०१० कर्कोटेश्वरमाहात्म्यवर्णनम्

॥ श्रीमहादेव उवाच ॥ ॥
कर्कोटेश्वरसञ्ज्ञं च दशमं विद्धि पार्वति ॥
यस्य दर्शनमात्रेण विषैर्नैवाभिभूयते ॥ १ ॥
मात्रा च भुजगाः शप्ताः स्ववचोभङ्गकारणात् ॥
मद्वचो न कृतं यस्माद्भवद्भिः पापकर्मणि ॥ २ ॥
वह्निर्हि धक्ष्यते युष्मान्सत्रे जन्मेजयस्य हि ॥
श्रुत्वा शापं ततो मातुर्मृत्युभीताश्च पन्नगाः ॥ ३ ॥
गताः सर्वे यथास्थानं जीवनार्थं यशस्विनि ॥
हिमशैलं गतः शेषस्तपः कर्त्तुं ततः प्रिये ॥ ४ ॥
सर्पश्च कम्बलोनाम लोकं पैतामहं गतः ॥
शङ्खचूडोऽथ नागेन्द्रो मणिपूरं गतस्ततः ॥ ५ ॥
यमुनाम्भसि संलीनः कालियो भयविह्वलः ॥ ६ ॥
एवं ते सर्परा जानो नागाः सुस्मितशोभने ॥
कुरुक्षेत्रे गताः सर्वे तपश्चर्तुं यशस्विनि॥
धृतराष्ट्रस्तथा नागः प्रयागमगमत्प्रिये ४७॥।
एलापत्रस्तु नागेन्द्रो ब्रह्मलोकं जगाम ह ॥
प्रणम्य तमथोवाच मातुरुत्सङ्गसंस्थिताः ॥ ८ ॥
मात्रा शप्ता वयं देव क्रुद्धया तव सन्निधौ ॥
सा कथं शापकाले तु भवता न निवारि ता ॥ ९ ॥
॥ ब्रह्मोवाच ॥ ॥
निषिद्धा नैव ते माता भाविकर्मबलान्मम ॥
सर्पसत्रो हि भविता राज्ञो जन्मेजयस्य च ॥ 5.2.10.१० ॥
त्वं च वत्स ममादेशान्महाकालवनं व्रज ॥]
शान्त्यर्थं सर्वनागानां भक्त्या युक्तस्तु सत्वरम् ॥११॥
समाराधय देवेशं महामायासमीपतः॥
भविता तत्र ते सिद्धि देवदेवप्रसादतः ॥ १२ ॥
तत्र गत्वाथ कर्कोटः स्वयं देवि समाहितः ॥
देवमाराधयामास महामायापुरःस्थितः ॥
तस्य तुष्टोथ देवेशो वरं प्रादाद्य शस्विनि ॥ १३ ॥
ये दन्दशूकाः क्रूराश्च पापाचारा विषोल्बणाः ॥
तेषां विनाशो भविता न तु ये धर्मचारिणः ॥ १४ ॥
भक्त्या तवाद्य तुष्टोस्मि त्वं मे सायुज्यतां व्रज ॥
देवे तत्र विलीनोथ नागः कर्कोटकः प्रिये ॥ १५ ॥
कर्कोटकेश्वरः ख्यातस्ततो देवो महेश्वरः॥
तस्य दर्शनमात्रेण व्याधयो यान्ति सङ्क्षयम् ॥ १६ ॥
यस्तं पूजयते देवं भक्त्या युक्तो हि मानवः ॥
ऐश्वर्यं जायते तस्य कुलानां तारयेच्छतम् ॥ १७ ॥
व्याधितो व्याधितो मुक्तो दुःखी दुःखात्प्रमुच्यते ॥
दर्शनात्तु भवेत्सद्य सर्वपातकवर्जितः ॥ १८ ॥
नियमेन प्रपश्यन्ति ये च कर्कोटकेश्वरम् ॥
ते सर्वकामानाप्स्यन्ति वसन्त्यन्ते च मत्पुरे ॥ १९ ॥
पञ्चम्यां च चतुर्दश्यां ये पश्यन्ति रवेर्दिने ॥
न तेषां तु कुले सर्पाः पीडां कुर्वन्ति कर्हिचित् ॥ 5.2.10.२० ॥
या नारी दुर्भगा सापि सौभाग्यं लभते सदा ॥
गुर्विणी लभते पुत्रमरोगं कुलभूषणम् ॥
शिशुग्रहाश्च नश्यन्ति नापमृत्युभयं भवेत् ॥२१॥
यंयं काममभिध्यायेन्मन सा भक्तिमान्नरः ॥
तन्तं दुर्ल्लभमाप्नोति कर्कोटेश्वरदर्शनात् ॥ २२ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
कर्कोटेश्वरदेवस्य शृणु सिद्धेश्वरं परम् ॥२३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कर्कोटेश्वरमाहात्म्यवर्णनन्नाम दशमोऽध्यायः ॥ १०