०६६ नृसिंहतीर्थमहिमवर्णनम्

॥ सनत्कुमार उवाच ॥ ॥
भूयः शृणु परं व्यास तीर्थानामुत्तमं वरम् ॥।
तत्तीर्थं सर्वपापघ्नं नृसिंहस्य महात्मनः ॥ १ ॥
यस्य दर्शनमात्रेण सर्वपापं समुत्तरेत् ॥
दैत्यराजः समाख्यातो हिरण्यकशिपुः पुरा ॥ २ ॥
तेनेयं वसुधा सर्वा सम्प्राप्ता च दुरात्मना ॥
दुष्टदैत्यबलैर्व्याप्ता भाराक्रान्ता शुचार्दिता ॥ ३ ॥
गौर्भूत्वाऽश्रुमुखी देवैर्ब्रह्माणं शरणं ययौ ॥
भाराक्रान्तां धरां दृष्ट्वा ब्रह्मा लोकपितामहः ॥ ४ ॥
उवाच श्लक्ष्णया वाचा तस्याः श्रमं व्यपोहितुम् ॥
श्रूयतां भोऽवने पुण्ये भवत्या उपकारकम् ॥ ५ ॥
वचो वदामि ते तथ्यं देशकालोचितं तथा ॥
पुराऽनेन तपश्चीर्णं दुष्करं सर्वदेहिनाम् ॥ ६ ॥
गायत्र्युपासना तेन कृता सुनियतात्मना ॥
मया चास्य वरो दत्तः प्रीतियुक्तेन चेतसा ॥ ७ ॥
न दिवा न तथा रात्रौ नान्तरिक्षे न भूतले ॥
नातिशुष्केण चार्द्रेण न चास्त्रशस्त्रघातनैः ॥ ८ ॥
न देवासुर गन्धर्वैर्न यक्षोरगकिन्नरैः ॥
पिशाचैर्गुह्यकाद्यैश्च राक्षसैर्न कदाचन ॥ ९ ॥
मानवैः पक्षिजातैश्च न मे मृत्युर्भवेदिति ॥
एककरतलाघातैः सकुलबलवाहनम् ॥ 5.1.66.१०॥
मारयिष्यति मां वीरः स मे मृत्युर्भविष्यति ॥
तथेत्युक्त्वाऽतिहृष्टात्मा तमहं च तदाऽवने ॥११॥
आगमं चैव लोकं स्वं स दैत्यो घोरशासनः ॥
बभूव सर्वलोकानां शास्ता चातुलविक्रमः ॥ १२ ॥
तस्यैवाऽधिकृता लोके बभूवुर्विगतज्वराः ॥
त्रैलोक्यं बुभुजे नित्यं सर्वदैत्यजनेश्वरः॥१३॥
तस्माद्यूयं वनं यात महाकालं महेशितुः॥
तत्र तीर्थं महच्चासीत्सर्वतीर्थवरोतमम् ॥१४॥
सङ्गमेश्वरस्य दक्षिणे कर्कराजोत्तरे तथा ॥
शिप्रातीरे शुभे देशे पूर्वं वैकुण्ठसन्निभम् ॥ १५ ॥
नृसिंहाख्यं परं धाम तस्य तीर्थं प्रतिष्ठितम् ॥
तत्र गत्वा सुरश्रेष्ठाः स्नानदाना दिकाः क्रियाः ॥ १६ ॥
कुरुत सत्वरं सर्वे पुनर्लोकानवाप्स्यथ ॥
ते तस्य वचनं श्रुत्वा देवा इन्द्रपुरोगमाः ॥ १७ ॥
महाकालवनं प्राप्ता यत्र शिप्रा पयस्विनी ॥
नृसिंहतीर्थोपकूले उषित्वा शाश्वतीः समाः ॥ १८ ॥
स्नानदानादिकं कृत्वा नृसिंहस्याऽर्चनं तथा ॥
एवं कृत्वा विधानेन परां सिद्धिमितो गताः ॥ १९ ॥
नृसिंहस्य स्वरूपेण हतो दानवपुङ्गवः ॥
सभामध्ये तदा व्यास हरिणाऽमित्रघातिना ॥ 5.1.66.२० ॥
करेणैकप्रहारेण हिर ण्यकशिपुर्हतः ॥
ततः सुरगणाः सर्वे स्वाधिकारान्ययुस्तदा ॥ २१ ॥
तदारभ्य सुराः सर्वे मध्याह्नोह्नोपासनं सदा ॥
प्रकुर्वन्ति च तत्रैव यत्र तीर्थे हरिः परम् ॥ २२ ॥
एवं तीर्थं परं व्यास अवन्त्यां विद्यते भुवि ॥
अस्मिंस्तीर्थे द्विजश्रेष्ठ स्नानदानादिकाः क्रियाः ॥ २३ ॥
ये कुर्वन्ति नराः पुण्यास्ते यान्ति परमां गतिम् ॥
सर्वदा सर्वकालेषु पुण्यदं तीर्थमुत्तमम् ॥ २४ ॥
कदाचिन्नृसिंहतिथिं प्राप्य चैव चतुर्दशीम् ॥
स्नानं कृत्वाऽर्चनं तस्य नृसिंहस्य च धीमतः ॥ २५॥
नृसिंहेश्वरदेवेशं पूजयेद्यः समाहितः ॥
तस्य हस्तगता लक्ष्मीर्भविष्यति न संशयः ॥ २६ ॥
ततोऽगस्त्येश्वरं देवं यः पश्येत्युसमाहितः ॥
तस्य व्यास क्षितौ किञ्चिद्दुर्लभं नैव दृश्यते ॥ २७ ॥
यत्र सिद्धिं परां प्राप्तो हनुमान्पवनात्मजः ॥
ब्रह्मचारी सदाचारो यतिः सर्वार्थसाधकः ॥ २८ ॥
तिष्ठति परदैवज्ञः सर्वकामार्थसिद्धये ॥
यस्मिन्वटे पुरा तप्तं तपः परमदुश्चरम् ॥ २९ ॥
मित्रावरुणपुत्रेण सिद्धिहेतोस्तपस्विना ॥
बोधी न्यग्रोध इत्याख्यो ह्यगस्तिवट एव च ॥ 5.1.66.३० ॥
नरो नारीसमायुक्तः सावित्रीव्रतमाचरेत् ॥
सौभाग्यं लभते नित्यं सावित्र्याश्च परन्तप ॥३१॥
यस्मिंस्तीर्थे नरः स्नात्वा दत्त्वा दानं च सौभगम् ॥
अष्टसौभाग्यसम्पूर्णं वंशपात्रं सवासकम् ॥ ॥ ३२ ॥
सप्तधान्यसमोपेतं पञ्चरत्नपरिष्कृतम् ॥
सौगन्ध्यादीनि माल्यानि मौलिसूत्रसमायुतम् ॥ ३३ ॥
सावित्रीं हाटकीं कृत्वा यथाशक्ति परन्तप ॥
यो वै ददाति विप्राय वेदवेदाङ्गधीमते ॥ ३४ ॥
लभते विपुलां लक्ष्मीं बहुभोगकरीं शुभाम् ॥
भुक्त्वा वै विविधान्भोगान्पुनः स्वर्गमवाप्नुयात् ॥ ३५ ॥
सावित्रीव्रतकृन्नारी जायते पतिवल्लभा ॥
पतिव्रता महाभागा विधवा न कदाचन ॥ ३६ ॥
इति श्रीस्कान्दे महापुराण एका शीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे अवन्तीक्षेत्रमाहात्म्ये नृसिंहतीर्थमहिमवर्णनन्नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥ ॥ सनत्कुमार उवाच ॥ ॥