००५ चतुरशीतिलिङ्गमाहात्म्येऽनादिकल्पेश्वरमाहात्म्यवर्णनम्

॥ श्रीरुद्र उवाच ॥ ॥
अनादिकल्पेश्वरं देवं पञ्चमं विद्धि पार्वति ॥
सर्वपापहरं नित्यमनादिर्गीयते सदा ॥ १ ॥
कल्पस्यादौ पुरा देवि लिङ्गमेतद्विनिर्गतम् ॥
यदा नाग्निर्न चादित्यो न भूमिर्न दिशो न खम् ॥ २ ॥
न वायुर्न जलं चैव न द्यौर्ने न्दुर्ग्रहा न च ॥
न देवासुरगन्धर्वा न पिशाचा न राक्षसाः ॥ ३ ॥
अतो लिङ्गात्समुद्भूतं जगत्स्थावरजङ्गमम् ॥
कालेन च लयं याति लिङ्गेऽस्मिन्पर्वतात्मजे ॥ ४ ॥
अस्माल्लिङ्गात्समुद्भूता वंशा देवर्षिपैतृकाः ॥
मन्वन्तराणि वंशानि वंश्यानुचरितं च यत् ॥ ५ ॥
यावत्यः सृष्टयश्चैव यावन्तः प्रलयास्तथा ॥
समुद्राः पर्वताश्चैव निम्नगाः काननानि च ॥ ६ ॥
भूर्लोकाद्याश्च ये लोकाः पातालाः सप्त ये स्मृताः ॥
गतिस्तथार्कसोमादिग्रहर्क्ष ज्योतिषामपि ॥ ७ ॥
दृश्यादृश्यं च तत्सर्वमतो लिङ्गाद्वरानने ॥
अनादिकारणं यत्तदव्यक्ताख्यं महर्षयः ॥
यदाहुः पुरुषं सूक्ष्मं नित्यं सदसदा त्मकम् ॥ ८ ॥
ध्रुवमक्षयमजरममेयं नान्यसंश्रयम् ॥
गन्धरूपरसैर्हीनं शब्दस्पर्शविवर्जितम् ॥ ९ ॥
अनाद्यन्तं जगद्योनिं त्रिगुणप्रभवाव्ययम् ॥
असादृश्यमविज्ञेयं लिङ्गं प्रोक्तं महर्षिभिः ॥ 5.2.5.१० ॥
प्रलयस्यान्ते तेनेदं दिव्यमासीदशेषतः ॥ ११ ॥
अहमुर्व्यां प्रबुद्धस्तु जगदादिरनादिमान् ॥
सर्वहेतुरचिन्त्यात्मा परः कोऽप्यपरक्रियः ॥ १२ ॥
प्रकृतिं पुरुषं चैव प्रदर्श्याशु जगत्पतिः ॥
क्षोभयामास योगेन परेण परमेश्वरः ॥ १३ ॥
यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते ॥
मनसो नोपकर्तृत्वात्तथासौ परमेश्वरः ॥
अनादिः कथ्यते देवो जगत्कारणतत्परम् ॥१४॥
प्रधानं क्षोभ्यमाणं तु तेन लिङ्गेन पार्वति ॥
जायते भुवनाधारो ब्रह्माण्ड इति विश्रुतः ॥ १५ ॥
यस्मिन्नण्डे जगत्सर्वं सदेवासुरमानुषम् ॥
उत्पन्नं च विलीनं च यस्यान्तोऽपि न लभ्यते ॥१६॥
स एव क्षोभकः पूर्वं स क्षोभ्यः पृथिवीपतिः ॥
स सङ्कोचविकासाभ्यां प्रधानत्वे व्यवस्थितः ॥ १७ ॥
उत्पन्नः स जगन्नाथो निर्गुणोऽपि रजोगुणः ॥
भुञ्जन्प्रवर्तते सर्गं ब्रह्मत्वं समुपागतः ॥ १८ ॥
ब्रह्मत्वे सृजते लोकांस्ततः सत्त्वातिरेकतः ॥
विष्णुत्वमेत्य धर्मेण करोति परिपालनम् ॥ १९ ॥
ततस्तमोगुणोद्भिन्नो रुद्रत्वेनाखिलं जगत् ॥
उपसंहृत्य वै शेते त्रैलोक्यं त्रिगुणोऽगुणः ॥ 5.2.5.२० ॥
यथा प्राग्वापकः क्षेत्री पालको लावकस्तथा ॥
स सञ्ज्ञा याति तद्वच्च ब्रह्मविष्णुत्वरुद्रताः ॥ २१ ॥
ब्रह्मत्वे सृजते लोकानुद्रत्वे संहरत्यपि ॥
विष्णुत्वे पाति तान्सर्वांस्तिस्रोऽवस्थाः स्मृताः सदा ॥ २२ ॥
रजो ब्रह्मा तमो रुद्रः सत्त्वं विष्णुर्जगत्पतिः ॥
एत एव त्रयो वेदा एत एव त्रयो नराः ॥ २३ ॥
कल्पे कल्पे ह्यनादिस्तु गीयते त्रिदशैः सदा ॥
पितृभिश्च गणैः सिद्धैरतोऽनादिकल्पेश्वरः ॥ २४ ॥
नाम प्राप्तं विशालाक्षि महाकालवनं सदा ॥
यदा जातो विवादस्तु ब्रह्मणः केशवस्य च ॥ २५ ॥
अहं ज्यायानहं ज्यायान्कल्पादौ सृष्टिकारणात् ॥
दिव्या समुत्थिता वाणी निरालम्बा तदाम्बरात् ॥ ॥ २६ ॥
महाकालवने लिङ्गं कल्पेश्वरेति सञ्ज्ञकम् ॥
तस्यादिमथवान्तं च यः पश्यति स च प्रभुः ॥
भविष्यति न सन्देहो न वादः क्रियता मिति ॥ २७ ॥
ततो देवि गतो ब्रह्मा ऊर्द्ध्वलोकमनन्तकम् ॥
अधोलोकं गतो विष्णुस्तेन वाक्येन सत्वरम् ॥ २८ ॥
नादिर्दृष्टो न चान्तश्च ब्रह्मणा केशवेन तु ॥
तदा तौ विस्मयापन्नौ तुष्टुवाते परस्परम् ॥ २९ ॥
वेदोक्तसूक्तैर्विविधैरभिनन्द्य पुरःस्थितौ ॥
नादिरस्ति न चान्तश्च न च कल्पोऽत्र दृश्यते ॥ 5.2.5.३० ॥
तस्मादनादिकल्पोऽयमद्यप्रभृति भूतले ॥
ख्यातिं यास्यति नाम्ना च महाकालवनोत्तमे ॥ ३१ ॥
पञ्चपातकसंयुक्तो यो मर्त्यो दुष्टमानसः ॥
सोऽपि गच्छेच्छिवं दृष्ट्वानादिकल्पेश्वरं शिवम् ॥ ३२ ॥
शिवमस्तु सदा तेषां येषां त्वं दर्शनं गतः ॥
ते धन्या मानुषे लोके ये त्वां शरणागताः ॥ ३३ ॥
सर्वतीर्थाभिषेकैस्तु यत्पुण्यं प्राप्यते नरैः ॥
तत्सर्वमधिकं देव लभ्यते तव दर्शनात् ॥ ३४ ॥
तावत्पतन्ति संसारे सुखदुःखसमाकुले ॥
तावन्न दृश्यते देव संसारार्णवतारकः ॥ ३५ ॥
यदा पापक्षयः पुंसां तदा त्वद्दर्शनं भवेत् ॥ ३६ ॥
ब्रह्महा वा सुरापो वा स्तेयी च गुरुतल्पगः ॥
तत्संसर्गी नरो यस्तु महाकिल्बिषकारकः ॥
सोऽपि याति परं स्थानं पुनरावृत्तिवर्जितम् ॥ ३७ ॥
यत्फलं चाश्वमेधेन राजसूयेन यत्फलम् ॥
तत्फलं समवाप्नोति तव देव समर्चनात् ॥ ३८ ॥
ते नराः पशवो लोके तेषां जन्म निरर्थकम् ॥
यैर्न दृष्टो महादेवोऽना दिकल्पेश्वरः शिवः ॥ ३९ ॥
इत्युक्त्वा केशवो देवो ब्रह्मा चैव वरानने ॥
वामे दक्षिणभागे च तस्य लिङ्गस्य संस्थितौ ॥ 5.2.5.४० ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
यस्य श्रवणमात्रेण लभ्यते परमं पदम्॥ ४१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्येऽनादिकल्पेश्वरमाहात्म्यवर्णनन्नाम पञ्चमोऽध्यायः ॥ ५ ॥