो ॥ ॥७॥
रक्षां कुरु जगन्नाथ शरणागतवत्सल ॥
हितार्थं सर्वलोकानां यथा न प्रलयो भवेत् ॥ ८ ॥
मया तेषां वचः श्रुत्वा त्रिदशानां यशस्विनि ॥
मायूरं रूपमास्थाय देवानामनुकम्पया ॥
कण्ठे धृतं महारौद्रं कालकूटाह्वयं तदा ॥ ९ ॥
त्वं भीता सहसा नष्टा रूपं दृष्ट्वा तु मामकम् ॥
विषवृक्षमसेव्यं तु ततोऽहं दुःखितोऽभवम् ॥5.2.14.१०॥
नदीसङ्घसमायुक्ता गङ्गा दृष्टा च पार्श्वतः ॥
सा च प्रोक्ता मया देवि सादरं स्तुतिपूर्वकम् ॥ ११ ॥
कालकूटविषं गङ्गे वेगान्नय महोदधिम् ॥
नान्या शक्ता समानेतुं त्वां विना लोकपावनि ॥ १२ ॥
॥ गङ्गोवाच ॥ ॥
नास्ति मे भगवञ्छक्तिर्विवोढुं च जगत्पते ॥
रौद्ररूपी च दुःसेव्यो दहत्येव न संशयः ॥ १३ ॥
ततस्तु यमुना प्रोक्ता न समर्था सरस्वती ॥
अन्याश्च विविधा नद्यो मयाहूताः पृथ क्पृथक् ॥ १४ ॥
अशक्तास्ताः समानेतुं कालकूटाह्वयं विषम् ॥
तदाहूता मया देवि शिप्रा ब्रह्मसमुद्भवा ॥ १५ ॥
शिप्रे पुत्रि ममादेशान्महाकाल वनं व्रज ॥
गृहीत्वा कालकूटं तु पुरः कामेश्वरस्य हि ॥१६॥
विद्यते परमं लिङ्गं तस्मिल्लिगे नियोजय ॥
मया प्रोक्ता तदा प्राह ब्रह्मणः परमा कला ॥ १७ ॥
एषास्मि प्रस्थिता देव तव वाक्यादसंशयम् ॥
दुःस्पर्शः कालकूटोऽयं नूनं मां भक्षयिष्यति ॥ १८ ॥
असेव्याहं भविष्यामि दुष्टसम्पर्क योगतः ॥
ततो मया पुनः प्रोक्ता शिप्रा पातकनाशिनी ॥ १९ ॥
यानि तीर्थानि भूलोके पाताले यानि सन्ति वै ॥
स्वर्गलोके ह्यन्तरिक्षे पुण्यानि चारुहासिनि ॥ 5.2.14.२० ॥
तानि सर्वाणि सेवार्थमागत्य मम वाक्यतः ॥
आज्ञां तव करिष्यन्ति गच्छ पुत्रि ममाज्ञया ॥ २१ ॥
एवमुक्ता तदा शिप्रा गृहीत्वा कालकूटकम् ॥
समायाता वरारोहे यत्र लिङ्गमनुत्तमम् ॥ २२ ॥
तद्विषं कालकूटाह्वं निक्षिप्तं लिङ्गमूर्द्धनि ॥
विषलिङ्गस्ततो जातो दृष्टो मृत्युप्रदायकः ॥ २३ ॥
पशुः पक्षी नरो वापि यो हि पश्यति तं शिवम् ॥
म्रियते स तदा देवि तस्य देवस्य दर्शनात् ॥ २४ ॥
तीर्थयात्रां ततः कर्तुं तत्रायातांस्तपोधनाः ॥
तं च देवं ततो दृष्ट्वा मृताः सर्वे च तत्क्षणात् ॥ २५ ॥
ततो हाहाकृतं देवि त्रैलोक्यं सचराचरम्॥
हाहाकारं महच्छ्रुत्वा मया ते द्विजसत्तमाः ॥
सञ्जीविताश्च वै सर्वे दृष्टिपातेन पार्वति ॥ २६ ॥
तुष्टुवुः प्रणता विप्रा मामतो विविधैः स्तवैः ॥
मया प्रोक्तास्तु ते विप्रा वृणुध्वं वरमुत्तमम् ॥ २७ ॥
तैरुक्तं प्रणतैर्देवि लोकानां च हितार्थतः ॥
सम्म्रियन्ते प्रजा देव लिङ्गेनानेन शङ्कर ॥ २८ ॥
ताः संरक्ष जगन्नाथ ह्येषोऽस्माकं वरः प्रभो ॥
प्रतिज्ञातं मया देवि लोकानामनुकम्पया ॥ २९ ॥
क्षेमारोग्यकरं लिङ्गं भविष्यति न संशयः ॥
कायावरोहणाद्विप्राः स्वयमत्रागमिष्यति ॥ 5.2.14.३० ॥
लकुलीशस्तदा चायं देवः स्पृश्यो भविष्यति ॥
वृद्धिकारी कुटुम्बस्य भविष्यति न संशयः ॥३१॥
कुटुम्बेश्वर इति नाम्ना लोके ख्यातिं गमिष्यति ॥
इत्युक्तास्ते मया विप्रास्तत्रैव तपसि स्थिताः ॥ ३२ ॥
लकुलीशोऽथ तल्लिङ्गमारुरोह ममाज्ञया ॥
जनयन्विस्मयं लोके कीर्तिं जनपदे तथा ॥ ३३ ॥
कुटुम्बेश्वरसञ्ज्ञं तु ये पश्यन्ति यशस्विनि ॥
तेषां कुले तु वृद्धिः स्यात्कुटुम्बस्य न संशयः ॥ ३४ ॥
आश्विनासितपञ्चम्यां दर्श नं यः करिष्यति ॥
बहुपुत्रो बहुधनो भविष्यति न संशयः ॥ ३५ ॥
महतीं श्रियमाप्नोति रोगैश्चापि प्रमुच्यते ॥
सर्वकामसमृद्धोऽसौ मम लोके स मोदते ॥३६ ॥
दर्शनं ये करिष्यन्ति स्पर्शनं यजनं तथा ॥
ते सर्वे कामसम्पूर्णाः प्रयान्ति मम मन्दिरम् ॥ ३७ ॥
समीपे तु सरिच्छिप्रा वापीकूपेन संयुता ॥
यस्या दर्शनमात्रेण नरः पापात्प्रमुच्यते ॥३८॥
सोमवारेर्कवारे च स्नात्वा तस्यां समाहितः॥
अष्टम्यां वा चतुर्दश्यां यः पश्येत्कुटुम्बेश्वरम् ॥ ॥ ३९ ॥
राजसूयसहस्रस्य वाजपेयशतस्य च ॥
फलं स लभते देवि सत्यमेतन्मयोदितम् ॥ 5.2.14.४० ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
कुटुम्बेश्वरदेवस्य त्विन्द्रद्युम्नेश्वरं शृणु ॥ ४१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कुटुम्बेश्वरमाहात्म्यवर्णनन्नाम चतुर्दशोऽध्यायः ॥१४॥