॥ श्रीहर उवाच ॥
द्वादशं विद्धि देवेशि लोकपालेश्वरं शिवम् ॥
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥ १ ॥
पुरा दैत्यगणा देवि प्रादुर्भूताः सहस्रशः ॥
हिरण्यकशिपोर्वक्षःस्थलादतिपराक्रमाः ॥ २ ॥
तैरियं वसुधा व्याप्ता सशैलवनकानना ॥
विध्वस्ताः स्वाश्रमाः सर्वे यज्ञा विध्वंसितास्तथा ॥ ३ ॥
ब्राह्मणा भक्षिताश्चैव वेद वेदाङ्गपारगाः ॥
पूरितान्यग्निकुण्डानि पांसुना मधुना तथा ॥ ४ ॥
विध्वस्ताः कलशाः सर्वे मृद्भाण्डादि च चूर्णितम् ॥
निःस्वाध्यायवषट्कारा स्वधास्वाहाविवर्जिता ॥ ५ ॥
कृता च धरणी देवि नष्टयज्ञोत्सवाभवत् ॥
लोकपालास्ततो भीता माधवं शरणं गताः ॥ ६ ॥
ऊचुः प्राञ्जलयः सर्वे क्षुधार्ता दुःखिताः कृताः ॥
वयं ग्लानिं गता देव यज्ञभागं विना कृताः ॥ ७ ॥
वयं त्रातास्त्वया पूर्वं नमुचेर्वृषपर्वणः ॥
हिरण्यकशिपो रौद्रान्नरकाच्च मुरोस्तथा ॥ ८ ॥
तथा रक्ष सुरश्रेष्ठ भयं नः समुपस्थितम् ॥ ९ ॥
तेषां तद्वचनं श्रुत्वा शङ्खचक्रगदाधरः ॥
जगाम स ततो दैत्याः प्रविष्टा वरुणालयम् ॥5.2.12.१०॥
ते निष्क्रम्य ततो रात्रौ निघ्नन्ति द्विजसत्तमान् ॥
तापसान्दीक्षितान्देवि धर्मव्रतपरायणान् ॥ ११ ॥
अथ स्वर्गं गताः कान्ते जितः शक्रो मरुत्पतिः ॥
तथैव दक्षिणामाशां धर्मराजो जितस्ततः ॥ १२ ॥
गत्वाथ पश्चिमामाशां जलराजो विनिर्जितः ॥
उत्तरे धनदो देवि तैर्दैत्यैः स विनिर्जितः ॥ १३ ॥
ततस्ते व्याकुला जाता विष्णुं शरणमागताः ॥
उपायः कथितो देवि देवेभ्यो विष्णुना तदा ॥ १४ ॥
महाकालवनं गत्वा देवा भक्त्या समाहिताः॥
आराधयत सर्वेशं शङ्करं लोकशङ्करम्॥१५॥
भवतां भविता सिद्धिस्तत्र तस्य प्रसादतः॥ १६॥
इति तस्य वचः श्रुत्वा कृष्णस्यामिततेजसः ॥
प्रस्थिता लोकपालास्ते महाकालवने शुभे ॥ १७ ॥
तावत्तत्रैव संरुद्धा दैत्यैः शस्त्रधरैस्तदा॥
भूयो नष्टाश्च सम्प्राप्ता यत्र देवो जनार्दनः ॥ १८ ॥
कथयामासुरत्युग्रं यथा रुद्धं जगत्त्रयम् ॥
नारायणेन ते प्रोक्ता लोकपालाः पुनः पुनः ॥ १९ ॥
यूयं व्रतधरा भूत्वा कपालैश्च विभूषिताः ॥
खट्वाङ्गधारिणः शान्ताः पञ्चमुद्राविभूषिताः ॥ 5.2.12.२० ॥
भस्मभूषितसर्वाङ्गाः क्षुद्रघण्टाविराजिताः ॥
महाव्रतधरा भूत्वा महाकालवनो त्तमम् ॥
गच्छध्वं ब्रह्मणा सार्द्धं पादबद्धैश्च नूपुरैः ॥ २१ ॥
अथ ते लोकपालाश्च श्रुत्वा कृष्णस्य भाषितम् ॥
समायाता महादेवि कृत्वा कापालिकं वपुः ॥ २२ ॥
तत्र दृष्टं महल्लिङ्गं तेजसां राशिमद्भुतम् ॥
स्तुतं च विविधैः स्तोत्रैर्लोकपालैः पुनःपुनः ॥ २३ ॥
ततस्तु तस्य लिङ्गस्य वह्निज्वाला विनिःसृता ॥
यया ते दानवाः सर्वे दग्धा भस्मत्वमागताः ॥ २४ ॥
ज्ञात्वा लिङ्गस्य माहात्म्यं नाम चक्रुः समाहिताः ॥
सेवितं लोकपालैस्तु लिङ्गं तेजोमयं परम् ॥ २५ ॥
लोकपालेश्वरोनाम ख्यातिं यास्यति भूतले ॥
इत्युक्त्वा त्रिदशाः सर्वे लोकपालैः समावृताः ॥
स्वस्वस्थानं गता दिव्यं यथापूर्वं मुदान्विताः ॥ २६ ॥
ये पश्यन्ति नरा देवि लोकपालेश्वरं शिवम् ॥
समृद्धिभिः सुसम्पन्ना भवेयुर्जन्मजन्मसु ॥ ॥ २७ ॥
न दारिद्र्यं न च व्याधिर्नाकालमरणं तथा ॥
ऐश्वर्यं चातुलं तेषां जायते दर्शनात्सदा ॥ २८ ॥
यो यमुद्दिश्य वै कामं दर्शनं तु करिष्यति ॥
तस्य तज्जायते सर्वं मृतस्य परमा गतिः ॥ २९ ॥
अश्वमेधस्य यज्ञस्य सम्यगिष्टस्य यत्फलम् ॥
तत्फलं लभते देवि लोकपाले श्वरार्चनात् ॥ 5.2.12.३० ॥
प्रसङ्गेनापि यः पश्येल्लोकपालेश्वरं शिवम् ॥
मोदते स्वर्गलोके स लोकपालैः समं सदा ॥ ३१ ॥
सङ्क्रान्तौ सोमवारे च चतुर्दश्यां विशेषतः ॥
ये पश्यन्ति नरा भक्त्या ह्यष्टम्यामयनद्वये ॥३२॥
ते दुर्द्धर्षा भवन्तीह शत्रूणां सङ्गरे तथा ॥
मृता यान्ति विमानेन शक्रलोकं सुदुर्लभम् ॥ ३३ ॥
क्रमेण वारुणं लोकं धनदस्य यथासुखम् ॥
पुनः पैतामहं यान्ति लोकं देवैः सुदुर्लभम् ॥ ३४ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
दुर्लभः परमो गुह्यं कामेश्वरमथो शृणु ॥ ३५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये लोकपालेश्वरमाहात्म्यवर्णनन्नाम द्वादशोऽध्यायः ॥ १२ ॥ ॥ छ ॥