०६४ कालभैरवतीर्थयात्रावर्णनम्

॥ सनत्कुमार उवाच ॥ ॥
अतः परं प्रवक्ष्यामि वीरेश्वरमथो शृणु ॥
तस्मिंस्तीर्थे नरः स्नात्वा वीरलोकमवाप्नुयात् ॥ १ ॥
नागानां प्रवरं तीर्थं सर्वकामवरप्रदम् ॥
कालभैरवमित्याख्यं तच्च तीर्थं परं स्मृतम् ॥ २ ॥
यस्य दर्शनमात्रेण सर्वदुःखातिगो भवेत् ॥ ३ ॥
॥ व्यास उवाच ॥ ॥
कस्मिन्काले हि विख्यातं कालभैरवसञ्ज्ञितम् ॥
तीर्थं मुनिवरश्रेष्ठ एतद्विस्तरतो वद ॥ ४ ॥
॥ सनत्कुमार उवाच ॥ ॥
पुराऽयं भैरवो योगी योगिनीत्रासकारकः ॥
कालचक्रकृताः कृत्या योगिनीनां गणास्तदा ॥ ५ ॥
तासां कालीति विख्याता योगिनी परमोत्तमा ॥
तयायं पालितो नित्यं पुत्रवद्भैरवोऽमलः ॥ ६ ॥
तेनैते च विनिर्धूता दोषोत्पाताश्च सत्तम ॥
त्रिविधा भुवि विख्याताः सर्वविघ्नकराः पराः ॥ ७ ॥
कालकृत्यास्तदा तेन भ्रंशिताः परमात्मना॥
महामारी पूतना कृत्या शकुनी रेवती खला॥८॥
कोटरी तामसी माया नवैता मातृकाः स्मृताः॥
दुष्टदोषवहा दुष्टाः सर्वप्राणिभयङ्कराः ॥९॥
वशीचक्रे स धर्मात्मा सर्वकामवरप्रदाः ॥
शिप्रातीरे स्थितो नित्यं कूले चोत्तरतः शुभे ॥5.1.64.१०॥
ऊषरस्य परे पूर्वे सोऽपि तिष्ठति सर्वदा ॥
आषाढस्य सिते पक्षे रविवारे समाहितः ॥११ ॥
नवमीं चाऽष्टमीं प्राप्य चतुर्दश्यां विशेषतः ॥
पूजां कुर्वन्ति ये केचिन्नरा निश्चलमानसाः ॥ १२ ॥
विवाहे पुत्रजनने माङ्गल्ये च शुभे परम् ॥
पत्रपुष्पार्कगन्धैश्च नैवेद्यैर्विविधैस्तथा ॥ १३ ॥
ताम्बूलवासगन्धाद्यैः पूजयेद्वरद रूपिणम् ॥
विप्राणां भोजनैर्होमैस्तर्पयेत्सततं विभुम् ॥ १४ ॥
एतत्परमकल्याणमेतत्परममङ्गलम् ॥
नत्वा स्तुत्वा च तं देवं सर्वकामार्थसिद्धये ॥ ॥ १५ ॥
सकलकलुषहारी धूर्तदुष्टांऽतकारी सुचिरचरितचारी मुण्डमौञ्जीप्रचारी ॥
करकलितकपाली कुण्डली दण्डपाणिः स भवतु सुखकारी भैरवो भावहारी ॥ १६ ॥
विविधरासविलासविलासितं नववधूरवधूतपराक्रमम् ॥
मदविघूर्णितगोष्पदगोष्पदं भवपदं सततं सततं स्मरे ॥ १७ ॥
अमलकमलनेत्रं चारुचन्द्रावतंसं सकलगुणगरिष्टं कामिनीकामरूपम् ॥
परिहृतपरितापं डाकिनीनाशहेतुं भज जन शिवरूपं भैरवं भूतनाथम् ॥। ॥ १८ ॥
सबलबलविघातं क्षेत्रपालैकपालं विकटकटिकरालं ह्यट्टहासं विशालम् ॥
करगतकरवालं नागयज्ञोपवीतं भज जन शिवरूपं भैरवं भूतनाथम् ॥ १९ ॥
भवभयपरिहारं योगिनीत्रासकारं सकलसुरगणेशं चारुचन्द्रार्कनेत्रम् ॥
मुकुटरुचिरभालं मुक्तमालं विशालं भज जन शिवरूपं भैरवं भूतनाथम् ॥ 5.1.64.२० ॥
चतुर्भुजं शङ्खगदाधराऽऽयुधं पीताम्बरं सान्द्रपयोदसौभगम् ॥
श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं शीलप्रदं शङ्कररक्षणं भजे ॥ २१ ॥
लोकाऽभिरामं भुवनाभिरामं प्रियाभिरामं यशसाभिरामम् ॥
कीर्त्याभिरामं तपसाऽभिरामं तं भूतनाथं शरणं प्रपद्ये ॥ २२ ॥
आद्यं ब्रह्मसनातनं शुचिपरं सिद्धिप्रदं कामदं सेव्यं भक्तिसमन्वितं हरिहरैः सृष्ट्यासहं साधुभिः ॥
योग्यं योगविचारितं युगधरं योग्याननं योगिनं वन्देहं सकलं कलङ्करहितं सत्सेवितं भैरवम् ॥ २३ ॥
भैरवाष्टकमिदं पुण्यं प्रातःकाले पठेन्नरः ॥
दुःस्वप्ननाशनं तस्य वाञ्छितार्थफलं भवेत्। ॥ २४ ॥
राजद्वारे विवादे च सङ्ग्रामे सङ्कटेतथा॥
राज्ञा कुद्धेन चाऽऽज्ञप्ते शत्रुबन्धगते तथा ॥ २५ ॥
दारिद्र्यदुःखनाशाय पठितव्यं समाहितैः ॥
न तेषां जायते किञ्चिद्दुर्लभं भुवि वाञ्छितम् ॥२६॥
॥ इति भैरवाष्टकम् ॥ ॥
अस्मिंस्तीर्थे प्रकर्तव्यं स्नानदानादिकं नरैः॥
संसारभयभीतैश्च पूजितो भैरवो वरः ॥
तस्मात्सर्वप्रयत्नेन कर्तव्यं तीर्थमुत्तमम्॥ २७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे ऽवन्तीक्षेत्रमाहात्म्ये कालभैरवतीर्थयात्रावर्णनन्नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥