॥ श्रीमहादेव उवाच ॥ ॥
त्रिविष्टपेश्वरं देवि सप्तमं पर्वतात्मजे ॥
यस्य दर्शनमात्रेण लभ्यते तत्त्रिविष्टपम् ॥ १ ॥
पुरा वाराहकल्पे तु देवर्षिर्नारदोऽमलः ॥
त्रिविष्टपं गतो देवि द्रष्टुकामः शतक्रतुम् ॥ २ ॥
तत्रोद्यानवने रम्ये कल्पवृक्षैर्विराजिते ॥
सर्वत्र कुसुमामोदसुखस्पर्शानिलाकुले ॥ ३ ॥
वीणावेणुरवैर्घुष्टे देवगन्धर्वसेविते ॥
वज्रेन्द्रनीलवैदूर्यचन्द्रकान्तादिदीपिते ॥ ४ ॥
ब्रह्मलोकादिभिर्लोकैरनौपम्यगुणे शुभे ॥
ददर्श तत्र देवेशमुपविष्टं शतक्रतुम् ॥
स्तूयमानं मुदा देवैः सि द्धचारणकिन्नरैः ॥ ५ ॥
पृष्टस्तु नारदो देवि वासवेन महामुनिः ॥
कथयामास माहात्म्यं महाकालवनस्य च ॥ ६ ॥
महाकालवनं रम्यं सदानन्दकरं शुभम् ॥
सेव्यं पुण्यं पवित्रं च तीर्थानामुत्तमोत्तमम् ॥ ७ ॥
पुण्यं पश्यन्ति ये लोका महाकालवनं शुभम् ॥
ब्रह्महत्यादिकं पापं तेषां नश्यति निश्चि तम् ॥ ८ ॥
स्वयं तिष्ठति देवोऽत्र सर्वभूतगणैर्वृतः ॥
तस्मात्तत्तीर्थमुख्यानां प्रवरं कथ्यते बुधैः ॥ ९ ॥
पृथिव्यां नैमिषं पुण्यं सर्वपापप्रणाशनम् ॥
तस्माद्दशगुणं प्रोक्तं पुष्करं तीर्थमुत्तमम् ॥ 5.2.7.१० ॥
ततो दशगुणं प्रोक्तं प्रयागं सर्वकामिकम् ॥
तस्माद्दशगुणं प्रोक्तं विख्यातममरेश्वरम् ॥ ११ ॥
प्राची सरस्वती पुण्या तस्माद्दशगुणा स्मृता ॥
तस्मादशगुणं प्रोक्तं गयाकूपं विशिष्यते ॥ १२ ॥
तस्माद्दशगुणं देवि कुरुक्षेत्रं विशिष्यते ॥
कुरुक्षेत्राद्दशगुणा पुण्या वाराणसी तथा ॥ १३ ॥
तस्या दशगुणं श्रेष्ठं महाकालं विशिष्यते ॥
महाकालवनं शक्र किल त्रैलोक्यभूषणम् ॥ १४ ॥
षष्टि कोटिसहस्राणि षष्टिकोटिशतानि च ॥
लिङ्गानि तत्र विद्यन्ते भुक्तिमुक्तिकराणि च ॥ १५ ॥
शक्तयो नव कोट्यस्तु तस्मिन्क्षेत्रे वसन्ति हि॥१६॥
कृमिकीटपतङ्गाश्च मृता यत्र ततः क्रतौ ॥
यान्ति दिव्यैर्विमानैश्च रुद्रलोकं सनातनम् ॥
माहात्म्यमद्भुतं श्रुत्वा नारदात्सुरसत्तमः ॥ १७ ॥
सर्वदेव गणैः सार्द्धमाजगाम त्वरान्वितः ॥
वासवः श्रीमहाकालवनं हर्षसमन्वितः ॥ १- ॥
दृष्ट्वा तथाविधं रम्यं महाकालवनं शुभम् ॥
त्रिविष्टपादप्यधिकं प्रलयेऽप्यक्षयं स्मृतम् ॥१९॥
विचित्राणि च हर्म्याणि काञ्चनानि शुभानि च ॥
प्रासादाः शतशो भौममणिविद्रुमभूषिताः ॥ 5.2.7.२०॥
वज्रेन्द्रनीलरचिताः शुद्धस्फटिकसन्निभाः ॥
तोरणानि विचित्राणि माणिक्यरचितानि च ॥
दृष्ट्वा तथाविधं रम्यं महाकालवनोत्तमम् ॥ २१ ॥
नारदं प्रशशंसुस्ते सर्वे देवा मुदान्विताः ॥
देवर्षीणां महाप्राज्ञा येनेयं कथिता कथा ॥२२॥
न कैलासं गमिष्यामो न च मेरुं तथाविधम् ॥
न मन्दरं गमिष्यामो न यास्यामस्त्रिविष्टपम् ॥ २३ ॥
एषामरावती श्रेष्ठा ह्येषा भोगवती शुभा ॥
एषा पैतामहो लोको विष्णुलोकस्तथैव च ॥ २४ ॥
एतस्मिन्नन्तरे देवि शून्यं जातं त्रिविष्टपम् ॥
ज्ञात्वा शून्यमथात्मानं चिन्तयित्वा पुनःपुनः ॥
गमनाय मतिं चक्रे कृत्वा देहमथात्मनः ॥ २५ ॥
त्यक्त्वा मां त्रिदशाः सर्वे महाकालवनं गताः॥
अहं तत्रैव यास्यामि यत्र ते त्रिदशा गताः ॥२६॥
इत्युक्त्वा तत्क्षणं प्राप्तो महाकालवनोत्तमे ॥
कौतुकात्सोऽथ वै श्रेष्ठं तीर्थं तत्रापि भूतले ॥
ददर्श रमणीयं तैर्देवैः परिवृतं तदा ॥ २७ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
भोभोस्त्रिविष्टपात्रैव स्वनाम्ना स्थापयस्व माम् ॥
कर्कोटकस्य पूर्वे तु महामायाश्च दक्षिणे ॥२८॥
इत्युक्तो देवदेवेन हृष्टस्तद्गतचेतसा ॥
स्वनाम्ना स्थापयामास देवं त्रिविष्टपेश्वरम् ॥ २९ ॥
पूजयित्वा शुभैः पुष्पैरुवाचेदं वरानने ॥
अद्यप्रभृति भूर्लोको नाम्ना ख्यातिं गमिष्यति ॥ 5.2.7.३० ॥
ये त्वां पश्यन्ति यत्नेन अपि दुष्कृत कारिणः ॥
ते यास्यन्ति परं स्थानं दिव्यालङ्कारभूषिताः ॥ ३१ ॥
अष्टम्यां च चतुर्द्दश्यां सङ्क्रान्तौ वा विशेषतः ॥
यः करिष्यति पूजां च भक्तियुक्तो हि मानवः ॥ ३२ ॥
विमानवरमास्थाय कामगं रत्नभूषितम् ॥
उदितादित्यसङ्काशं मत्समीपे वसिष्यति ॥ ३३ ॥
किं दानैर्विविधैर्दत्तैः किं यज्ञैर्विविधैः कृतैः ॥
ते प्राप्स्यन्ति फलं सर्वं ये त्वां द्रक्ष्यन्ति भक्तितः ॥ ३४ ॥
यंयं काममभिध्याय पूजयिष्यन्ति मानवाः ॥
तत्तन्मनोरथप्राप्तिर्भविष्यति न संशयः ॥ ३५ ॥
त्रिदशैश्च पुनः प्रोक्तं दृष्ट्वा मल्लिङ्गमुत्तमम् ॥
त्रिविष्टपेन धन्येन स्थापितं देवमीश्वरम् ॥ ३६ ॥
पूजयिष्यन्ति ये धन्या देवं त्रिविष्टपेश्वरम् ॥
तेषां वासोऽक्षयो दिव्यो भविष्यति त्रिविष्टपे ॥ ३७ ॥
इत्युक्त्वा पूजयामास भूयो लिङ्गं त्रिविष्टपम् ॥
सार्द्धं त्रिविष्टपेनैव पुनः स्थानं स्वकं गतः ॥ ३८ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
श्रवणात्कीर्त्तनाद्वापि स्वर्गलोकोऽक्षयो भवेत् ॥ ३९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये त्रिविष्टपेश्वरमाहात्म्यवर्णनन्नाम सप्तमो ऽध्यायः ॥ ७ ॥