॥ हर उवाच ॥ ॥
विद्धि कामेश्वरं देवि तत्र लिङ्गं त्रयोदशम् ॥
यस्य दर्शनमात्रेण सौभाग्यं जायते शुभम् ॥ १ ॥
ब्रह्मणो ध्यायमानस्य प्रजाकामस्य पार्वति ॥
उत्पन्नोऽर्कप्रभाकारो लावण्यनिचयो महान् ॥
अलङ्कारावृतः कान्तो दिव्यमण्डनमण्डितः ॥ २ ॥
तं दृष्ट्वा परमं दिव्यं कान्तं सौभाग्यशोभितम् ॥
अप्रतर्क्यमविज्ञेयं ब्रह्मा प्रोवाच तं तदा ॥ ३ ॥
को भवान्किं निमित्तं तु इह वा किमुपागतः ॥
वद त्वं मन्मथाकार कन्दर्प इव लक्ष्यमे ॥ ४ ॥
ब्रह्मणो वचनं श्रुत्वा प्रोक्तं तेनैव सादरम् ॥
अहं ते सृष्टिकामस्य भावेन विहितोंशकः ॥
प्रजापते महाभाग किं करोमि दिशस्व माम् ॥ ५
॥ ब्रह्मोवाच ॥ ॥
मया तु सृष्टिकामेन ये प्रजापतयः कृताः ॥
न ते शक्ताः प्रजाः स्रष्टुं कामैते सुखमाप्नुयुः ॥ ६ ॥
त्वमग्रणीः प्रजासर्गे त्वदधीनमिदं जगत् ॥
कुरु सृष्टिं विचित्रां च कन्दर्प मम शासनात्॥७॥
इत्युक्तो ब्रह्मणा देवि जगामादर्शनं स्मरः॥
क्रुद्धेन ब्रह्मणा शप्तो विनाशं यास्यसि ध्रुवम्॥८॥
मद्वचो न कृतं यस्माद्भवनेत्रोद्भवाग्निना॥
तच्छ्रुत्वा दारुणं शापं कन्दर्पो भयविह्वलः॥
ब्रह्माणं प्रणतो भूत्वा प्रह्वः प्राञ्जलिरब्रवीत्॥९॥
प्रसीद देवदेवेश अनन्यगतिके मयि॥
नहि निर्भरतां यान्ति प्रभूणामाश्रिते रुषः॥5.2.13.१०॥
॥ब्रह्मोवाच॥
यस्मात्ते भक्तिरतुला ममोपरि महामते ॥
तस्मात्स्थानानि दत्तानि तव द्वादश सङ्ख्यया ॥ ११ ॥
कामिनीनां कटाक्षेषु केशपाशेषु चैव हि ॥
जघनस्तननाभौ तु दोर्मूलेऽधरपल्लवे ॥ १२ ॥
वसन्ते कोकिलालापे ज्योत्स्नायां जलदागमे ॥
कामार्थे च मया दत्तौ सबलौ मधुमाधवौ ॥ १३ ॥
स्त्रियोऽमृतमया धन्या संसारे सारकारणम् ॥
रतेश्चैव निधानानि सन्तानार्थं विनिर्मिताः ॥ १४ ॥
एताभिर्वरनारीभिर्जगदेवं वशीकृतम् ॥
स्त्रीभिरासक्तमनसः कुतः पुंसो मनस्विता ॥ १५ ॥
कृतश्चापि स्ववशता स्त्रीगौरवगतस्य च ॥
स्त्रिय एव विनाशाय पूर्वेषाममरद्विषाम् ॥ १६ ॥
स्त्रिय एव हि देवानामिन्द्रादीनां भयाश्रयाः ॥
नारीभिर्लब्धवृत्तेश्च पुरुषस्यापि सर्वतः ॥ १७ ॥
पराभवः प्रभवति विवशत्वं च भीषणम् ॥
स्त्रीभिराजितचित्तस्य सुलभो विपदोदयः ॥ १८ ॥
इत्युक्तो मन्मथो भद्रे ब्रह्मणा च विसर्जितः ॥
दत्त्वा वै पुष्पकं चापं तथा वै बाणपञ्चकम् ॥ १९ ॥
रतिप्रीतिसमायुक्तो झषकेतुर्मनोभवः ॥
विडम्बयति लोकांस्त्रीन्ससहायो धनुर्धरः ॥ 5.2.13.२० ॥
पण्डितांस्तापसान्वीरान्सुधियश्च जितेन्द्रियान् ॥
काले कुशलभावज्ञान्देवान्पितृगणांस्तथा ॥ २१ ॥
भूतप्रेतपिशाचांश्च यक्षगन्धर्वकिन्नरान् ॥
कृमिकीटपतङ्गांश्च भूतग्रामं चतुर्विधम् ॥ २२ ॥
ममार्थे च कृतो यत्नश्चिन्तयित्वा पुनःपुनः ॥
दुःसाध्यः शङ्करो देवः श्रूयते भुवनत्रये ॥
तस्य देवस्य कः शक्तः क्षोभणार्थं मया विना ॥ २३ ॥
इत्युक्त्वा तु समायातो यत्राहं तपसि स्थितः ॥
रत्या युतः स गर्वेण सख्याऽयं मधुनाश्रितः ॥ ॥ २४ ॥
दृष्टवान्मां तदा कामः पिञ्जकूटजटासटम् ॥
किञ्चिन्निमित्ततोऽनिद्रं भोगीन्द्रकृतभूषणम् ॥ २५ ॥
प्रेक्षमाणमृजुस्थानं नासावंशाग्र लोचनम्॥
ततोऽवमरकाकारमालम्ब्याश्रयमात्रकम्॥२६॥
प्रविष्टः कररन्ध्रेण मदनो हृदये मम॥
रत्यर्थं कामतप्तेन संस्मृता भवती मया॥२७॥
समाधेर्भावना दिव्या लक्ष्यप्रत्यक्षरूपिणी ॥
गता मम विमलता तत्क्षणादेव पार्वति ॥ २८ ॥
उन्मत्ततां गतोऽहं वै विकृतिं मदनात्मिकाम् ॥
निराकृतं मया देवि धैर्यमालम्ब्य यत्नतः ॥ २९ ॥
दृष्टो मयात्महृदये मन्मथोऽपथ्यकारकः ॥
देहस्थं निर्दहिष्यामि प्रत्याहारप्रयोगतः ॥ 5.2.13.३० ॥
अमानुषीं व्रजेद्योनिं योगिनं प्रविशेद्यदि ॥
बाह्याग्नौ धारणां कृत्वा देहसंस्थे विनिर्दहेत् ॥ ३१ ॥
एतस्मिन्नन्तरे सोऽपि सन्तप्तो मदनो भृशम्॥
इच्छाशरीरो दुर्ज्ञेयो निःसृतो व्यसनात्मकः ॥ ३२ ॥
सहकारतरोर्मूले भूत्वा मधुसखस्तदा ॥
मुमोच मोहनं नाम मार्गणं मकरध्वजः ॥ ३३ ॥
स चापि हृदये प्राप्तो मदीये लीलया शरः ॥
ततोहं कुपितो देवि नेत्रं कृत्वा तृतीयकम् ॥ ३४ ॥
तन्नेत्रविस्फुलिङ्गेन क्रोशतां नाकवासिनाम्॥
गमितो भस्मसात्तूर्णं कन्दर्पः कामिदर्पकः ॥ ३५ ॥
तस्मिन्दग्धे ततः कामे रतिः शोकपरायणा ॥
विललाप सुदुःखार्ता पतिभक्तिपरायणा ॥ ॥ ३६ ॥
हा नाथ हा मम प्राण हा स्वामिन्किं जहासि माम् ॥
पतिव्रतां पतिप्राणां कस्मान्मां त्यजसि प्रभो ॥ ३७ ॥
एवं च विलपन्तीं तां वागुवा चाशरीरिणी ॥
मा त्वं रुद विशालाक्षि पुनरेष पतिस्तव ॥
प्रसादाद्देवदेवस्य उत्थास्यति शिवस्य च ॥ ३८ ॥
प्रार्थितोऽहं ततो देवि तस्मिन्नवसरे प्रिये ॥
एष कामस्त्वया दग्धः क्रोधेन परमेश्वर ॥ ३९ ॥
येनानेन प्रभो नष्टा सृष्टिर्वै धरणीतले ॥
कृपां विधेहि देवेश दीनायै देहि मे पतिम् ॥ ॥ 5.2.13.४० ॥
ततोऽहमब्रुवं देवि तां रतिं दीनभाषिणीम् ॥
अनेन मदनेनाद्य कृतं तरलितं मनः ॥ ४१॥
ततो दग्धं मयास्याङ्गं जीवये त्वत्प्रसादतः॥
अङ्गं दग्धं मयास्याद्य तृतीयनेत्रवह्निना ॥ ४२ ॥
तस्मादनङ्ग एवैष प्रजासु विचरिष्यति ॥
अनङ्गोऽपि यदावन्त्यां लिङ्गं संसेवयिष्यति ॥ ४३ ॥
देवानामनुकम्पार्थमनङ्गोऽसौ कृतो मया ॥
त्रिदशैश्च समादिष्टः कामोऽवन्त्यां जगाम ह ॥ ४४ ॥
तत्र गत्वा ह्यनङ्गोऽपि भक्तिभावसमन्वितः ॥
ददर्श परमं लिङ्गं समीहितफलप्रदम् ॥ ४५ ॥
प्रोक्तं तुष्टेन लिङ्गेन काम काममवाप्स्यसि ॥
अनङ्गोऽपि समर्थस्त्वं भविष्यसि न संशयः ॥ ४६ ॥
जन्म प्राप्स्यति रुक्मिण्या गर्भे कृष्णस्य सङ्गमात् ॥
भविता विश्रुतो लोके नाम्ना शम्बरसूदनः ॥ ४७ ॥
अनङ्गेन त्वया यस्मान्मनसा तोषि तोऽपि सन्॥
तस्मात्ख्यातिं गमिष्यामि त्वन्नाम्ना काम सर्वदा ॥ ४८ ॥
ये त्वां पश्यन्ति कन्दर्पं भक्त्या परमया युताः ॥
प्राप्नुवन्ति गतिं नित्यं ते सदानन्ददायिकाम् ॥ ४९ ॥
दीर्घायुषो भविष्यन्ति रूपं तेषां भविष्यति ॥
कुलं च निर्मलं तेषां ये त्वां पश्यन्ति मन्मथ ॥ 5.2.13.५० ॥
ऐश्वर्यं परमान्भोगान्स्त्रियो दिव्यकलान्विताः ॥
अरोगा सन्ततिस्तेषां भविष्यति न संशयः ॥ ५१ ॥
चैत्रशुक्लत्रयोदश्यां ये मां पश्यन्ति भक्तितः ॥
देवलोकं समासाद्य मोदिष्यन्ति हि ते नराः ॥ ५२ ॥
यक्षा गणेश्वराः सिद्धाः सिद्धगन्धर्वसेविताः ॥
रुद्रलोकं गमिष्यन्ति विमानैः सर्वकामिकैः ॥ ५३ ॥
इत्युक्तः कामदेवोपि लिङ्गेन परमेश्वरि ॥
तत्राश्रमपदं चक्रे तस्य लिङ्गस्य सन्निधौ ॥५४ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
कामेश्वरस्य शृण्वग्रे कुटुम्बेश्वरवैभवम् ॥ ५५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कामेश्वरमाहात्म्यवर्णनन्नाम त्रयोदशोऽध्यायः ॥ १३ ॥