०६८

॥ सनत्कुमार उवाच ॥ ॥
शृणु व्यास महापुण्यं तीर्थं परमशोभनम् ॥
देवप्रयागमाख्यातं सर्वपापप्रणाशनम् ॥ १ ॥
देवानां च परं स्थानं यत्र तीर्थं परन्तप ॥
सोमतीर्थोत्तरे भागे प्रयागस्य च दक्षिणे ॥ २ ॥
क्षिप्रायाः पूर्वभागे च तत्र तीर्थं प्रतिष्ठितम् ॥
तत्र तीर्थे नरः स्नात्वा पश्येच्चैव सुरोत्तमम् ॥ ३ ॥
देवं माधवमित्याख्यं भुवि सर्वफलप्रदम् ॥
ददाति तस्य देवेन्द्रो वाञ्छितार्थं जगत्पतिः ॥ ४ ॥
आनन्दभैरवस्तत्र सर्वदेवनमस्कृतः ॥
यस्य दर्शनमात्रेण सर्वपापक्षयो भवेत् ॥ ॥ ५ ॥
न तस्य जायते व्यास यातना भैरवी कदा ॥
स्वर्गद्वारे सदा व्यास जायते निर्भयः पुमान् ॥ ६ ॥
ज्येष्ठे मासे सिते पक्षे दशम्यां बुध हस्तयोः ॥
गरानन्दे व्यतीपाते कन्याचन्द्रे वृषे रवौ ॥
दशाला जायते वत्स गङ्गाजन्म परं शुचि ॥७॥
तद्दिने च नरः स्नात्वा सर्वतीर्थफलं लभेत्॥
अखण्डं च परं तीर्थं शृणु व्यास ह्यतः परम् ॥८॥
यस्य श्रवणमात्रेण व्रतभङ्गो न जायते ॥
एक एव पुरा ब्रह्मन्ब्राह्मणो ब्रह्मवित्तमः॥९॥।
धर्मशर्मेति विख्यातः सदाचाररतः शुचिः ॥
बहुव्रतधरो दान्तो वेदवेदाङ्गपारगः॥ 5.1.68.१०॥
किञ्चिद्दोषप्रसङ्गेन व्रतपूर्तिर्न चाभवत् ॥
एवं बहुतिथे काले नारदो देवदर्श नः ॥११॥
तस्य गेहागतो ब्रह्मन्नातिथ्यार्थं महातपाः ॥
तदोत्थाय द्विजो नित्यं बहुमानपुरःसरम् ॥१२॥
सत्कृत्य नारदं भूमन्विधिदृष्टेन कर्मणा ॥
पूजयित्वा द्विजश्रेष्ठः पप्रच्छ मुनिसत्तम ॥ १३ ॥
भगवन्भवता सर्वं विदितं ज्ञानचक्षुषा ॥
अस्माकं च परं दोषः किञ्चिज्जातः पुराऽनघ ॥ १४ ॥
येन पापप्रसङ्गेन व्रतभङ्गोऽभवद्ध्रुवम् ॥
कारणं ब्रूहि मे नाथ किं दोषोऽत्र तु गण्यते ॥ १५ ॥
॥ नारद उवाच ॥ ॥
श्रूयतां भो द्विजश्रेष्ठ भवद्भिश्च पुराकृतम् ॥
महाराष्ट्रे सुविख्यातो ब्राह्मणो धनसञ्चकः ॥ १६ ॥
ब्रह्मदत्तेत्यसौ विप्रो वेदब्राह्मणनिन्दकः ॥
धनलोभी पराक्रान्तः सर्वधर्मबहिर्मुखः ॥ ॥ १७ ॥
नास्तिको देवतीर्थेषु परद्रव्यापहारकः ॥
परस्त्रीषु रतो नित्यं द्यूतवादी च तस्करः ॥ १८ ॥
एवमायुःपरिक्षीणो धनहीनोऽभवत्तदा ॥
इतस्ततोऽभ्रमद्भ्रष्टो नदीतीरे सुविह्वलः ॥ १९ ॥
गतश्चौर्यप्रसङ्गेन यात्रिकैः सह सङ्गतः ॥
किञ्चित्कालेषु दुःशीलो मृतिं प्राप्तो रुजार्दितः ॥ 5.1.68.२० ॥
नीतः संयमिनीं विप्रस्तत्कालं यमकिङ्करैः ॥
यमराजपुरं प्राप्तो बहुपापकरो द्विजः ॥२१॥
दृष्टोऽसौ धर्मराजेन तदा पत्यपरायणः॥
निरीक्ष्य सहसोवाच धर्मपूर्वमिदं वचः ॥२२॥
शृणुध्वं किङ्कराः सर्वे यूयमेकाग्रमानसाः ॥
अनेनाचरितं सर्वं दुष्कर्म सर्वकिल्बिषम् ॥ २३ ॥
गोदातीरे मृतः पापी तत्र नः कारणं न हि॥
तिस्रःकोट्योऽर्धकोटिश्च यानि तीर्थान्यहर्निशम् ॥२४॥
आयान्ति गौतमीतीरे सिंहस्थेऽपि बृहस्पतौ ॥
तेषां तु वायुसंस्पर्शो जातोस्यान्ते कलेवरे ॥ २५ ॥
तेन पुण्यप्रभावेन नोऽस्माकं कारणं क्वचित् ॥
ग्राह्यो भवद्भिनैवायं मुच्यतां भोः पुरःसराः ॥ २६ ॥
एवं तैर्मोचितो विप्रः पुनर्ब्रह्मगतिं गतः ॥
तेन पापप्रसङ्गेन व्रतभङ्गी गतो भुवि ॥ २७ ॥
॥ ब्राह्मण उवाच ॥ ॥
ब्रह्मन्केन प्रकारेण सर्वपापक्षयो भवेत् ॥
किं तपः किं च दानं च किं तीर्थव्रतसेवनम् ॥ २८ ॥
येन पुण्यप्रभावेन व्रतभङ्गो न जायते ॥ २९ ॥
॥ नारद उवाच ॥ ॥
शृणु द्विजवरश्रेष्ठ महाकालवनं स्मृतम् ॥
यत्र रुद्रसरः प्रोक्तमृषिणा तत्त्वदर्शिना ॥ 5.1.68.३० ॥
कोटिकोटिसुतीर्थानि वर्तन्ते द्विजसत्तम॥
कोटितीर्थेति विख्यातं तस्माद्द्विज सनातनम् ॥ ३१ ॥
तत्तीर्थस्योत्तरे भागे सुतीर्थं सर्वकामदम् ॥
नाम्नाऽखण्डसरः ख्यातमखण्डेश्वरसन्निधौ ॥ ३२ ॥
यस्य दर्शनमात्रेण सर्वयज्ञफलं लभेत् ॥
तस्माद्धि सर्वथा वत्स गच्छ त्वं तत्र मा चिरम् ॥ ३३ ॥
इति तस्य वचः श्रुत्वा स द्विजोऽगात्कुमुद्वतीम् ॥
स्नात्वाऽखण्डसरे व्यास दृष्ट्वा देवं महेश्वरम् ॥ ३४ ॥
सद्यः पुण्यवतांलोकान्प्राप्तो वै द्विजसत्तमः ॥
एवं व्यास महातीर्थमखण्डेश्वरमुत्तमम् ॥ ३५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽखण्डेश्वरमहिमवर्णननामाष्टषष्टितमोऽध्या यः ॥ ६८॥