००२ गुहेश्वरमाहात्म्यवर्णनम्

श्रीरुद्रउवाच ॥ ॥
शृणु गुहेश्वरं लिङ्गं द्वितीयं पापनाशनम् ॥
यस्य दर्शनमात्रेण जायते सिद्धिरुत्तमा ॥ १ ॥
पुरा राथन्तरे कल्पे देवदारुवने शुभे ॥
ऋषिर्मङ्कणकोनाम वेदवेदाङ्गपारगः ॥
योगाभ्यासरतो नित्यं शान्तिदान्तिसमास्थितिः ॥ २ ॥
सिद्धिकामस्तपस्तेपे कथं सिद्धो भवाम्यहम् ॥
रक्तमयविकारोयं कथं यास्यति सङ्क्षयम् ॥ ३ ॥
इति सञ्चिन्त्य हृदये प्रारब्धं तप उत्तमम् ॥
बहून्यब्दसहस्राणि तस्यातीतानि पार्वति ॥ ४ ॥
कस्मिंश्चिदथ काले तु विद्धस्य पर्वतात्मजे ॥
कराच्छाकरसो जातः कुशाग्रेण तदैव हि ॥ ५ ॥
स च दृष्ट्वा तदाश्चर्यं विस्मयं परमं गतः ॥
मेने सिद्धिं परां प्राप्तां सगर्वो वाक्यमब्रवीत् ॥ ६ ॥
अहो तपःप्रभावोऽयं प्राप्ता सिद्धिर्मयाद्य वै ॥
मत्तुल्यो नास्ति वै विप्रो येन सिद्धिः समागता ॥ ७ ॥
शरीरं कुत्सितं चेदं मलमूत्रेण संयुतम् ॥
मन्त्रस्नायुवसापृक्तमांसशोणितपूरितम् ॥
हर्षेण महता युक्तः स ननर्त्त द्विजस्तथा ॥ ८ ॥
एतस्मिन्नृत्यति विप्रे जगत्स्थावर जङ्गमम् ॥
अनृत्यद्रागसंयुक्तं प्रभावात्तस्य वै मुनेः ॥ ९ ॥
न स्वाध्यायो वषट्कारः कर्मकाण्डो न च क्वचित् ॥ 5.2.2.१० ॥
एतस्मिन्नन्तरे देवा ब्रह्मविष्णु पुरःसराः ॥
मामूचुर्विस्मिताः सर्वे नाथ नृत्यं तदा कुरु ॥ ११ ॥
ऋषौ मङ्कणके देव नृत्यति नृत्यति सर्वतः ॥
सदेवासुरमानुष्यं सर्वं लोकत्रयं विभो ॥ १२ ॥
चलिताः पर्वताः स्थानात्क्षुभिता मेघपङ्क्तयः ॥
शिखराणि विशीर्यन्ते धरणी पीडिता भृशम् ॥ १३ ॥
स्रोतोमात्रा महानद्यो ग्रहा उन्मार्गतः स्थिताः ॥ १४ ॥
त्रैलोक्यं व्याकुलीभूतं यावन्नायाति सङ्क्षयम् ॥
तावन्निवारयस्वैनं नान्यः शक्तो विना त्वया ॥ १५ ॥
तेषां तद्वचनं श्रुत्वा त्रिदशानां यशस्विनि ॥
प्रतिज्ञातं मयात्यर्थं गत्वा तस्य समीपतः ॥ १६ ॥
द्विजरूपं समास्थाय मया पृष्टो द्विजोत्तमः ॥
किमर्थं नृत्यसि ब्रह्मन्कस्मात्ते हर्ष आगतः ॥ १७ ॥
विरुद्धमृषिधर्माणां कामरागेण नर्त्तनम् ॥
गीतं च नर्त्तनं चैव युवतीजनवल्लभम् ॥ १८ ॥
ब्राह्मणस्य तपो भ्रंशः सदाचारस्य सत्तम ॥
इति मत्वा द्विजश्रेष्ठ किमर्थं नृत्यसे भृशम्॥ १९ ॥
॥ ऋषिरुवाच ॥ ॥
किं न पश्यसि भो ब्रह्मन्कराच्छाकरसं च्युतम् ॥
अतएव हि मे नृत्यं सिद्धोऽहं नात्र संशयः ॥ 5.2.2.२० ॥
तस्य तद्वचनं श्रुत्वा हासोऽतीव मया कृतः ॥
अङ्गुष्ठस्ताडितः स्वीयोङ्गुल्यग्रेण च पार्वति ॥ २१ ॥
ततो विनिर्गतं भस्म तत्क्षणाद्धिमपाण्डुरम् ॥
हासेनोक्तो विशालाक्षि सगर्वो ब्राह्मणो मया ॥ २२ ॥
पश्य मेंऽगुष्ठतो ब्रह्मन्भूरि भस्म विनिर्गतम् ॥
न नृत्येहं न मे हर्षस्तथापि मुनिस्सम ॥ २३ ॥
तद्दृष्ट्वा महदाश्चर्यं लज्जितो द्विजसत्तमः ॥
धैर्यं च तादृशं दृष्ट्वा विस्मयं परमं गतः ॥ २४ ॥
अब्रवीत्प्राञ्जलिर्भूत्वा विस्मितेनान्तरात्मना ॥
नान्यं देवमहं मन्ये त्वां मुक्त्वा वृषभध्वजम् ॥ २५ ॥
नान्यस्य विद्यते शक्ति रीदृशी भुवनत्रये ॥
तस्मात्क्षमस्व देवेश मयाज्ञानादनुष्ठितम् ॥ २६ ॥
तपःक्षयकरं कर्म विरुद्धं नर्त्तनं सताम्॥
बहुकालार्जितं पुण्यं तपसा दुष्क रेण तु ॥
तद्गतं सहसा देव मदीयं नर्त्तनेन सु ॥ २७ ॥
तस्य तद्वचनं श्रुत्वा मयोक्तो द्विजसत्तमः ॥
वरं वरय भद्रं ते तुष्टोऽहं द्विजसत्तम ॥ २८ ॥
ज्ञानेनानेन विप्रेन्द्र कं ते कामं करोम्यहम् ॥२९ ॥
ऋषिरुवाच ॥ ॥
यदि देव प्रसन्नस्त्वं शरणागतवत्सल ॥
यथा न स्यात्तपोहानिस्तथा नीतिर्विधीयताम्॥5.2.2.३०॥
मया प्रोक्तं प्रसन्नेन तस्य विप्रस्य पार्वति ॥
तपस्ते वर्द्धतां विप्र महाकालवनं व्रज॥३१॥
तत्रास्ते सर्वदा पुण्या सप्तकल्पोद्भवा गुहा॥
पिशाचेश्वरदेवस्य उत्तरेण व्यवस्थिता ॥ ३२ ॥
तत्र द्रक्ष्यसि यल्लिङ्गं सप्तकल्पोद्भवं शुभम्॥
तस्य दर्शनमात्रेण तपस्ते वृद्धिमेष्यति ॥३३॥
काम क्रोधोद्भवं पापं लोभमोहसमन्वितम् ॥
ईर्ष्यामत्सरजं चैव नाशं याति च किल्बिषम् ॥३४॥
मदीयं वचनं श्रुत्वा स विप्रो वेदपारगः ॥
श्रुत्वा च नियमं देवि मदुक्तं स ततो द्विजः ॥ ३५ ॥
निःसृतो नियतो भूत्वा नमस्कृत्य पुनःपुनः ॥
आजगाम गुहा यत्र महाकालवनोत्तमे॥ ३६॥
ददर्श तत्र तल्लिङ्गं तपसो वर्द्धनं परम् ॥
द्वादशादित्यसङ्काशो जातो वै लिङ्गदर्शनात् ॥३७॥
एतस्मिन्नन्तरे देवि देवैरुक्तं नभस्तले ॥
गोप्यं लिङ्गं गुहोत्थं तु दृष्टं मङ्कणकेन तु ॥३८॥
सिद्धिः प्राप्ता द्विजेनैव दर्शनेन सुदुर्लभा ॥
तस्माद्गुहेश्वरो देवि भविष्यति महीतले ॥३९॥
भक्त्या परमयोपेता ये द्रक्ष्यन्ति गुहेश्वरम् ॥
न तेषां जायते विघ्नो धर्मस्य तपसस्तथा ॥ 5.2.2.४० ॥
अष्टम्यां वा चतुर्दश्यां दर्शनं यः करिष्यति ॥
ब्रह्मलोकं गमिष्यन्ति पितरस्तस्य देहिनः ॥ ४१ ॥
अत्रागत्य प्रयत्नेन दर्शनं यः करिष्यति ॥
उद्धरिष्यति चात्मानं पुरुषानेकविंशतिम्॥ ४२ ॥
कृत्वा पापसहस्राणि दर्शनं यः करिष्यति ॥
स याति परमं स्थानं यत्र देवो महेश्वरः ॥ ४३ ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥
दर्शनात्तस्यलिङ्गस्य सर्वं यास्यति सङ्क्षयम् ॥ ४४ ॥
यत्किञ्चिदशुभं कर्म जन्मकोटिशतार्जितम् ॥
क्षयं यास्यति तत्सर्वं स्पर्शमात्रेण नान्यथा ॥ ४५ ॥
महापातकयुक्ता हि देहिनो ये महीतले ॥
तेऽपि लिङ्गं समासाद्य मुच्यन्ते सर्वपातकैः ॥ ४६ ॥
इत्युक्त्वा स द्विजो देवि दिव्यो मङ्कणको मुनिः ॥
कृत्वाश्रमपदं पुण्यं तत्रैव तपसि स्थितः ॥ ४७ ॥
एष वै कथितो देवि प्रभावः पापनाशनः ॥
श्रवणात्कीर्त्तनाद्वापि सर्वपापैः प्रमुच्यते ॥ ४८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये गुहेश्वरमाहात्म्यवर्णनन्नाम द्वितीयोऽध्यायः ॥ २ ॥