॥अथ श्रीस्कान्दे महापुराणे पञ्चमआवन्त्यखण्डे ऽवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यं द्वितीयं प्रारभ्यते॥(५-२)॥
॥ श्रीगणेशाय नमः ॥
श्रीमहाकालाय नमः ॥
॥ अथावन्त्यखण्डेऽवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यं प्रारभ्यते ॥
॥ उमोवाच ॥ ॥
पृथिव्यां यानि तीर्थानि पुण्याश्च सरितस्तथा ॥
कथ्यतां तानि यत्नेन श्राद्धं येषु प्रदीयते ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
अस्ति लोकेषु विख्याता गङ्गा त्रिपथगामिनी ॥
सेविता देवगन्धर्वैर्मुनिभिश्च निषेविता ॥ २ ॥
तपनस्य सुता देवी यमुना लोकपावनी ॥
पितॄणां वल्लभा देवि महापातक हारिणी ॥ ३ ॥
चन्द्रभागा वितस्ता च नर्मदाऽमरकण्टके ॥
कुरुक्षेत्रं गया देवि प्रभासं नैमिषं तथा ॥४॥
केदारं पुष्करं चैव तथा कायावरोहणम् ॥
तथा पुण्यतमं देवि महाकालवनं शुभम् ॥ ५ ॥
यत्रास्ते श्रीमहाकालः पापेन्धनहुताशनः ॥
क्षेत्रं योजनपर्यन्तं ब्रह्महत्याविनाशनम् ॥ ६ ॥
भुक्तिदं मुक्तिदं क्षेत्रं कलिकल्मषनाशनम् ॥
प्रलयेऽप्यक्षयं देवि दुष्प्राप्यं त्रिदशैरपि ॥ ७ ॥
॥ उमोवाच ॥ ॥
प्रभावः कथ्यतां देव क्षेत्रस्यास्य महेश्वर॥ ८ ॥
यानि तीर्थानि वन्द्यानि यानि लिङ्गानि सन्ति वै ॥
तान्यहं श्रोतुमिच्छामि परं कौतूहलं हि मे ॥ ९ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रयत्नेन प्रभावं पापनाशनम् ॥
क्षेत्रमाद्यं महादेवि ममातीव प्रियं सदा ॥ 5.2.1.१० ॥
यत्रास्ति च महापुण्या सर्वपापहरा परा ॥
तथा गन्धवती पुण्या दिव्या नवनदीप्रिया ॥ ११ ॥
नीलगङ्गा चतुर्थी तु श्रेष्ठा नद्यः प्रकीर्तिताः ॥
आसां तु सङ्गमे स्नात्वा श्राद्धं यः कुरुते नरः ॥ ॥ १२ ॥
गङ्गायास्त्रिगुणं देवि चतुर्वर्गफलप्रदम् ॥
क्षेत्रं योजनपर्यन्तमवन्त्या विद्धि सुव्रते ॥ १३ ॥
सिद्धलिङ्गानि तिष्ठन्ति भुक्तिमुक्तिकराणि च ॥
ईश्वराश्चतुराशीतिस्तथाष्टौ सन्ति भैरवाः ॥ १४ ॥
एकादश तथा रुद्रा आदित्या द्वादश स्मृताः ॥
षड्वै विनायकाश्चात्र चतुर्विंशतिमातरः ॥ १५ ॥
यदाहं गतवांस्तत्र महाकालवने शुभे ॥
ब्रह्मविष्ण्वादयः सर्वे तत्राजग्मुर्मुदान्विताः ॥ १६ ॥
एभिर्व्याप्तं क्षेत्रमिदं देवि योजनमायतम् ॥
दश स्थानगतो विष्णुः सर्वपापप्रणाशनः ॥ १७ ॥
एतन्नामानि योऽधीते प्रभाते भक्तितः पुमान् ॥
विमुक्तः सर्वपापैस्तु रुद्रलोकं स गच्छति ॥ १६ ॥
॥ उमोवाच ॥ ॥
चतुराशीतिलिङ्गानि त्वयोक्तानीह यानि तु॥
तानि विस्तरतो ब्रूहि सर्वपापहराणि तु ॥ १९ ॥
॥ हर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि तेषां नामानि यानि च ॥
ख्यातं पृथिव्यां प्रथममगस्त्येश्वरमुत्तमम् ॥
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत् ॥ 5.2.1.२० ॥ ॥
॥ उमोवाच ॥ ॥
अगस्त्येश्वरनामेह कथं लब्धमनेन वै॥
कस्मिन्स्थाने कथं जातं विस्तराद्वक्तुमर्हसि ॥ २१ ॥
॥ हर उवाच ॥ ॥
शृणु देवि महाभागे कथामस्य पुरातनीम् ॥
सर्वपापप्रशमनीं समीहितफलप्रदाम्॥२२॥
पुराऽसुरैर्जिता देवा निरुत्साहाश्च ते ततः॥
भागाश्चैषां हृताः सर्वे निराशाः पितरः कृता ॥
भ्रष्टैश्वर्य्यास्तदा देवि चेरुर्देवा महीतले ॥ २३ ॥
ततः कदाचित्ते दीना दीप्तमादित्यवर्चसम्॥
ददृशुस्तेजसायुक्तमगस्त्यं विपुलव्रतम् ॥ २४ ॥
अभिवाद्य ततो देवा दृष्ट्वा तं तेजसा वृतम् ॥
इदमूचुर्महात्मानमगस्त्यं लोकविश्रुतम् ॥ २५॥
दानवैर्निर्जिता युद्धे सर्वे स्वर्गाच्च पातिताः ॥
ततस्त्वं नो भयात्तीव्रात्त्रायस्व मुनिपुङ्गव ॥ २६ ॥
इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत् ॥
प्रजज्वाल च तेजस्वी कालाग्निरिव सङ्क्षये ॥ २७ ॥
तदा दीप्तांशुजालेन निर्दग्धा दानवास्तथा ॥
अन्तरिक्षान्महादेवि पतिताश्च सहस्रशः ॥ २८ ॥
दह्यमानास्ततो दैत्या स्तस्यागस्त्यस्य तेजसा ॥
ऋषेश्च दानवाः सर्वे पातालं वव्रजुर्भयात् ॥ २९ ॥
ततो ऽगस्त्यो महात्मा वै तान्हत्वा शोकमूर्छितः ॥
बभूवातिशयं चासौ चिन्तयोद्विग्नमानसः ॥ 5.2.1.३० ॥
कृतं घोरं महत्पापं हता यद्दानवा मया ॥
अहिंसा परमो धर्मो मनुना कथ्यते यतः ॥
किं करोमि क्व गच्छामि कथं शुध्येय चाप्यहम् ॥ ३१ ॥
एवं चिन्तयतस्तस्य समागच्छत्पितामहः ॥
प्रोवाच स मुनिं तत्र कस्मात्त्वं शोकविह्वलः ॥ ३२ ॥
लक्ष्यसे मुनिशार्दूल कारणं कथ्यतां त्वरम् ॥
स ब्रह्माणं नमस्कृत्य कथयामास पृच्छतः ॥ ३३ ॥
देवदेव जगन्नाथ दाहोन्तर्मानसं मम ॥
ब्रह्महत्या समायाता यन्मया दानवा हताः ॥ ३४ ॥
ममोपायं समाचक्ष्व प्रसादत्सुरसत्तम ॥
बहुकालार्जितं देव गतं मे सङ्क्षयं तपः ॥३५॥
प्रोवाचेदं सुरश्रेष्ठः शृणु त्वं यत्नतः परम्॥
उपायं सर्वपापस्य क्षयो येन भवेद्ध्रुवम्॥३६॥
महाकालवने दिव्ये यक्षगन्धर्वसेविते॥
उत्तरे वटयक्षिण्या यत्तल्लिङ्गमनुत्तमम्॥३७॥
पिशाचस्यापि तीर्थस्य भागे दक्षिणतः स्थितम् ॥
तं समाराध्यतः सर्वं पापं नाशमवाप्नुयात् ॥ ३८ ॥
आराधय शुभं लिङ्गं सर्वपापप्रणा शनम् ॥
बाढं प्रोवाच धर्मात्मा महाकालवनं ययौ ॥३९॥
तस्मिन्स लिङ्गे देवेशि समाराधनतत्परः ॥
बभूवाहर्निशं भक्त्या तद्ध्यानैकरतो मुनिः ॥ 5.2.1.४० ॥
अहं तुष्टस्तदा देवि मुनेस्तस्य महात्मनः ॥ ४१ ॥
प्रोक्तं मया महाभाग मुने शृणु समाहितः ॥
वरं वरय विप्रेन्द्र यत्ते मनसि वर्त्तते ॥ ४२ ॥
तुष्टोऽहमनया भक्त्या तपसा दुष्करेण तु ॥
लिङ्गस्यास्य प्रभावेण जातस्त्वं निर्मलोऽधुना ॥४३॥
प्रणष्टा ब्रह्महत्या ते दानवोत्था मुनीश्वर ॥
मदीयं वचनं श्रुत्वा तेनोक्तं वरवर्णिनि ॥ ४४ ॥
यदि देव प्रसन्नस्त्वं शरणागतवत्सलः ॥
त्वदङ्घ्रियुगले भूयान्मम भक्तिर्महेश्वर ॥ ४५ ॥
तपस्यथ तथा धर्मे न मे विघ्नो भवेदिति ॥
तस्य तद्वचनं श्रुत्वा कुम्भयोनेर्महात्मनः ॥
मया प्रोक्तं विशालाक्षि मुने एवं भविष्यति ॥ ४६ ॥
यस्त्वया पूजितो देवो ब्रह्महत्याविनाशनः ॥
त्वन्नाम्ना त्रिषु लोकेषु सोऽहं ख्यातो भविष्यति ॥ ४७ ॥
अगस्त्येश्वरदेवोपि विख्यातो भुवनत्रये ॥
एवमुक्तो मया देवि स विप्रस्तत्र संस्थितः ॥
कृपया तस्य लिङ्गस्य पञ्चमुद्राविभूषितः ॥ ४८ ॥
ये नरास्तन्महालिङ्गं निरीक्षिष्यन्ति भक्तितः ॥
सर्वपापविनिर्मुक्ताः सर्वकामैरलङ्कृताः॥४९॥
भविष्यन्ति महात्मानः पुत्रैश्वर्यसमन्विताः ॥
अन्तकाले च मां यान्ति विमानैः सर्वकामदैः ॥5.2.1.५०॥
स्तुता गन्धर्वमुख्यैश्च रुद्रलोके च शाश्वते ॥
येऽर्चयन्ति सदा देवमगस्त्वेश्वरसञ्ज्ञकम्॥५१ ॥
कृतपुण्या नरा मर्त्त्यास्ते यान्ति परमं पदम् ॥
संस्मृते देवदे वेशे नराणां कोटिजन्मजम्॥५२॥
अशुभं क्षयमाप्नोति कस्तं न प्रणमेच्छिवम्॥
यः प्रणम्य नरो भक्त्या देवं तं च निषेवते॥५३॥
मुच्यते ब्रह्महत्यादिपा तकैर्नरकप्रदैः ॥ ५४ ॥
राजसूयशतेनैव यत्पुण्यं च भविष्यति ॥
तत्पुण्यमधिकं देवि दर्शनाच्च भविष्यति ॥ ५५ ॥
किं तीर्थैर्विविधैः स्नानैः किं दानैर्विविधैः कृतैः ॥
ते प्राप्स्यन्ति फलं सर्वे मत्प्रसादान्न संशयः ॥५६॥
अष्टम्यां च चतुर्द्दश्यां दिने सोमस्य शक्तितः ॥
यः करिष्यति लिङ्गस्य पूजा भक्तिसमन्वितः ॥
कुलानां तारयत्येव मातृकं पितृकं शतम् ॥५७॥
ये च पश्यन्ति पुरुषा भावहीनाः प्रसङ्गतः ॥
न ते पश्यन्ति संसारे नरकं वै कदा चन ॥ ५८ ॥
एतत्ते कथितं देवि लिङ्गमहात्म्यमुत्तमम् ॥
प्रथमं कथितं लोके द्वितीयं शृणु यत्नतः॥ ५९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्येऽगस्त्येश्वरमाहात्म्यवर्णनन्नाम प्रथमोऽध्यायः ॥ १ ॥ ॥ छ ॥