॥ श्रीमहादेव उवाच ॥ ॥।
स्वर्णज्वालेश्वरं षष्ठं विद्धि चात्र यशस्विनि ॥
यस्य दर्शनमात्रेण धनवानिह जायते ॥ १ ॥
पुरा सार्द्धं त्वया देवि क्रीडतो मम मन्दिरे ॥
जातं वर्षशतं दिव्यं सुरतैकरसस्य च ॥ २ ॥
देवैः सर्वैस्ततो वह्निः प्रेरितो मम सन्निधौ ॥
ततो वह्निः समायातस्त्रैलोक्यार्थे यशस्विनि॥ ३ ॥
ततो वह्निमुखे क्षिप्तं वीर्यं स्वं क्रीडता मया ॥
दह्यमानस्तदा तेन गङ्गां वह्निर्जगाम ह ॥ ४ ॥
तत्र गत्वा प्रचिक्षेप वीर्यमग्निः सुदुर्द्धरम् ॥
तथापि दह्यते वह्निर्वीर्यशेषेण पार्वति ॥ ५ ॥
जातं रम्यं ततो दिव्यं वीर्यशेषेण काञ्चनम् ॥
ज्वलन्तं चातितापेन दुःसहं दुर्द्धरं प्रिये ॥ ६ ॥
अग्नेरपत्यं प्रथमं दृष्ट्वोत्पन्नं तु पार्वति ॥
लोभाभिभूता असुराः सुरा गन्धर्वकिन्नराः ॥ ॥ ७ ॥
यक्षाः साध्याः पिशाचाश्च मनुष्या राक्षसाः खगाः ॥
अभ्यधावन्सुसंरब्धास्ते सुवर्णजिघृक्षवः ॥ ८ ॥
सुवर्णार्थे महान्नादो ममेदमिति जल्पताम् ॥
अज्ञानात्सङ्गरश्चैव सञ्जातः प्राणहारकः ॥ ९ ॥
अथावरणमुख्यानि नानाप्रहरणानि च ॥
प्रगृह्याभ्यनदन्नादैर्देवैः सार्द्धं यशस्विनि ॥ 5.2.6.१० ॥
असुरा असुरैः सार्द्धं मनुष्या मानुषैः सह ॥
गन्धर्वाः सह गन्धर्वैः किन्नरैः सह किन्नराः ॥ ॥ ११ ॥
भूतैः सार्द्धं च भूतानि राक्षसैः सह राक्षसाः ॥
वेतालैः सह वेताला युद्धं चक्रुः सुदारुणम् ॥ १२ ॥
पुत्रस्तु पितरं द्वेष्टि पिता पुत्रं तथैव च ॥
हन्ति भार्या स्वभर्तारं भर्ता च स्वां प्रियां तथा ॥ १३ ॥
मातरं स्वसुतो हन्ति माता पुत्रं हिनस्ति च ॥
ततो वैरविनिर्बन्धः सञ्जातः स्वर्णकारणात्॥ १४ ॥
सुराणामसुराणां च सर्वं घोरतरं महत् ॥
प्रासाश्च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः ॥
तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ॥ १५ ॥
सुवर्णार्थे महादेवि वमन्तो रुधिरं बहु ॥ १६ ॥
असिशक्तिगदाऋष्ट्यो निपेतुर्धरणीतले ॥
छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः ॥ १७ ॥
रुधिरेणावलिप्ताङ्गा निहताश्च परस्परम् ॥
अद्रीणामिव कूटानि धातुयुक्तानि शेरते ॥ १८ ॥
हाहाकारः समभवद्भयकृच्च सहस्रशः ॥
अन्योन्यं छिन्दतां शस्त्रैः सुवर्णस्य च कारणात् ॥ १९ ॥
परिघैरायसैः पाशैर्वज्रकल्पैश्च मुष्टिभिः ॥
निघ्नतां समरे ऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥ 5.2.6.२० ॥
छिन्धिभिन्धि प्रधाव त्वं पातयाधिसरेति च ॥
अश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः ॥ २१ ॥
एवं तु तुमुले युद्धे वर्त्तमाने महाभये ॥
कम्पिता धरणी देवि देवास्त्रस्ताः सवासवाः ॥ २२ ॥
क्षुभ्यन्ति स्म समुद्राश्च चेलुश्च धरणीधराः ॥
तस्यार्थे पीडितं सर्वं सदेवासुरमानुषम्॥२३॥
ऋषयो वालखिल्याद्या देवाः शक्रपुरोगमाः॥
बृहस्पतिं पुरस्कृत्य ब्रह्मलोकं गताः स्त्रियः॥२४॥
सोच्छ्वासा कथयामासुर्जर्जरीकृतमस्तकाः ॥
वृत्तान्तं विस्तरात्सर्वं लोकत्रयविनाशनम् ॥ २५ ॥
तच्छ्रुत्वा वचनं तेषां ब्रह्मा लोकपितामहः ॥
चिन्तयित्वा च तैः सार्द्धमाजगाम ममान्तिकम् ॥ २६ ॥
मया पृष्टास्तु ते सर्वे केनैते जर्जरीकृताः ॥
शस्त्रास्त्रैः पीडिताः केन कस्माद्वो भयमागतम् ॥ २७ ॥
कश्चासौ दानवो दुष्टो येन वै पीडिता भृशम् ॥
तत्सर्वं कथितं देवि ममाग्रे भयविह्वलैः ॥ २८ ॥
ते मामूचुस्तदा देवा ब्रह्माद्या भयकारणम् ॥ ॥ २९ ॥
लोभात्सर्वे विनष्टाः स्म सुवर्णस्य च कारणात् ॥
पीडितं च जगत्सर्वं सदेवासुरमानुषम् ॥ 5.2.6.३० ॥
इति तेषां वचः श्रुत्वा मया ज्ञातं वरानने ॥
तस्यार्थे कलहो घोरः सञ्जातो हि परस्परम् ॥ ३१ ॥
लोकत्रयविनाशश्च सहसा येन वै कृतः ॥
यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघात कम् ॥ ३२ ॥
ब्रह्महा वह्निपुत्रस्तु यमुद्दिश्य मृतो जनः ॥
शरीरं शबलं चैव सविकारं भविष्यति ॥ ३३ ॥
धातवो हि भविष्यन्ति तस्य देहे न संशयः ॥
लक्ष्यते दुःखमतुलं छेददाहादिघर्षणम् ॥ ३४ ॥
एतस्मिन्नन्तरे वह्निर्दृष्ट्वा पुत्रस्य चेष्टितम् ॥
ज्ञात्वा क्रोधं मदीयं तु भीतो वै पुत्रकार णात् ॥ ३५ ॥
आजगाम सुवर्णेन सार्द्धं देवि ममान्तिकम् ॥
प्रसादितोऽहं पुत्रार्थे वह्निना हि वरानने ॥ ३६ ॥
रक्षणीयस्त्वया देव पुत्रोयं तव शङ्कर ॥
भाण्डागारे स्वकीये तु क्रियतां परमेश्वर ॥ ३७ ॥
त्वयि तुष्टे महादेव प्राप्योऽयं नात्र संशयः ॥
इच्छया दीयतां देवि यस्य कस्य जनस्य च ॥ ३८ ॥
इति तस्य वचः श्रुत्वा पितृदेवमुखस्य च ॥
तथेति च प्रतिज्ञातं मया लोभाद्यशस्विनि ॥ ३९ ।
स्नेहान्मया वह्निपुत्र उत्सङ्गे च कृतस्तदा ॥
स्नेहाद्वै चुम्बितो मूर्ध्नि परिष्वक्तः पुनःपुनः ॥ 5.2.6.४० ॥
ददामि ते महाभाग वरं वरय शोभनम् ॥
परितुष्टोऽस्मि वै कामं यथेष्टं समवाप्नुहि ॥ ४१ ॥
अहमाज्ञापयामि त्वां श्रेयश्चैवमवाप्स्यसि ॥
ममाभीष्टकरं स्थानं विद्यते पृथिवीतले ॥ ४२ ॥
अक्षयं प्रलये पुत्र महाकालवनं शुभम् ॥
तत्रैव विद्यते लिङ्गं कर्कोटकस्य दक्षिणे ॥ ४३ ॥
महापापहरं पुत्र दर्शनाद्दीप्तिदायकम् ॥
तस्य दर्शनमात्रेण कृतकृत्यो भविष्यसि ॥ ४४ ॥
पुण्यश्चैव पवित्रेण दुर्लभश्च भविष्यति ॥
अकुलीनः कुलीनस्तु समलो निर्मलो नरः ॥ ४५ ॥
विरूपो रूपवांश्चैव त्वत्प्रसादाद्भविष्यति ॥
दानानि परिपूर्णानि व्रतानि नियमास्तथा ॥ ४६ ॥
यज्ञाश्चैवोपवासाश्च तीर्थं पिण्डादिकं त्वया ॥
सुसम्पूर्णा भविष्यन्ति तव दानेन सुव्रत ॥ ४७ ॥
सर्वेषां चैव रत्नानामाधिपत्यं करिष्यसि ॥
प्रियाभीष्टो हि देवानां लोकानां च भविष्यसि ॥४८॥
इत्युक्तोऽसौ महादेवि दिव्यरूपो वरानने ॥
ज्वालामाला वृतः पुण्यो निर्मलो हि बभूव ह ॥४९॥
लिङ्गेनोक्तः सुवर्णस्तु दिष्ट्यादिष्ट्येति काञ्चनम् ॥
अद्यप्रभृति नाम्ना वै ख्यातिं यास्यसि भूतले ॥ 5.2.6.५० ॥
स्थातव्यं मत्समीपे तु वह्निपुत्र त्वया सदा ॥
अक्षया भविता कीर्त्तिस्त्वदीया भुवनत्रये ॥ ५१ ॥
इत्युक्तो देवि लिङ्गेन वह्निपुत्रोऽतिनिर्मलः ॥
ज्वालावृततनुर्जातः सूर्यकोटिसमप्रभः ॥ ५२ ॥
दीप्तिर्लब्धा सुवर्णेन ज्वालामालाकुला तदा ॥
अतो देवि सुविख्यातः स्वर्णज्वालेश्वरः शिवः ॥ ५३ ॥
यस्तमर्चयते भक्त्या स्वर्णज्वालेश्वरं शिवम् ॥
तस्य सञ्जायते देवि विजयो राज्यमूर्जितम् ॥
ऐश्वर्यं दानशक्तिश्च पुत्रपौत्रमनन्तकम् ॥ ॥ ५४ ॥
ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः ॥
तत्क्षालयति देहोत्थं दर्शनान्नात्र संशयः ॥ ५५ ॥
यत्फलं पिण्डदानेन गयायां लभते नरः ॥
तत्फलं द्विगुणं प्रोक्तं पूजया नात्र संशयः ॥ ५६ ॥
गायत्र्याः शतसाहस्रैः सम्यग्जप्तैश्च यत्फलम्॥
तत्फलं समवाप्नोति स्वर्णज्वालेश्वरस्तुतेः ॥ ५७ ॥
यत्पुण्यं सर्वदानेन दत्तेन विधिपूर्वकम् ॥
तत्फलं समवाप्नोति कीर्तनान्नात्र संशयः ॥ ५८ ॥
पूजयन्ति चतुर्दश्यां स्वर्णज्वालेश्वरं तु ये ॥
पूज्यन्ते ते सदा लक्ष्म्या पूरयन्त्या मनोरथान् ॥ ५९ ॥
रक्षितं त्रिदशैर्देवि गणैर्नानाविधैस्तथा ॥
लिङ्गं कश्चिन्न जानाति मम मायाविमोहितः ॥ 5.2.6.६० ॥
मम प्रसादात्तद्देवि दृश्यते लिङ्गमुत्तमम् ॥
एतत्ते कथितं सम्यगन्यच्छृणु वरानने ॥ ६१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये स्वर्णज्वालेश्वरमाहात्म्यवर्णनन्नाम षष्ठोऽध्यायः ॥ ६ ॥