॥ व्यास उवाच ॥
गोमतीकुण्डं त्वया प्रोक्तं पुरा ब्रह्मन्सनातनम् ॥
कस्मिन्काले कदा जातं तन्नो वद सुविस्तरात् ॥ १ ॥
॥ सनत्कुमार उवाच ॥
शृणुष्व भो महाप्राज्ञ कथां पापहरां पराम् ॥
गोमतीकुण्डोद्भवां पुण्यां पुरा रुद्रेण भाषिताम् ॥ २ ॥
नैमिषे च समासीना ऋषयः शौनकादयः ॥
कथयन्ति कथां पुण्यां सर्वतीर्थोद्भवां शुभाम् ॥ ३ ॥
तस्मिन्नवसरे पुण्ये काशीमाहात्म्यमुत्तमम् ॥
कथितं नारदेनैव पवित्रं पापहारकम् ॥ ४ ॥
ऊषरः पुण्य पापानां धन्या वाराणसी पुरी ॥
ध्रुवं लभन्ते मोक्षं च समं चण्डालपण्डिताः ॥ ५॥
असीवरुणयोर्मध्ये पञ्चक्रोशी महाफलम् ॥
अमरा मरणमिच्छन्ति का कथा इतरे जनाः ॥ ६ ॥
इति स्मृत्वा तदा व्यास स्वयम्भूः प्रत्यभाषत ॥
शृण्वतां सर्वदेवानामृषीणां च परन्तप ॥ ७ ॥
नदी न गोमतीतुल्या कृष्णतुल्या न देवता ॥
सर्वपातालभूमध्ये न द्वारकासमा पुरी ॥ ८ ॥
इति ते निश्चयं ज्ञात्वा ऋषयः शौनकादयः ॥
यत्र तत्र स्थिताः सर्वे प्रातःसन्ध्यामुपासितुम्॥ ९ ॥
तत्रैव गोमतीतीरे चक्रुस्ते ला धृतव्रताः ॥
सान्दीपनोऽपि तत्रैव प्रातःसन्ध्यां समाचरत् ॥ 5.1.62.१० ॥
एवं बहुतिथे काले चरतस्तस्य वै व्रतम्॥
सान्दीपनस्य वै व्यास ह्यवन्तीपुरवासिनः॥११॥
तस्यैव कामपूर्त्यर्थं विद्यार्थिनौ रामजनार्दनौ ॥
समायातौ सुकुमाराङ्गौ सततं ब्रह्मचारिणौ ॥ १२ ॥
निवासं चक्रतुस्तस्य गुरोर्गेहे परन्तप ॥
तस्य पाठयतः सम्यग्विद्यां सर्वश्रुतीः परम् ॥ १३ ॥
उषस्युषसि तत्रैव दृश्यते न तदा गुरुः ॥
विद्योपदेशकालोऽयं क्व गतो नौ गुरुर्वरः ॥ १४ ॥
इति पृष्टे तयोरेवं गुरुपत्नी ह्युवाच ह ॥
सदैव कुरुते वत्स प्रातःसन्ध्याद्युपास नम् ॥ १५ ॥
तत्रैव याति वै नित्यं गुरुस्ते स्नानकारणात् ॥
गोमती वै सरिच्छ्रेष्ठा द्वारकायां च पावनी ॥१६॥
इति श्रुत्वा तदा कृष्णो रामेण सह संयुतः ॥
किं कर्तव्यमिहास्माभिरात्मनो हितमुत्तमम् ॥ १७ ॥
गुरोरागमनं काङ्क्षे अत्रैव स्थितिकाङ्क्षया ॥
एतस्मिन्नेव काले तु सान्दीपनिरगा द्गृहम्॥ १८ ॥
तत उत्थाय तौ वीरौ गुरोरावन्दनं ततः ॥
प्रश्रयावनतौ कृत्वा ह्यब्रूतां वचनं गुरुम् ॥ १९ ॥
श्रूयतां भो महायोगिन्नस्माकं वासकार णम्॥
विद्यार्थिनाविह प्राप्तौ युष्माकं च गृहोत्तमे ॥ 5.1.62.२० ॥
प्रातःकाले च ते ब्रह्मन्समयो नास्ति नौ प्रभो ॥
एतच्छुत्वा वचस्तस्य कृष्णस्य च बलस्य च ॥ २१ ॥
उवाच भगवान्व्यास आत्मनो व्रतकारणम् ॥
अस्माकं परमं वत्स व्रतं वै शाश्वतं मतम् ॥ २२ ॥
गोमतीस्नानं कर्तव्यं प्रातःकाले सदा बुधैः ॥
तत्रैवोपासनं पुण्यं सन्ध्याया इति निश्चितम् ॥ २३ ॥
इति निश्चित्य युष्माभिर्यद्योग्यं क्रियतां तथा ॥
तच्छ्रुत्वा भगवान्विष्णुर्मायामानुषरूपवान् ॥ २४ ॥
गोमत्याराधनं चक्रे कुशस्थल्यां द्विजोत्तम ॥
यत्र शिवेश्वरो देवो यज्ञकुण्डमनुत्तमम् ॥ २५ ॥
कन्थडेश्वरस्योत्तरे भागे गोमती सा समागता ॥
पातालतलमाभेद्य सरस्वत्या सहागता ॥ २६ ॥
प्रातरुत्थाय ते सर्वे गोमतीं सरितां वराम् ॥
ददृशुः सुचिरापाङ्गीं व्यास स्वाश्रमगामिनीम् ॥ २७ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
अत्रैव चागता ब्रह्मन्गोमती सरितांवरा ॥
स्नानदानादिकं सर्वमत्रैव समुपासय॥ २८ ॥
गोमत्यत्र समालीना यज्ञकुण्डे सरस्वती ॥
तदाप्रभृति लोकेऽस्मिन्गोमतीकुण्डमुच्यते ॥ २९ ॥
सर्वेषामपि लोकानां मार्गोऽ त्रैव च विद्यते ॥
तस्माद्व्यास महापुण्यं भुवि तीर्थमनुत्तमम्॥ 5.1.62.३० ॥
गोमतीकुण्डमाख्यातं सर्वपापप्रणानशनम् ॥
भाद्रे मास्यसिताऽष्टम्यां कृष्ण जन्मसमुद्भवम् ॥ ३१॥
तत्र स्नात्वा नरो नित्यं रात्रौ जागरणं चरेत् ॥
उपोष्य विधिवद्व्यास सशिष्यं व्यासमर्चयेत् ॥ ३२ ॥
वैष्णवांश्च नरांश्चैव कृष्णजन्मोत्सुकान्वरान्॥
नानासुगन्धपुष्पाद्यैर्वस्त्रालङ्कारसंयुतैः ॥ ३३ ॥
गोब्राह्मणानां पूजाश्च क्रियते यैः समाहितैः ॥
न तेषां दुर्लभं किञ्चित्सर्वलोकेषु विद्यते ॥ ३४ ॥
गोमतीस्नानजात्पुण्याद्वासुदेवसमागमात् ॥
मनोरथफलप्राप्तिर्जायते नाऽत्र संशयः ॥ ३५ ॥
तथा चैत्रसिते पक्षे यावच्चैकादशी भवेत् ॥
तद्दिने च नरः स्नात्वा गोमत्यां च विशेषतः ॥ ३६ ॥
रात्रौ जागरणं कृत्वा विष्णुपूजां तथैव च ॥
आमलकीं ततो गत्वा प्रदक्षिणात्पदेपदे ॥ ३७ ॥
गोसहस्रफलं तेषां प्राप्यते नाऽत्र संशयः ॥
ये शृण्वन्ति कथां पुण्यां पवित्रां पापहारिणीम् ॥ ३८ ॥
सर्वपापविनिर्मुक्ता विष्णुलोकं प्रयान्ति ते ॥ ३९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गोमतीतीर्थकुण्डमाहात्म्यवर्णनन्नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥