०७१ ऽवन्तीक्षेत्रमाहात्म्यवर्णनम्

॥ व्यास उवाच ॥ ॥
भगव न्भवता सर्वं कथितं देवमूर्तिना ॥
अवन्तीतीर्थमाहात्म्यं पवित्रं वेदसम्मितम् ॥ १ ॥
भूयस्तु श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥
महाकालवने रम्ये अवन्त्यां भुवि सत्तम ॥
तीर्थानि कतिसङ्ख्यानि विद्यन्ते ह्यत्र सुव्रत ॥ २ ॥
॥ सनत्कुमार उवाच ॥ ॥
श्रूयतां भो द्विजश्रेष्ठ कथां पापहरां पराम् ॥ ॥३॥
उमामहेश्वरसंवादं नारदस्य च धीमतः ॥
नारदेन पुरा पृष्टं प्रश्नमेतद्द्विजोत्तम ॥ ४ ॥
॥ नारद उवाच ॥ ॥
भगवञ्च्छ्रोतुमिच्छामि महाकाल वने शुभे ॥
तीर्थानि यानि वर्तन्ते तानि नो वद विस्तरात् ॥ ५ ॥
इति पृष्टस्तदा विप्र नारदेन पुराऽनघ ॥
उवाच श्लक्ष्णया वाचा उमया सहितो हरः ॥ ६ ॥
॥ श्रीमहादेव उवाच ॥ ॥
शृणुष्व भो ऋषिश्रेष्ठ महाकालवने शुभे ॥
तीर्थानि यानि तिष्ठन्ति तानि वक्ष्यामि सुव्रत ॥ ७ ॥
पुष्कराद्यानि तीर्थानि यानि कानि महीतले ॥
तानि सर्वाणि वर्तन्ते महाकालवनोत्तमे ॥ ८ ॥
असङ्ख्यातसहस्राणि कोटिकोटीनि सत्तम ॥
रुद्रसरे निमज्जन्ति कोटितीर्थं तथोच्यते ॥ ९ ॥
नीहारकणिकावृष्टिं गिरौ वर्षन्ति किन्नराः ॥
हेमन्ते चैव दृश्यन्ते तीर्थे पैशाचमोचने ॥ 5.1.71.१० ॥
न हि सङ्ख्यां विजानामि तीर्थानां भुवि सत्तम ॥
कियन्ति सन्ति तीर्थानि लिङ्गानि च तथैव च ॥ ११ ॥
तथाऽपि च प्राधान्येन कथयिष्यामि सत्तम ॥
संवत्सरस्य यावन्ति अहानि च द्विजोत्तम ॥ १२ ॥
तावन्ति प्रापणीयानि प्रसिद्धानि परन्तप ॥
वत्सरे परिपूर्णे च जायतेऽवन्तियात्रिका ॥ १३ ॥
विधिवत्कुरुते यस्तु साक्षाच्छम्भुर्भवेच्च सः ॥
मन्वन्तरसहस्रेषु काशीवासे च यत्फलम् ॥ १४ ॥
तत्फलं जायतेऽवन्त्यां वैशाखे पञ्चभिर्दिनैः ॥
अवन्ती यात्रा कर्तव्या प्रयत्नेन मुमुक्षुणा ॥ १५ ॥
माधवेऽपि विशेषेण ह्यवन्तीस्नानमाचरेत् ॥
यो हि वैशाखमासाद्य अवन्त्यां व्यास मानवः ॥ १६ ॥
संवत्सरव्रती स्नातस्तीर्थेतींर्थे यथाविधि ॥
दत्त्वा दानानि सर्वाणि समूलं फलमश्नुते ॥ १७ ॥
भुक्त्वा भोगान्सुविपुलाञ्छिवलोके महीयते ॥१८॥
माहात्म्यमेतच्छिवभक्तिवर्द्धनं यशस्करं पुण्यविवर्द्धनं च ॥
यः श्रावयेद्वा शृणुयाच्च भक्त्या कुलं समुद्धृत्य हरः पदं व्रजेत् ॥ १९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये व्याससनत्कुमारसंवादे ऽवन्तीक्षेत्रमाहात्म्यवर्णनन्नामैक सप्ततितमोऽध्यायः ॥ ७१ ॥ ॥ छ ॥

इति श्रीस्कान्दे महापुराणे पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्यं प्रथमं सम्पूर्णम् ॥ ( ५-१) ॥