०६० दानादिमाहात्म्यवर्णनम्

॥ व्यास उवाच॥
पुरुषोत्तमं परं तीर्थं त्वया प्रोक्तं पुरानघ॥
माहात्म्यं तस्य तीर्थस्य विस्तराद्वद मे प्रभो॥
एतत्तु श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर॥१॥
॥सनत्कुमार उवाच॥
शृणुष्व भो द्विजश्रेष्ठ कथां पापहरां पराम् ॥ २ ॥
यस्याः श्रवणमात्रेण महापापक्षयो भवेत् ॥
पुराकल्पेषु वै ब्रह्मन्वैकुण्ठे विमले शुभे ॥ ३ ॥
समासीनो रमानाथः पार्षदैः सनकादिभिः ॥
महर्षिभिः सदाचारैः पितामहपुरोगमैः ॥ ४ ॥
ऋदिसिद्धिगुणोपेतैस्तत्त्वैस्तैर्महदादिभिः ॥
गणगन्धर्वसङ्घैश्च सेव्यमानः समं ततः ॥ ५ ॥
किन्नरोद्गानसन्मानैर्नृत्यद्भिरप्सरोगणैः ॥
चिन्तामणिगृहोद्गारललिताङ्गणभूमिषु॥ ६ ॥
कल्पद्रुमकृतच्छाय आसीनो हि मुरुद्विषः ॥
धर्मवादरताः सर्वे ब्रह्ममार्गसुनिश्चिताः ॥७॥
तेषां मध्ये परा भाषा ह्यपृच्छत्कमलापतिम् ॥ ८ ॥
॥ लक्ष्मीरुवाच ॥ ॥
पुण्यकानां विधिं नाथ श्रोतुमिच्छामि तत्त्वतः ॥
सर्वज्ञोसि महाप्राज्ञ वाच्यतां यदि रोचते ॥ ९ ॥
॥ श्रीभगवानुवाच ॥ ॥
दानं स्नानं तपः श्राद्धं सदा शस्तं हि शोभने ॥
तथापि विधिना प्राप्तं तत्सर्वं चाक्षयं भवेत् ॥ 5.1.60.१० ॥
देशे काले पर्वणि च तीर्थे चायतने पदे ॥
दानं स्नानं तपः श्राद्धं मुनिभिः परिकीर्तितम्॥ ११ ॥
पूर्णमास्याममावास्यां सङ्क्रान्तौ ग्रहणे तथा ॥
वैधृतौ च व्यतीपाते दानवृद्धिः परा स्मृता ॥ १२ ॥
गङ्गायां भास्करक्षेत्रे कुरुक्षेत्रे च पुष्करे ॥
गोदावर्यां गयायां च तीर्थे चामरकण्टके ॥ १३ ॥
अवन्त्यां च हुतं दत्तं तत्सर्वं चाक्षयं भवेत् ॥
तस्मात्सर्वप्रयत्नेन पर्वे तीर्थं समाचरेत् ॥ १४ ॥
कुचैलो दुर्भगो मूर्खो जडो रोगसमन्वितः ॥
तीर्थपर्वपरिभ्रष्टो नरो भवति निश्चितम् ॥ १५ ॥
के योगाः सुकृतानां च कर्तव्याश्च विशेषतः ॥ १६ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
साधु पृष्टः प्रिये प्रश्रः पुण्यकानां त्वयाऽनघे ॥
मलमासे समायाते ये नरा व्रतवर्जिताः ॥
जन्मजन्मनि दारिद्र्यं तेषां भवति शोभने ॥ १७ ॥
॥ श्रीरुक्मिण्युवाच ॥ ॥
कीदृशो हि मलो मासः केन योगेन जायते ॥
कदा काले समायाति एतन्नो वद विस्तरात् ॥ १८ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
युक्तमुक्तं त्वया देवि प्रश्नः कालेऽयमीदृशः ॥
देवतापितृकार्याणि विधिना हि मलिम्लुचे ॥ १९ ॥
क्षौरं मौञ्जी विवाहश्च व्रतोपवासकं तथा ॥
विशेषेण गृहस्थानां वर्ज्यं मुनिवरोत्तमैः ॥ 5.1.60.२० ॥
संवत्सरत्रयान्ते च मासोऽयमधिगच्छति ॥
असङ्क्रमे रवेरस्मिंस्तस्मादधिकमासकः ॥ २१ ॥
अधिमासाधिपत्योऽहं सदैव पुरुषोत्तमः ॥
ममाभिधानं तीर्थं च महाकालवने शुभम् ॥ २२ ॥
पुरुषोत्तमाख्यं मे धाम सदैवात्र प्रति ष्ठति ॥
तस्मात्सर्वप्रयत्नेन गन्तव्यं हि त्वया सह ॥ .२३ ॥
महाकालवने तत्र यत्र तीर्थं ममाभिधम् ॥
प्राणिनो ये समायान्ति मज्जनार्थं प्रिये ध्रुवम्॥२४॥
तेषामिह ममादेयं न कदापि भविष्यति॥
धनधान्यकलत्रादि पुत्रसौख्यं सदैव हि॥२५॥
असङ्क्रान्तेऽपि सम्प्राप्ते मामुद्दिश्य व्रतं चरेत् ॥
अधिमासाधिपत्योऽहं सदा वै पुरुषोत्तमः ॥ २६ ॥
स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् ॥
देवतार्चां च मध्याह्ने ये कुर्वन्ति नरोत्तमाः ॥ २७ ॥
अक्षयं च भवेत्सर्वं तेषां वै कमले धुवम् ॥
मलमासो गतः शून्यो येषां देवि प्रमादतः ॥ २८ ॥
दारिद्र्यं च सदा तेषां शोकरोगविवर्धनम् ॥
अधिमासे समायाते अवन्त्यां व्रतमाचरेत् ॥ २९ ॥
तेषां ददाम्यहं प्रीत्या त्वामेव च न संशयः ॥
स्वल्पं दानमलं कार्यं यत्किं चिदिह यत्कृतम् ॥
तत्सर्वं मत्प्रसादेन ह्यनन्तं प्रियदर्शने ॥ 5.1.60.३० ॥
॥ श्रीरुवाच ॥ ॥
ईदृशो हि त्वया प्रोक्तो ह्यधिमासस्य सुव्रत ॥ ३१ ॥
महिमा ह्यपि लोकानां सर्वकामवरप्रदः ॥
अधिमासव्रतं पुण्यं कथयस्व प्रसादतः ॥ ३२ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
असङ्क्रातो यदा मासः प्राप्यते मानवैः प्रिये ॥
महोत्सवस्तदा कार्य आत्मनो हितकाङ्क्षिभिः ॥ ३३ ॥
कृष्णपक्षे चतुर्दश्यां नवम्यां वा सुरेश्वरि ॥
अष्टम्यां चाथ कर्तव्यं व्रतं शोकविनाशनम् ॥ ३४ ॥
यथालाभोपहारेण मासे चापि मलिम्लुचे ॥
पुण्याहे प्रातरुत्थाय कृत्वा पौर्वाह्णिकीं क्रियाम् ॥ ३५ ॥
गृहीत्वा नियमं पश्चाद्वासुदेवं हृदि स्मरन् ॥
उपवासं च नक्तं च एकभुक्तं च मानिनि ॥ ३६ ॥
एकस्य निश्चयं कृत्वा ततो विप्रान्निमन्त्रयेत् ॥
सपत्नीका न्सदाचारान्कुलीनाञ्ज्ञातिसम्भवान् ॥ ३७ ॥
ततो मध्याह्नसमये लक्ष्मीयुक्तं सनातनम् ॥
स्थापयेदव्रणे कुम्भे वेदमन्त्रैर्द्विजातिभिः ॥ ३८ ॥
पूजयेत्परया भक्त्या गोत्रिभिः सपितामहम् ॥
गन्धतोयेन संस्थाप्य पञ्चामृतैस्तथैव च ॥ ३९ ॥
मिष्टान्नैर्नवभिश्चैव नैवेद्यैर्धूपदीपकैः ॥
आच्छादनैश्च वस्त्रैश्च पीतकौशेयकैस्तथा ॥ 5.1.60.४० ॥
घण्टामृदङ्गनिर्ह्रादैर्घोषध्वनिसमन्वितैः ॥
आरार्तिकं व्रती कुर्यात्कर्पूरागरुचन्दनैः ॥ ४१ ॥
अलाभे तूल्मुकै श्चापि फलस्यानन्त्यहेतवे ॥
ताम्रपात्रस्थिते तोये चन्दनाक्षतपुष्पकैः ॥ ४२ ॥
अर्घ्यं दद्यात्सपत्नीकः प्रहृष्टेनान्तरात्मना ॥
पञ्चरत्नैः समायुक्तैर्जा नुनी कृत्य भूतले ॥
समादाय च पाणिभ्यां सर्वभक्तिसमन्वितः ॥ ४३ ॥
अर्घ्यमन्त्रः ॥
कृपावन्सर्वभूतेषु जगदानन्दकारक ॥
गृहाणार्घ्यमिमं देव सम्पूर्णफलदो भव ॥ ४४ ॥
प्रार्थनामन्त्र ॥
स्वयम्भुवे नमस्तुभ्यं ब्रह्मणेऽमिततेजसे ॥
नमोस्तु ते श्रियानन्द ब्रह्मानन्द कृपाकर ॥ ४५ ॥
एवं सम्प्रार्थ्य गोविन्दं पूजयेद्ब्राह्मणात्स्वयम् ॥
सपत्नीकाच्छुचीन्स्नाताल्लँक्ष्मीनारायणौ स्मरन् ॥ ४६ ॥
पूजयित्वा विधानेन भोजयेद्धृतपायसैः ॥ ४७ ॥
भोजयित्वा विधानेन सपत्नीकं यथोचितम् ॥
विद्याविनयसम्पन्नं तथा पत्न्या समन्वितम् ॥ ४८ ॥
पूजयित्वा यथाशक्त्या वस्त्रालङ्कारकुङ्कुमैः ॥
गोस्तन्याम्रकपित्थैश्च खर्जूरैः कदलीफलैः ॥ ४९ ॥
पनसैर्नारिकेलैश्च नारङ्गैर्दाडिमैस्तथा ॥
घृतपक्वान्नगोधूमैः शुभैः सोमालिकैर्वटैः ॥ 5.1.60.५० ॥
शर्कराघृतपूरैश्च कर्णिकैः खण्डमण्डकैः ॥
उर्वारुकर्कटीशाकैः शृङ्गबेरैः समूलकैः ॥ ५१ ॥
अन्यैश्च विविधैः शाकैराम्रैः पक्वैः पृथक्पृथक् ॥
भक्ष्यभोज्यलेह्यपेयकन्दकानि विशेषतः ॥ ५२ ॥
सुवासितान्गोरसांश्च परिवेष्य मृदु ब्रुवन् ॥
इदं स्वादु रसं भोज्यं भवदर्थे प्रकल्पितम् ॥ ५३ ॥
याच्यतां रोचते यच्च यन्मया पाचितं प्रभो ॥
धन्योस्म्यनुगृहीतोस्मि कृतं सार्थं च मन्दिरम् ॥ ५४ ॥
विसर्जयेत्ततो विप्रान्दत्त्वा ताम्बूलदक्षिणाः ॥
चतुर्भिर्मिंलितैर्देवि ताम्बूलं मम वल्लभम् ॥ ५५ ॥
यो ददाति द्विजश्रेष्ठे स भवेत्सुभगो नरः ॥
सुभगा च सदाचारा वल्लभा स्वजने सदा ॥ ५६ ॥
पुत्रसौभाग्ययुक्ता च ताम्बूलैर्जायते प्रिये ॥
पत्रैस्तु केशवः प्रीतः पूगैरीशः सहोमया ॥ ५७ ॥
चूर्णकेनानलः प्रीतः खदिरेण तु मन्मथः ॥
चतुर्भिर्विश्वरूपोऽसौ यः पुष्णाति जगत्त्रयम् ॥ ५८ ॥
परितोष्य सपत्नीकान्हस्ते दत्त्वा च मोदकान् ॥
आ सीमान्तमनुव्रज्य भुञ्जीत सह बन्धुभिः ॥५९॥
असङ्क्रान्ते व्रतं नारी या करोतीह सुप्रिये ॥
दारिद्र्यं पुत्रशोकं च वैधव्यं नाप्नुयात्क्वचित् ॥5.1.60.६०॥
नरो वा यदि वा नारी यः कुर्याच्च मलिम्लुचे ॥
स सर्वसुखभोक्ता च भवेन्नास्त्येव संशयः ॥ ६१ ॥
मलिम्लुचे प्राप्य न पूजितो यैर्नारायणोऽहं परयेह भक्त्या ॥
कथं भवेयुः सुखपुत्रसम्पत्सुहृत्सुभार्याः सुगुणैरुपेताः ॥६२॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे ऽवन्तीक्षेत्रमाहात्म्ये पुरुषोत्तममाहात्म्ये दानादिमाहात्म्यवर्णनन्नाम षष्टितमोऽध्यायः ॥ ६० ॥ ॥ छ ॥