००३ ढुण्ढेश्वरमाहात्म्यवर्णनम्

॥ श्रीरुद्र उवाच ॥ ॥
ढुण्ढेश्वरं तृतीयं तु सुखस्वर्गफलप्रदम् ॥
सर्वपापहरं लिगं नृणां दुष्कृतनाशनम् ॥ १ ॥
ढुण्ढश्चासीत्पुरा देवि कैलासे गणनायकः ॥
स च कामी दुराचारो व्यसनोपहतेन्द्रियः ॥ २ ॥
गतोऽसौ शक्रलोकं तु कौतुकार्थं यदृच्छया ॥
यत्र नृत्यति सा रम्भा शक्रस्याग्रे विवृण्वती ॥ ॥ ३ ॥
भावान्बहुविधान्रम्यान्दृष्टिहस्तादिकाञ्छुभान्।
सूचीविद्धादिकरणान्पताकादिकहस्तकान्॥
नृत्यं हस्तादिसंयुक्तं लयतालानुगं तथा ॥४॥
शक्रोऽपि त्रिदशैः सार्द्धं तन्मुखासक्तलोचनः ॥
बभूव हृष्टचेता वै हृषिताङ्गरुहाननः ॥ ५ ॥
एतस्मिन्नन्तरे देवि ढुण्ढस्तल्ललितेन तु ॥
कामरागवशेनैव भाव्यर्थेन च मोहितः ॥ ६ ॥
तेन रङ्गरता रम्भा पुष्पगुच्छेन ताडिता ॥
स शप्तो वासवेनैव दृष्ट्वाऽन्यायं गणस्य तु ॥ ७ ॥
पत त्वं मानुषं लोकं रङ्गभङ्गस्त्वया कृतः ॥
इति शप्तो गणो देवि शक्रेणामिततेजसा ॥ ८ ॥
पतितो मानुषे लोके विसञ्ज्ञो विह्वलेन्द्रियः ॥
कादिग्भूतो हतो त्साहो विललाप पुनःपुनः ॥ ९ ॥
अहोऽन्यायफलं प्राप्तं मया मोहादनुष्ठितम् ॥
तस्मान्नीतिर्विधातव्या पुरुषेण विजानता ॥ 5.2.3.१० ॥
न्यायमार्गं समाश्रित्य येन सिद्धिर्भवेन्मम ॥ ११ ॥
इत्युक्त्वा स तपस्तेपे महेन्द्रे पर्वतोत्तमे ॥
श्रीशैले मलये विन्ध्ये पारियात्रे यमालये ॥ १२ ॥
नो सिद्धोऽसौ यदा देवि तदा गङ्गामहत्तटम् ॥
यमुनां चन्द्रभागां च वितस्तां नर्मदां नदीम् ॥ १३ ॥
गोदावरीं भीमरथीं कौशिकीं शारदां शिवाम् ॥
चर्मण्वतीं समासाद्य स्नात्वा त्यक्तक्रियोऽभवत् ॥ १४ ॥
तीर्थं व्यर्थं तपो व्यर्थं तीर्थयात्राफलं यतः ॥
न प्राप्तं च मयाभीष्टमटता कर्मभूमिषु ॥ १५ ॥
एतस्मिन्नन्तरे देवि वागुवाचाशरीरिणी ॥
आश्वासयन्ती गणपं महाकालायने व्रज ॥ १६ ॥
प्रयागाद्यानि तीर्थानि पृथिव्यां यानि सन्ति वै ॥
सदा सिद्धिकरं तेषां महाकालं विशिष्यते ॥ १७ ॥
तत्रास्ते सुमहापुण्यं लिङ्गं सर्वार्थसाधकम् ॥
पिशाचेश्वरसान्निध्ये तमाराधय सत्वरम् ॥ १८ ॥
प्रसादात्तस्य लिङ्गस्य पुनर्यास्यसि शाङ्करम् ॥
लोकं तेजस्विनां गम्यं दुर्लभं पापिनां सदा ॥ १९ ॥
इति श्रुत्वा ततो वाणीमाकाशस्थां गणस्तदा ॥
आजगाम मुदा युक्तो महाकालवनोत्तमे ॥ 5.2.3.२० ॥
ददर्श तत्र तल्लिङ्गं सर्वसम्पत्करं शुभम्॥
पूजयामास देवेशं भक्त्या परमया युतः ॥ २१ ॥
लिङ्गमध्यात्ततो वाणी निःसृता पर्व तात्मजे ॥
अहो तुष्टोस्मि ते वत्स किं कामं प्रददाम्यहम् ॥ २२ ॥
॥ ढुण्ढ उवाच ॥ ॥
यदि तुष्टोऽसि देवेश शरणागतवत्सल ॥
त्वत्पादपङ्कजे भूयाद्भक्तिर्मेऽविचला सदा ॥ २३ ॥
वरमेनं प्रयच्छाशु यदि तुष्टो महेश्वरः ॥ २४ ॥
ये च त्वां मानवा देव पश्यन्ति परमेश्वर ॥
पापात्सद्यो विनिर्मुक्तास्ते भवन्तु महीतले ॥ २५ ॥
ढुण्ढस्य भाषितं श्रुत्वा लिङ्गेनोक्तं यशस्विनि ॥
ये च मां पूजयिष्यन्ति श्रद्धया परया पुनः॥
ते भविष्यन्ति सततं सदा पातकवर्जिताः ॥ २६ ॥
लप्स्यन्ति ते परान्कामान्भविष्यन्ति गणोत्तमाः॥
पूज्याः सर्वेषु लोकेषु सर्वालङ्कारभूषिताः ॥२७॥
एवं लब्धवरो ढुण्ढः प्राञ्जलिः पुनरब्रवीत् ॥
मन्नाम्ना प्रथितं लिङ्गं सम्भूयाद्भुवने सदा ॥ २८ ॥
एवमस्त्विति लिङ्गेन प्रोक्तं तुष्टेन पार्वति ॥
तदाप्रभृति विख्यातो देवो ढुण्ढे श्वरः परः ॥ २९ ॥
यस्य दर्शनमात्रेण सदा सिद्धिर्भवेन्नृणाम्॥ 5.2.3.३० ॥
भक्त्या ये पूजयिष्यन्ति देवं ढुण्ढेश्वरं परम् ॥
आजन्मप्रभवं पापं तेषां यास्य ति तत्क्षणात् ॥३१॥
स एव सुकृती लोके स एव मम वल्लभः॥
यः पश्यति नरो भक्त्या लिङ्गं ढुण्ढेश्वरं परम् ॥ ३२ ॥
राजसूयशतेनैव यत्पुण्यं च भविष्यति ॥
ततो भविष्यत्यधिकं ढुण्ढेश्वरनिरीक्षणात्॥३३॥
मानसं वाचिकं वापि कायिकं गुह्यसम्भवम् ॥
प्रकाशं वाऽप्रकाशं च प्रसङ्गादपि यत्कृ तम् ॥
तत्सर्वं यास्यति क्षिप्रं ढुण्ढेश्वरस्य दर्शनात्॥३४॥
इत्युक्तस्तु मया देवि स ढुण्ढो गणनायकः ॥
कृतो लिङ्गस्य माहात्म्याद्गतो लोके मदीयके ॥
रेजे च गणपैः सार्द्धं ममाभीष्टतरोऽभवत्॥३५॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
श्रवणात्कीर्त्तनाद्वापि मम लोके महीयते ॥३६॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये ढुण्ढेश्वरमाहात्म्यवर्णनन्नाम तृतीयोऽध्यायः ॥३॥ ॥