॥ श्रीरुद्र उवाच ॥ ॥
कपालेश्वरसञ्ज्ञं च ह्यष्टमं विद्धि पार्वति ॥
यस्य दर्शनमात्रेण ब्रह्महत्या प्रणश्यति ॥ १ ॥
पुरा वैवस्वते कल्पे त्रेताकाले समागते ॥
महाकालवने दिव्ये यजे पैतामहे प्रिये ॥ २ ॥
उपविष्टेषु विप्रेषु हूयमाने हुताशने ॥
वेषं कापालिकं कृत्वा गतोऽहं तत्र संसदि ॥ ३ ॥
जीर्णकन्थावृतो देवि मुण्डः खट्वाङ्गधारकः ॥
चिताभस्मविलिप्ताङ्गो विकृतो विकृताननः ॥
कपालं च करे कृत्वा कपालकृतभूषणः ॥ ४ ॥
ब्राह्मणाश्च ततः क्रुद्धा दृष्ट्वा मां जाल्मरूपिणम् ॥
कपालधारिणं सर्वे धिक्छब्दैश्च जगर्हिरे ॥ ५ ॥
असकृत्पापपापेति गच्छगच्छ विडम्बिताः ॥
कथं च होमः क्रियते प्राप्ते कापालिके पुरः ॥ ६ ॥
अकपालानि शौचानि इति वेदेषु गीयते ॥
यज्ञवेदिर्न तेर्हा तु मनुष्यास्थि धरस्य वै ॥ ७ ॥
मया प्रोक्तास्तु ते विप्राः श्रूयतां द्विजसत्तमाः ॥
यूयं कारुणिकाः सर्वे परदुःखेन दुःखिताः ॥ ८ ॥
कर्त्तव्या च दया सद्भिः सर्वदा सर्वदेहिनाम् ॥
सर्वेषामेव जन्तूनां मित्रं ब्राह्मण उच्यते ॥ ९ ॥
अहं कापालिको विप्रो भस्मभूषितविग्रहः ॥
कापालव्रतमास्थाय चरामि पृथिवीतले ॥ 5.2.8.१० ॥
आराधयामि सततं महादेवं जगत्पतिम् ॥
ब्रह्महत्याविनाशाय व्रतं द्वादशवार्षिकम् ॥ ११ ॥
अघघ्नं विश्रुतं लोके प्रारब्धं हि मया द्विजाः ॥
प्रायश्चित्तनिमित्तं तु शुद्धो यास्यामि सद्गतिम् ॥ १२ ॥
मदीयं वचनं श्रुत्वा तैः प्रोक्तं द्विजसत्तमैः ॥
अतीव पापिष्ठतरो यो ह्येवं भाषसेऽधम ॥ १३ ॥
कपालैर्भूषितो निन्द्यो विशेषेण तु विप्रहः ॥
नाकारितो महादेवो दक्षयज्ञमहोत्सवे ॥ १४ ॥
यस्मिन्यज्ञे समायाता आदित्या वसवस्तथा ॥
विश्वेदेवाश्च मरुतो गन्धर्वाः किन्नरास्तथा ॥ १५ ॥
ब्रह्मा विष्णुः सहस्राक्षो वरुणो वायुरेव च ॥
धनदः सागरा नद्यः सरांसि सकलानि च ॥ १६ ॥
सुपर्णा गिरयो नागाः सर्वे चाकारिताः क्रतौ ॥
सानुगास्ते सभार्याश्च ब्राह्मणा वेदपारगाः ॥ १७ ॥
ब्रह्मर्षयो महाभागास्तथा देवर्षयोऽमलाः ॥
एवमुक्त्वा महादेवं मानुषास्थिविभूषितम् ॥ १८ ॥
अपवित्रमिति ज्ञात्वा कथं त्वं वक्तुमर्हसि ॥
प्रवेशो दीयतां मह्यं विशेषेणासि ब्रह्महा ॥ १९ ॥
इत्युक्तोऽहं यदा विप्रैर्मया प्रोक्तं वचस्तदा ॥
प्रतीक्ष्यतां मुहूर्तं तु भुक्त्वा यास्याम्यहं पुनः ॥ 5.2.8.२० ॥
इत्युक्ते वचने देवि ताडितोऽहं भृशं तदा ॥
लोष्ठैर्लगुडकैः पादैर्मुष्टिभिश्च पुनःपुनः ॥ २१ ॥
अथ प्रहस्य तत्क्षिप्त्वा तां वेदिं दर्भसंस्तृताम् ॥
कपालदीपवन्नष्टो न ज्ञातोऽहं द्विजोत्तमैः ॥ २२ ॥
मयि नष्टे कपालं तत्क्षिप्तं मण्डपबाह्यतः ॥
अथान्यत्तत्र सञ्जातं तादृग्रूपं यशस्विनि ॥ २३ ॥
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च ॥
तत्र क्षिप्तानि जातानि ततस्ते विस्मयान्विताः ॥ २४ ॥
अथाहुर्ज्ञानिनः सर्वे नेदमन्यस्य चेष्टितम् ॥
ऋते देवान्महादेवाद्गङ्गाचन्द्रार्द्धशेखरात् ॥ २५ ॥
ततोऽहं विविधैः स्तोत्रैः स्तुतो विप्रैः पृथक्पृथक् ॥
होमं चक्रुश्च ते वह्नौ मन्त्रैश्च शतरुद्रियेः ॥ २६ ॥
अहं तुष्टस्तदा देवि द्विजानामनुकम्पया ॥
व्रियतां ब्राह्मणाः सर्वे वरं यन्मनसेप्सितम् ॥ २७ ॥
तदा ते ब्राह्मणाः प्रोचुर्यदज्ञानाद्वधस्तव ॥
कृतस्तेन कृतास्माभिर्ब्रह्महत्या जगत्प्रभो ॥ २८ ॥
ब्रह्महत्याविनाशाय प्रसादं कुरु नः प्रभो ॥
वरयामो वरं ह्येनं नान्यं वरमभीप्सितम् ॥ २९ ॥
द्विजानां च तदा तेषामग्रे कथितवानिदम् ॥
यत्र राशिः कपालानां भवद्भिर्विहितो भुवि ॥ 5.2.8.३० ॥
अनादिलिङ्गं तत्रासीच्छन्नं कालविपर्यये ॥
पश्यन्तु विप्रास्तल्लिङ्गं ब्रह्महत्याविमोचनम् ॥ ३१ ॥
कृता मयापि विप्रेन्द्रा ब्रह्महत्या स्वयं पुरा ॥
छिन्दता ब्रह्मणः शीर्षं पञ्चमं तेजसोत्कटम् ॥ ३२ ॥
ब्रह्महत्या ततो जाता ममातीव सुदुःसहा ॥
कपालं च करे लग्नं तथा चातीव दुःसहम्॥ ३३ ॥
दह्यमानस्ततश्चाहं व्याप्तो वै ब्रह्महत्यया ॥
नाशाय सत्वरं तस्याः स्वार्थयात्रामहं गतः ॥ ३४ ॥
गतः सर्वेषु तीर्थेषु नैव मुक्तस्तु हत्यया ॥
ततो दुःखी सुसन्तप्तो नैव लेभे सुखं क्वचित ॥ ३५ ॥
एतस्मिन्नन्तरे दैवी वागुवाचाशरीरिणी ॥
गच्छावन्तीं स्वयं नाथ किमर्थं खिद्यते वृथा ॥ ३६ ॥
महाकालवनं पुण्यं त्वया नाथ विनिर्मितम् ॥
कपालकरसंस्थानं रुद्रमद्भुतदर्शनम् ॥
न जानासि कथं क्षेत्रं महापातकनाशनम् ॥ ३७ ॥
तस्मिन्क्षेत्रे महल्लिङ्गं गजरूपस्य सन्निधौ ॥
विद्यते पश्य देवेश ब्रह्महत्या प्रणश्यति ॥ ३८ ॥
ततोऽहमागतस्तूर्ण वाक्यं श्रुत्वा तदोत्तमम्॥
महल्लिङ्गं मया दृष्टं(?) कपालकरसंस्थितम् ॥ ३९ ॥
मम हस्तात्तदा विप्राः कपालमपतद्भुवि ॥
कपालेश्वरदेवोऽयमिति नाम मया कृतम्॥ 5.2.8.४० ॥
पश्यन्तु विप्रास्तं देवं कपालेश्वरसञ्ज्ञ कम् ॥
यस्य दर्शनमात्रेण निष्कलङ्का भविष्यथ ॥ ४१ ॥
लिङ्गं दृष्टं तदा तैस्तु कपालैर्बहुभिवृतम् ॥
कृतार्थास्ते तदा जातास्तस्य लिङ्गस्य दर्शनात् ॥ ४२ ॥
अतोऽसौ भुवि विख्यातः कपालेश्वरसञ्ज्ञकः ॥
येऽर्चयन्ति महादेवि कपालेश्वरसञ्ज्ञकम्॥ ४३ ॥
कृतपुण्या नरा देवि ते यान्ति परमं पदम् ॥
कृत्वापि पातकं घोरं ब्रह्महत्यादिकं नरः ॥ ४४ ॥
तत्पापं विलयं याति लिङ्गस्यास्य च दर्शनात् ॥
कर्मणा मनसा वाचा यत्पापं समुपार्जितम् ॥
तत्क्षपयति देवोऽयं चतुर्द्दश्यां समर्चितः ॥ ४५ ॥
प्रसङ्गादपि ये पूजां करिष्यन्ति वरानने ॥
तेऽपि कामानवाप्स्यन्ति यांश्च कांश्चित्सुदुर्लभान् ॥
ऐश्वर्यधर्ममतुलं दीर्घमायुररोगताम् ॥ ४६ ॥
निःसपत्नत्वमतुलं यच्चान्यत्तदवाप्नुयात् ॥
अतीव पापिनो ये च क्रूरकर्मरता नराः ॥ ४७ ॥
विपाप्मानो भविष्यन्ति गणेशाश्च मम प्रिये ॥
नियमेन प्रपश्यन्ति ये देवं वत्सरं प्रिये ॥
ते पश्यन्ति तनुं त्यक्त्वा मदीयं भवनं प्रियम् ॥ ४८ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
कपालेश्वरदेवस्य स्वर्गद्वारेश्वरं शृणु ॥ ४९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कपालेश्वरमाहात्म्यवर्णनन्नामाष्टमोऽध्यायः ॥ ८ ॥