श्रीमहादेव उवाच ॥
ख्यातोऽवन्त्यां चतुर्थोऽसौ देवो डमरुकेश्वरः॥
दृष्टे यस्मिञ्जगन्नाथे याति पापं च सङ्क्षयम् ॥१॥
पुरा वैवस्वते कल्पे रुरुर्नाम महासुरः ॥
तस्य पुत्रो महाबाहुर्वज्रोनाम महाबलः ॥
बभूव सुमहाकायस्तीक्ष्णदंष्ट्रो भयङ्करः ॥ २ ॥
तेन देवाः स्वाधिकाराच्चालितास्त्रिदशाल यात् ॥ ३ ॥
ततो नीतं धनं तेषां ब्रह्माणं ते ततो ययुः ॥
ब्रह्मापि भयसंविग्नो बभूवाकुलितेन्द्रियः ॥ ४ ॥
ज्ञात्वावध्यं सुरैः सार्धं सर्वैः सोऽथमहा बलः ॥
तेषु नष्टेषु ये विप्रा यज्वानोऽथ तपस्विनः ॥
ताञ्जघान स दुष्टात्मा ये चान्ये धर्मचारिणः ॥ ५ ॥
निःस्वाध्यायवषट्कारं तदासीद्धरणीत तलम्॥
नष्टयज्ञोत्सवं देवि हाहाभूतमचेतनम् ॥ ६॥
ततः प्रव्यथिता देवास्तथा सर्वे महर्षयः ॥
समेत्यामन्त्रयन्मन्त्रं वधार्थं तस्य दुर्मतेः ॥ ७ ॥
ततः कायोऽभवत्सद्यः सर्वेषां पुरतस्तदा ॥
तेषां चिन्तयतां देवि तेजःपुञ्जेन चावृतः ॥ ८ ॥
तस्मात्कृत्या समुत्पन्ना दिव्या कमललोचना ॥
द्योतयन्ती दिशः सर्वाः स्वतेजोभिः समन्ततः ॥ ९ ॥
साब्रवीत्त्रिदशान्सर्वान्कस्मात्सृष्टा ह्यहं सुराः ॥
यत्कर्तव्यं मया कर्म तच्छीघ्रं सन्निवेद्यताम् ॥ 5.2.4.१० ॥
ततस्तु त्रिदशाः सर्वे श्रुत्वा तस्याः शुभा गिरः ॥
आचख्युः सकलं तस्यै तदा वज्रस्य चेष्टितम् ॥ ११ ॥
श्रुत्वा जहास सा देवी साट्टहासं मुहुर् मुहुः ॥
तस्या हसन्त्या निःसस्रुः कन्याः कमललोचनाः ॥ १२ ॥
पाशाङ्कुशधरा रौद्रा ज्वालामालावृताननाः ॥
फेत्कारेण च सन्नादैश्चालयन्त्यश्चराचरम् ॥ १३ ॥
गताः सर्वा महादेवि यत्र वज्रो महासुरः ॥
युद्धं तु तुमुलं जातं ताभिस्तस्य भयावहम् ॥ १४ ॥
शस्त्रास्त्रैर्बहुधा मुक्तैर्व्याप्तं चैव दिगन्तरम् ॥
सन्नद्धाखिलसैन्यास्ते युयुधुः समरे भृशम् ॥ १५ ॥
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् ॥
ततो मातृगणं क्रुद्धं मर्द्दयन्तं महासु रान् ॥
पराङ्मुखं बलं दृष्ट्वा वज्रो मायामथासृजत् ॥ १६ ॥
तामसीन्नाम दुःसाध्यां यया मुह्यति कन्यकाः ॥ १७ ॥
तमोभूते ततस्तस्मिन्सा देवी भयविह्वला ॥
ताभिः सार्द्धं समायाता महाकालवनोत्तमम् ॥ १८ ॥
कपालवान्हरो यत्र लिङ्गाकारेण संस्थितः ॥
ज्ञात्वा मातृगणं नष्टं ततो मायाप्रभावतः ॥ १९ ॥
वज्रोऽपि त्रिदशाञ्ज्ञात्वा देव्या सार्द्धमथोपि(षि?)तान् ॥
आजगाम तमुद्देशं स्वसैन्यपरिवारितः ॥ 5.2.4.२० ॥
महाकालवने दिव्ये रथकोटिशतैर्वृतः॥
समन्ताच्च वनं देवि तत्क्रुद्धो वाक्यमब्रवीत् ॥२१॥
अद्य देवान्हनिष्यामि तया साकं सुदुष्टया ॥
कन्याभिः सह या नष्टा तमोमायाबलेन तु॥२२॥
एतस्मिन्नन्तरे काले नारदो मुनिसत्तमः॥
सोत्सुकस्तु समायातो मन्दरे चारुकन्दरे॥ २३ ॥
कथयामास देवनां वज्राद्देवपराभवम्॥२४॥
महाकालवने देव ताडितास्त्त्रिदशाः प्रभो॥
वज्रेण रुरुपुत्रेण तस्माद्याहि महेश्वर॥२५॥
नारदस्य वचः श्रुत्वा ततोऽहं परमेश्वरि॥
मन्दरादागतस्तूर्णं कृत्वा रूपं सुभैरवम्॥२६॥
सर्पैर्लसद्भिरत्युग्रैर्भीषणैर्गणसंवृतः॥
अग्रे दृष्टं महत्सैन्यं दानवानां भयावहम्॥२७॥
महाकालवनं रुद्धं समन्तादसुरेण तु ॥
वज्रेण रुरुपुत्रेण दुःसहेन यशस्विनि ॥ २८ ॥
तदागत्य मया ताड्य रौद्रं डमरुकं तथा ॥
मोहितं सहसा सैन्यं वज्रस्यैव दुरात्मनः ॥ २९ ॥
डमरुकस्य नादेन ह्युत्थितं लिङ्गमुत्तमम् ॥
विदार्य वसुधां देवि ज्वालामालाकुलं तदा ॥ 5.2.4.३० ॥
तस्य लिङ्गस्य च तदा महाज्वाला विनिर्गता ॥
एकदेशाद्वरारोहे ब्रह्माण्डव्यापिनी तथा ॥ ३१ ॥
लिङ्गस्यान्यप्रदेशात्तु वायुः समभवन्महान् ॥ ३२ ॥
तेजोज्वालासमूहेन वातेन प्रेरितेन च ॥
सह चक्रेण तत्सैन्यं दग्धं भस्मत्वमागतम् ॥ ३३ ॥
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ॥
नमश्चक्रुर्ह ते तस्मिन्रुरुपुत्रे महाबले ॥ ३४ ॥
अस्य देवस्य माहात्म्याद्दग्धो वज्रो महाबलः ॥
ससैन्योभूत्ततस्तस्मादेष डमरुकेश्वरः ॥
ख्यातिं यास्यति लोकेस्मिन्सर्वकामफलप्रदः ॥ ३५ ॥
डमरुकस्य तु नादेन जातो यस्मान्महीतले ॥
अतः पूज्यवरो देवो भविष्यति न संशयः ॥ ३६ ॥
दृष्ट्वा ये पूजयिष्यन्ति देवं डमरुकेश्वरम् ॥
ते सर्वे दुःखनिर्मुक्ता भविष्यन्ति गतज्वराः ॥ ३७ ॥
चान्द्रायणानां विधिवच्छतानामथ यत्फलम् ॥
तत्फलं समवाप्नोति डमरुकेश्वरपूजनात् ॥ ३८ ॥
अस्मिन्स्थाने स्थितं लिङ्गं भक्त्या डमरुकेश्वरम् ॥
प्रसङ्गादपि पश्यन्ति ह्यपि पापपरा नराः ॥ ३९ ॥
तेऽप्यवश्यं तु यास्यन्ति रुद्रलोकं सनातनम् ॥
भक्ताः स्तोष्यन्ति ये लिङ्गं ख्यातं डमरुकेश्वरम् ॥5.2.4.४०॥
मानसैः पातकैर्मुक्ता यास्यन्ति परमं पदम् ॥
अश्वमेधसहस्रं तु वाजपेयशतं भवेत् ॥
गोसहस्रफलं चात्र दृष्ट्वा प्राप्स्यन्ति मानवाः ॥ ४१ ॥
यो याति सङ्गरे धीरो दृष्ट्वा डमरुकेश्वरम् ॥
जयेद्रिपूनथान्ते स रुद्रलोके महीयते ॥ ४२ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
स्तुतस्तु कीर्तितश्चैव सर्वाभीष्टफलप्रद ॥ ४३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये डमरुकेश्वरूमाहात्म्यवर्णनन्नाम चतुर्थोऽ ध्यायः ॥ ४ ॥ ॥ छ ॥ ॥