००९ स्वर्गद्वारेश्वरमाहात्म्यवर्णनम्

॥ श्रीरुद्र उवाच ॥ ॥
स्वर्गद्वारेश्वरं लिङ्गं नवमं विद्धि पार्वति ॥
सर्वपापहरं देवि स्वर्गमोक्षफलप्रदम् ॥ १ ॥
यदा देवि समायाताः कैलासे पर्वतोत्तमे ॥
अश्विन्याद्या भगिन्यस्तास्त्वां दृष्ट्वा विस्मयान्विताः ॥ २ ॥
निमन्त्रिता वयं यज्ञे सकान्ताः सपरिग्रहाः ॥
स्नेहेन देवि तातेन बहुमानपुरः सरम् ॥ ३ ॥
कच्चित्स्मृता विशालाक्षि किं वा तातस्य विस्मृतिः ॥
कारणं किं समुद्दिश्य तातेन न निमन्त्रिता ॥ ४ ॥
तासां तद्वचनं श्रुत्वा अवमा नात्तदा त्वया ॥
प्राणा मुक्तास्तु योगेन पुरतस्तासु पार्वति ॥५॥
अथ ताः शोकसन्तप्ता गता यत्र प्रजापतिः॥
आचख्युः सकलं वृत्तं दक्षस्याग्रे यथा तथम् ॥६॥
तच्छुत्वा दारुणं वाक्यं दक्षो नोवाच किञ्चन ॥७॥
मया दृष्टा यदा देवि भूमौ पञ्चत्वमागता ॥
यज्ञप्रध्वंसनार्थाय तदा वै प्रेरिता गणाः॥ ॥८॥
ते गत्वाथ गणा रौद्राः शतशोऽथ सहस्रशः ॥
विरूपा भीषणा रौद्रा नानाशस्त्रा महाबलाः ॥
मुमुचुः शरवर्षाणि कुर्वन्तो भैरवान्रवान् ॥ ९ ॥
ततो देवगणाः सर्वे वसवः सह भास्करैः ॥
विश्वेदेवाश्च साध्याश्च धनुर्हस्ता महाबलाः ॥5.2.9.१०॥
युद्धाय च विनिष्क्रान्ता मुमुचुः सायकान्सितान् ॥
ते समेत्याथ युयुधुः प्रमथा विबुधैः सह ॥
मुमुचुः शरवर्षाणि वारिधारा यथा घनाः ॥ ११ ॥
तेषां मध्ये गणो नाम वीरभद्रो महाबलः ॥
स शक्रं ताडयामास शूलेन हृदये तथा ॥ १२ ॥
स तु तेन प्रहारेण विसञ्ज्ञो निषसाद ह ॥
अथ मुष्ट्या हतः कुम्भे नाग ऐरावतस्तथा ॥१३॥
स हतः सहसा तेन गजेन्द्रो भेरवान्रवान् ॥
विनदन्भयमास्थाय यज्ञवाटमुपाद्रवत् ॥ १४ ॥
एतस्मिन्नन्तरे देवा कृतास्तेन पराङ्मुखाः ॥
ततस्ते शरणं जग्मुर्विष्णुं विश्वैकनायकम् ॥ १५ ॥
ततः कोपसमाविष्टो विष्णुर्दृष्ट्वा दिवालयान् ॥
गणैर्विद्रावितान्सर्वान्मुमोचाशु सुदर्शनम् ॥ १६ ॥
तदापतत्तु वेगेन चक्रं विष्णोः सुदर्शनम् ॥
प्रसार्य वक्त्रं सहसा ह्युदरस्थं चकार ह ॥ १७ ॥
तस्मिंश्चक्रे तदा ग्रस्ते ह्यमोघे दैत्यसूदने ॥
क्रुद्धो नारायणो देवि वीरभद्रमुपाद्रवत् ॥ १८ ॥
गृहीत्वा पादयोर्भूमौ निजघानातिदूरतः ॥
हन्यमानस्याथ भूमौ गदया च सुदर्शनम् ॥ १९ ॥
रुधिरोद्गारसंयुक्तं वक्त्रात्तच्च विनिर्गतम् ॥
मत्तो लब्धवरो देवि वीरभद्रो गणोत्तमः ॥
न तु पञ्चत्वमापन्नो गदया ताडितोऽपि सः ॥ 5.2.9.२० ॥
ततस्तु प्रमथाः सर्वे विष्णुवीर्यबलार्द्दिताः ॥
कृच्छ्रेण सहसा प्राप्ता यत्राहं देवि संस्थितः ॥ २१ ॥
मां दृष्ट्वा शूलहस्तं तु विष्णुश्चान्तरधीयत ॥
इन्द्रोऽपि त्रिदशैः सार्द्धं पितृभिर्ब्राह्मणैः सह ॥ २२ ॥
मत्तस्त्रासपरीतात्मा ततश्चादर्शनं गतः ॥
एवं विध्वंसिते यज्ञे नष्टो देवगणो यदा ॥ २३ ॥
मया निरूपितो देवि स्वर्गद्वारे गणस्तदा ॥
प्रवेशो नैव दातव्यस्त्रिदशानां गणेश्वर ॥ २४ ॥
द्वारावरोधः कर्त्तव्यो यत्नतः शासनान्मम ॥
यः कोपि दृश्यते देवः स हन्तव्यो न संशयः ॥ २५ ॥
उद्वसश्च ततो जातः स्वर्गो देवा विनिर्जिताः ॥२६॥
स्वर्गद्वारे निरुद्धे तु शक्राद्या भयविह्वलाः॥
ब्रह्मलोकं गता देवा मन्त्रयित्वा पुनःपुनः ॥ २७ ॥
तस्याग्रे कथितं सर्वं स्वर्गद्वारावरोधनम् ॥
महेश्वरगणैर्व्याप्तं स्वर्गद्वारं पितामह ॥ २८ ॥
प्रवेशो दुर्लभो जातः कृते द्वारावरोधने ॥
केनोपायेन यास्यामः स्वर्गलोकं तथाविधम् २९ ॥
नास्माकं जायते प्रीतिर्विना स्वर्गं पितामह ॥ ॥ 5.2.9.३० ॥
इति तेषां वचः श्रुत्वा प्रोक्तं तु ब्रह्मणा तदा ॥
आराध्यः शङ्करो देवो महादेवो जगत्पतिः ॥ ३१ ॥
स्तुत्यो वन्द्यो नमस्कार्यः सृष्टि संहारकारकः ॥
दुर्लभस्तु सुराः स्वर्गो विना तस्य प्रसादतः ॥ ३२
गोप्ता स्रष्टा समर्थश्च स चास्माकं परा गतिः ॥
स एवाराधनीयस्तु स च पूज्यतमो मतः ॥ ३३ ॥
तस्मात्सर्वप्रयत्नेन गम्यतां शरणं शिवः ॥
उपायं कथयिष्यामि श्रूयतां सावधानतः ॥ ३४ ॥
त्रिदशैः सहितः शक्र तूर्णं गच्छ ममाज्ञया ॥
महाकालवने रम्ये कपालेश्वरपूर्वतः ॥ ३५ ॥
स्वर्गद्वार परं लिङ्गं विद्यते तत्तु वासव ॥
लोकानामनुकम्पार्थं महादेवेन निर्मितम् ॥
तमाराधयत क्षिप्रं स वः कामं प्रदास्यति ॥ ३६ ॥
ब्रह्मणो वचनं श्रुत्वा त्रिदशा मुदिता भृशम् ॥
समायाता महादेवि महाकालवनं तदा ॥ ३७ ॥
स्वर्गद्वारप्रदं पुण्यं ददृशुर्लिङ्गमुत्तमम् ॥
तस्य दर्शनमात्रेण स्वर्गद्वारमपावृतम् ॥ ३८ ॥
स्वर्गलोकं गताः सर्वे यथापूर्वं यशस्विनि ॥
निःशङ्कांस्त्रिदशान्दृष्ट्वा विज्ञप्तोहं गणैस्तदा ॥ ३९ ॥
मयाज्ञप्ताश्च ते सर्वे निवर्त्तध्वं गणोत्तमाः ॥
स्वयमेव प्रतिज्ञातं कथं मिथ्या भविष्यति ॥ ॥ 5.2.9.४० ॥
स्वर्गद्वारप्रदो देवो दृष्टो देवैर्न संशयः ॥
महाकालवने रम्ये कथितो हि विरञ्चिना ॥ ४१ ॥
स्वर्गद्वारं गताः सद्यः शक्राद्यास्त्रिदशा गणाः ॥
अतः प्रभृति विख्यातः स्वर्गद्वारेश्वरः शिवः ॥ ४२ ॥
ख्यातिं यास्यति भूलोके स्वर्गलोकप्रदायकः ॥ ४३ ॥
ये पश्यन्ति नरा लोके स्वर्गद्वारेश्वरं शिवम् ॥
ते यान्ति स्वर्गलोकं हि स्वर्गद्वारेश्वरार्चनात् ॥ ४४ ॥
स्वर्गद्वारेश्वरं देवं ये पश्यन्ति प्रसङ्गतः ॥
न तेषां भयमस्तीति कल्प कोटिशतैरपि ॥ ४५ ॥
अश्वमेधसहस्रेण यत्पुण्यं समुदाहृतम् ॥
तत्पुण्यमधिकं देवि स्वर्गद्वारेश्वरार्चनात् ॥ ४६ ॥
जन्मान्तरसहस्रेण यत्पापं पूर्व सञ्चितम् ॥
यत्पापं विलयं यान्ति लिङ्गस्यास्य च कीर्तनात् ॥ ४७ ॥
अष्टम्यां वा चतुर्दश्यामथवा चन्द्रवासरे ॥
ये पश्यन्ति नरा भक्त्या स्वर्गद्वारेश्वरं शिवम् ॥
ते देवि मे शरीरं तु प्रविष्टास्त्वपुनर्भवाः ॥ ४८ ॥
दशकोटिसहस्राणि तस्मिल्ँलिङ्गे तु पूजिते ॥
पूजितानि भवं तीह लिङ्गान्यन्तःस्थितानि तु ॥ ४९ ॥
स्पर्शनात्तस्य लिङ्गस्य कीर्त्तनाद्यजनात्तथा ॥
सुखेन स्वर्गमायान्ति यथा कामानवाप्नुयात् ॥ 5.2.9.५० ॥
अकामावा सकामा वा ये पश्यन्ति दिने दिने ॥
तेऽपि पुण्या महाभागाः स्वर्गलोकं प्रयान्ति वै ॥ ५१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये स्वर्गद्वारेश्वरमाहात्म्यवर्णनन्नाम नवमोऽध्यायः ॥ ९ ॥ ॥