०६७ कुटुम्बेश्वरमाहात्म्यवर्णनम्

शृणु व्यास परं तीर्थं भुवि विख्यातमुत्तमम् ॥
कुटुम्बेश्वरेति विख्यातो नाम्ना चैव महेश्वरः ॥ १ ॥
तस्य तीर्थवरं तीर्थं सर्वतीर्थफलप्रदम् ॥
यस्मिंस्तीर्थे नरः स्नात्वा कुटुम्बी जायते धुवम् ॥ २ ॥
कुटुम्बार्थं तपस्तेपे पुरा दक्षः प्रजापतिः ॥
नारदेन पुरा व्यास पुत्रषष्टिर्विवासिता ॥ ३ ॥
प्रजाकामः स धर्मात्मा सुचिरं व्रतमाचरत् ॥
सपत्नीको महातेजा निराहारो जितेन्द्रियः ॥ ४ ॥
अस्मिंस्तीर्थे शुचिः स्नातो जपन्ब्रह्म सनातनम् ॥
वर्षाणामयुतं व्यास तपस्तेपे सुदारुणम् ॥ ५ ॥
तेन तीर्थप्रसादेन लभेत्स बहुलां प्रजाम्॥ प्र
जापतिरिति ख्यातो जातो दक्षः प्रतापवान्॥ ६ ॥
ब्रह्माऽपि तत्र वै पश्चात्तपः कृत्वा सुदुष्करम् ॥
निष्कलं कमलं रूपं प्राप्तवांस्तत्क्षणाद्विधिः ॥ ७ ॥
महादेवोऽपि तत्रैव प्राप्तवान्ब्रह्मणः पदम् ॥
चतुर्मुखधरं लिङ्गं दृश्यतेऽद्यापि सत्तम ॥ ८ ॥
भद्रपीठधरा देवी भद्रकालीति विश्रुता ॥
तत्रैव च सदा व्यास क्रीडति स्म धृतव्रता ॥ ९ ॥
द्वारे तिष्ठति तत्रैव भैरवः क्षेत्रपालकः ॥
पादेन खञ्जतां यातः पुरा दैत्यवरार्दितः ॥ 5.1.67.१० ॥
पुत्रवत्पालितो देव्या सदा तिष्ठति तत्स्थले ॥
ये ते देवगणाः सर्वे तस्मिंस्तीर्थे प्रतिष्ठिताः ॥ ११ ॥
ऋषयोऽपि महाभागाः सदा पर्वणिपर्वणि ॥
आयान्ति चैव सन्ध्यार्थं बहुपुत्रप्रदे सरे ॥ १२ ॥
अस्मिंस्तीर्थे सदाचाराः स्नानं कुर्वन्ति ये नराः ॥
न तेषां दुर्लभं किञ्चिज्जायते जन्मजन्मनि ॥ १३ ॥
महाबाधासु घोरासु महामारीषु तत्परैः ॥
हवनं क्रियते नित्यं सर्षपै राजिकैर्यवैः ॥ १४ ॥
पायसै र्विविधैर्भोगैस्तेषां दोषो न जायते ॥
दुर्भिक्षे राज्यभ्रंशे च सङ्ग्रामे भृशदारुणे ॥ १५ ॥
पूजयेत्क्षेत्त्रपालं च सर्वाऽऽपदि समाहितः ॥
सर्वदुःखवि निर्मुक्तो जायते नाऽत्र संशयः ॥ १६ ॥
स्नात्वा कुटुम्बके तीर्थे पूजयित्वा महेश्वरम् ॥
दानं कूष्माण्डकं दद्याद्ब्राह्मणाय तपस्विने ॥१७॥
सौवर्णमणि मुक्ताभिर्वासोऽलङ्कारसंयुतम् ॥
धनधान्यसमायुक्तः कुटुम्बी जायते नरः ॥ १८ ॥
फाल्गुने च सिते पक्षे या वै चतुर्दशी भवेत् ॥
त्रयोदशीयुता व्यास शिवरात्रिस्तथोच्यते ॥ १९ ॥
तद्दिने च नरः स्नात्वा रात्रौ जागरणं चरेत् ॥
बिल्वोदकेन गन्धेन बहुपुष्पफलैस्तथा ॥ 5.1.67.२० ॥
धूपैर्दीपैश्च नैवेद्यैर्वासोऽलङ्कारकादिभिः ॥
पूजयेद्यो नरो भक्त्या गिरीशं सगणं परम् ॥ २१ ॥
तस्य पापं क्षयं याति शिवलोके महीयते ॥
द्वादशैकादशीपुण्यं लभते भुवि मानवः ॥ २२ ॥
अश्वमेधफलं तस्य जागरे च क्षणेक्षणे ॥
ततस्तु प्रातरुत्थाय स्नानदानादिकाः क्रियाः ॥ २३ ॥
कृत्वा तु विधिवद्व्यास शिवपूजाऽर्चनं तथा ॥
विप्रांश्च भोजयेत्सप्त तस्य पुण्यफलं शृणु ॥ २४ ॥
कपिलानां सवत्सानां सहस्राणि चतुर्दश ॥
वाजपेय सहस्रस्य फलं प्राप्नोति नान्यथा ॥ २५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्र माहात्म्ये कुटुम्बेश्वरमाहात्म्यवर्णनन्नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥ ॥ ॥ छ ॥