॥ सनत्कुमार उवाच ॥ ॥
भूयः शृणु परं तीर्थं सर्वतीर्थफलप्रदम् ॥
कीर्तितं ब्रह्मणा पूर्वं मार्कण्डेयस्य पृच्छतः ॥ १ ॥
शृणु वत्स महीपृष्ठे शिप्रा दिव्यतरा नदी ॥
तस्यास्तीरे वरं तीर्थं कर्कराजेतिविश्रुतम् ॥ २ ॥
यस्य दर्शनमात्रेण महापापक्षयो भवेत् ॥
विकारा मानसाः सर्वे चन्द्रो मानससम्भवः॥३॥
तस्य स्थाने गतो भानुर्याम्यायनकरः परः॥
ऋतुत्रयं समाख्यातं विधूम्रार्चिस्तदुच्यते ॥४॥
तत्र मृताः प्रवर्तन्ते योगिनोऽपि परन्तप॥
चातुर्मास्ये हरौ सुप्ते ये नरा व्रतवर्जिताः ॥५॥
न तेषां सद्गतिर्वत्स सत्यमेव ब्रवीमि ते ॥
चातुर्मास्ये मृता ये च ये मृता दक्षिणायने ॥ ६ ॥
तेषामुद्धरणार्थाय तीर्थमेतद्विनिर्मितम् ॥
कर्कराज इति ख्यातं सर्वलोकेषु गीयते ॥ ७ ॥
॥ मार्कण्डेय उवाच ॥ ॥
भगवन्भवता सर्वं निर्मितं विश्वमूर्तिना ॥
चराचरमिदं विश्वं जगत्सर्वं जगत्पते ॥ ८ ॥
चातुमास्ये हरौ सुप्ते धर्माऽऽचारविधिः स्मृतः ॥
तदहं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥ ९ ॥
॥ ब्रह्मोवाच ॥ ॥
शृणु वत्स परं पुण्यं चातुर्मास्यफलं शुभम् ॥
यच्छुत्वा भारते खण्डे नृणां मुक्तिर्न दुर्लभा ॥ 5.1.69.१० ॥
मुक्तिप्रदोऽयं भगवान्संसारोत्तारकारणः ॥
यस्य स्मरणमात्रेण सर्वपापक्षयो भवेत् ॥ ११ ॥
मानुष्यं दुर्लभं लोके तत्राऽपि च कुलीनता ॥
तत्राऽपि संयमित्वं च तत्र सत्सङ्गमः शुभः ॥ १२ ॥
सत्सङ्गमो न यत्राऽस्ति विष्णुभक्तिर्व्रतानि न ॥
चातुर्मास्ये विशेषेण विष्णुव्रतकरः शुभः ॥ १३ ॥
चातुर्मास्ये ऽव्रती यस्तु तस्य पुण्यं निरर्थकम्॥
सर्वतीर्थानि दानानि पुण्यान्यायतनानि च ॥ १४ ॥
विष्णुमाश्रित्य तिष्ठन्ति चातुर्मास्ये समागते ॥
स विष्णुराश्रितो नित्यं कर्कराजं सुतीर्थकम्॥ १५ ॥
सुपुष्टेन च देहेन जीवितं तस्य शोभनम् ॥
चातुर्मास्ये समायाते हरिर्येनाऽर्चितस्तदा ॥ १६ ॥
कृतार्थास्तस्य विबुधा यावज्जीवं वरप्रदाः ॥
सम्प्राप्य मानुषं देहं चातुर्मास्ये पराङ्मुखः ॥ १७ ॥
तस्य पापशतान्याहुर्देहस्थानि न संशयः ॥
मानुष्यं दुर्लभं लोके हरिभक्तिश्च दुर्लभा॥१८॥
चातुर्मास्ये विशेषेण सुप्ते देवे जनार्दने॥
चातुर्मास्ये नरः स्नात्वा कर्करात्रे द्विजोत्तम ।
देहशुद्धिं विधायाऽऽदौ मुक्तिमार्गमवाप्नुयात्॥ १९॥
तत्राऽपि निर्झरे कूपे तडागे वा सरस्यपि॥
तस्मात्तदधिकं पुण्यं समाख्यातं सुरासुरैः॥5.1.69.२०॥
तेषु यः स्नाति वै नित्यं तस्य पापक्षयो भवेत्॥ २२ ॥
तस्मान्नद्यधिका पुण्या समाख्याता सुरासुरैः ॥
पुष्करे च प्रयागे च यत्र क्वाऽपि महाजले ॥२३॥
चातुर्मास्ये तु यः स्नाति पुण्यसङ्ख्या ततोऽधिका॥ ॥
रेवायां भास्करे क्षेत्रे प्राच्यां सागरसङ्गमे ॥ २४॥
एकाहमपि यः स्नाति चातुर्मास्ये न दुःखभाक्॥
दिनत्रयं च यः स्नाति नर्मदायां समाहितः॥२५॥
सुप्ते देवे जगन्नाथे पापं याति सहस्रधा॥
पक्षमेकं तु यः स्नाति गोदावर्यां दिनोदये॥२६॥
स भित्त्वा कर्मजं देहं याति विष्णोः सलोकताम्॥
अवन्त्यां कर्कराजे तु साक्षाद्विष्णुर्भवेन्नरः॥
क्षणमेकं क्षणार्धं वा चातुर्मास्ये ऽतिलङ्घयेत् ॥ २७ ॥
तिलोदकेनामलसंयुतेन बिल्वोदकेनापि च मज्जयेद्यः ॥
न तस्य जानामि फलाधिकं वै किं तस्य कीदृङ्मुनिभिः प्रणीतम् ॥ २८ ॥
गङ्गां स्मरति यो नित्यमुदपानसमीपतः ॥
तद्गाङ्गेयजलं जातं तेन स्नानं समाचरेत् ॥ २९ ॥
गङ्गाऽपि देवदेवस्य चरणांऽगुष्ठवाहिनी ॥
पापहा सा सदा प्रोक्ता चातुर्मास्ये विशेषतः॥ 5.1.69.३० ॥
चातुर्मास्ये जलगतो देवो नारायणो भवेत् ॥
सर्वतीर्थाऽधिकं स्नानं विष्णुतेजोंऽशसङ्गतम् ॥३१॥
स्नानं दशविधं कार्यं विष्णुनाम्ना महाफलम् ॥
सुप्ते देवे विशेषेण नरो देवत्वमाप्नुयात् ॥ ३२ ॥
विना स्नानं तु यत्कर्म पुण्यकार्यमयं शुभ म् ॥
क्रियते विफलं ब्रह्मंस्तद्गृह्णन्ति हि राक्षसाः ॥ ३३ ॥
स्नानेन सत्यमाप्नोति सत्ये धर्मः सनातनः ॥
धर्मान्मोक्षपथं प्राप्य पुनर्नैवावसीदति ॥ ॥ ३४ ॥
ये चाध्यात्मविदः पुण्या ये च वेदान्तपारगाः ॥
सर्वदानप्रदाने च तेषां स्नानेन शुध्यति ॥ ३५ ॥
कृतस्नानस्य हि हरिर्देहमाश्रित्य तिष्ठ ति ॥
सर्वक्रियाफलं येषु सम्पूर्णफलदं भवेत् ॥ ३६ ॥
सर्वपापविनाशाय देवतातोषणाय च ॥
चातुर्मास्ये जलस्नानं सर्वपापक्षयावहम् ॥ ३७ ॥
निशायां चैव न स्नायात्सन्ध्यायां ग्रहणं विना ॥
उष्णोदकेन न स्नायाद्रात्रौ शुद्धिर्न जायते ॥ ३८ ॥
भानुसन्दर्शनाच्छुद्धिर्विहिता सर्वकर्मसु ॥
चातुर्मास्ये विशेषेण जलशुद्धिस्तु भाविनी ॥ ३९ ॥
अशक्त्यां तु शरीरस्य भस्मस्नानेन शुध्यति ॥
मन्त्रस्नानेन विप्रेन्द्र विष्षुपादोदकेन वा ॥ 5.1.69.४० ॥
नारायणाऽग्रतः स्नानं क्षेत्रे तीर्थे नदीषु च ॥
विशेषतोऽपि शिप्रायां तीर्थे कर्काभिधे वरे ॥ ४१ ॥
यश्च स्नाति नरो नित्यं स याति वैष्णवं पदम्॥
तस्मात्त्वं भार्गवश्रेष्ठ तत्र गच्छस्व मा चिरम् ॥ ४२ ॥
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ॥
तानि सर्वाणि तिष्ठन्ति कर्कराजजले सदा ॥ ४३ ॥
कर्कस्थे च दिवानाथे स्नानं कुर्वन्ति ये नरा ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ ४४ ॥
चातुर्मास्यं समासाद्य तत्रैव निवसाम्य हम् ॥
नास्ति रेवासमा पुण्या नदी ब्रह्माण्डभूतले ॥ ४५ ॥
महेशान्नाऽपरो देवो मुक्तिदो न जनार्दनात् ॥
उज्जयिनीसमा नास्ति पुरी कामवर प्रदा ॥ ४६ ॥
कर्कराजसमं तीर्थं नास्ति वत्स महीतले ॥
यस्य दर्शनमात्रेण मुक्तिभागी भवेन्नरः ॥ ४७ ॥
एवं व्यास समाख्यातं ब्रह्मणा भार्ग वाय च ॥
तस्मात्सर्वप्रयत्नेन महाकालवनं व्रज ॥ ४८ ॥
अस्माकं चाऽपि तत्रैव स्थानं परमशोभनम् ॥
चातुर्मास्ये हरौ सुप्ते यावद्यायात्प्रबो धिनी ॥ ४९ ॥
तावत्कालं हि तत्रैव मुक्तिरेव न संशयः ॥
चातुर्मास्ये हरौ सुप्ते जहाति चेत्कलेवरम् ॥ 5.1.69.५० ॥
यमलोके चिरं वासो जायते नाऽत्र संशयः ॥
तस्मात्तुलसिकाभागे शालिग्रामे सुरालये ॥ ५१ ॥
आत्मानं हि पणीकृत्य तत्रैव सन्नियोजयेत् ॥
यावत्प्रबोधिनी चैति द्वादशी द्विज्सत्तम ॥५२॥
पश्चाद्घृतसुवर्णेन मोचयित्वा स्वकं नयेत् ॥
चातुर्मास्योद्भवं दोषं बाधते न च मानवम् ॥५३॥
यस्य शिप्रोदके स्नानं कर्कराजेऽनुजायते ॥
एवं व्यास वरं तीर्थं सर्वतीर्थफलप्रदम् ॥ ५४ ॥
पृथिव्यां यानि तीर्थानि सरितः सागराश्च ये ॥
ते सर्वे च समायान्ति चातुर्मास्ये द्विजोत्तम॥ ५५ ॥
तस्माच्च तद्वरं तीर्थं कर्कराज इति स्मृतम् ॥ ५६ ॥
य एतां वै कथां पुण्यां शृण्वन्ति श्रावयन्ति च ॥
न तेषां जायते दोषश्चातुर्मा स्योद्भवः कदा ॥ ५७ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कर्कराजतीर्थ महिमवर्णनन्नामैकोनसप्ततितमोऽध्यायः ॥ ६९ ॥ ॥ छ ॥