०५९ वर्णनम्

॥ सनत्कुमार उवाच ॥ ॥
ततः सुरगणाः सर्वे धूतपापा समाहिताः ॥
पुनर्योगबलं प्राप्य स्वाधिकारं ययुः पुरा ॥ १ ॥
एवं व्यास गयातीर्थं कुमुद्वत्यां सुनिश्चित म् ॥
गयायां यानि तीर्थानि पुण्यान्यायतनानि च ॥ २ ॥
तत्तीर्थेषु नरः स्नात्वा तत्तत्तीर्थफलं भवेत् ॥
तथैव च गयाक्षेत्रं गयाश्राद्ध फलप्रदम् ॥ ३ ॥
फल्गुश्च सरितां श्रेष्ठा तथैव फलदायिनी ॥
आदिगया बुद्धगया तथा विष्णुपदी स्मृता ॥ ४ ॥
गयाकोष्ठस्तथा प्रोक्तो गदाधरपदानि च ॥
वेदिका षोडशी प्रोक्ता तथैव चाक्षयो वटः ॥ ५ ॥
प्रेतमुक्तिकरी नित्यं शिला चोक्ता तथैव च ॥
अच्छोदा निम्नगा प्रोक्ता पितॄणां चाश्रमोत्तमः ॥ ६ ॥
देवानां दानवानां च यक्षकिन्नररक्षसाम् ॥
पन्नगानां च सर्वेषां तथैवाश्रम उत्तमः ॥७॥
एतत्स्थानेषु सर्वेषु स्नानदानादिकाः क्रियाः ॥
श्राद्धं च विधिवद्देयं तत्तत्तीर्थफलं लभेत् ॥८॥
गयायां पितृरूपेण स्वयमेव जनार्दनः ॥
तं ध्यात्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात् ॥ ॥ ९ ॥
एवं व्यास गयातीर्थं पुरावन्त्यां प्रतिष्ठितम् ॥
पश्चात्तु कैकटे जातं यत्र सन्निहितोऽसुरः ॥ 5.1.59.१० ॥
तदारभ्य द्विजश्रेष्ठ गया तत्र प्रतिष्ठिता॥
गदाधरपदाघातैर्महासुरो निपातितः ॥ ११ ॥
तत्पदे च महिमानं जनार्दनसमर्पितम् ॥ १२ ॥
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ॥
यत्र तत्र करिष्यामि पितॄणां दत्तमक्षयम्॥
सर्वदा सर्वकालेषु गयाश्राद्धं विधीयते ॥ १३ ॥
संवत्सरे परं व्यास दिनमेकं प्रतिष्ठितम् ॥
कन्यास्थे च दिवा नाथे हस्तनक्षत्रसंयुते ॥
महालयेति तत्प्रोक्तं पितॄणां दत्तमक्षयम् ॥१४॥
सर्वदा सर्वकालेषु गयाश्राद्धं विधीयते ॥१५॥
संवत्सरे परं व्यास दिनमेकं प्रतिष्ठितम् ॥
अन्वष्टकायां कुर्वन्ति मातॄणां श्राद्धमुत्तमम् ॥ १६ ॥
अक्षय्या जायते तृप्तिः पितॄणां कल्पसङ्ख्यया ॥
एवं व्यास पुरी रम्या स्नानदा नादिकर्मसु ॥ १७ ॥
भूयस्तु सम्प्रवक्ष्यामि माहात्म्यं परमाद्भुतम् ॥
तच्छृणुष्व मया ख्यातं पवित्रं पापनाशनम् ॥ १८ ॥
सप्तर्षीणां च या भार्या ऋषिपत्न्यः पतिव्रताः ॥
स्वाहादोषपरिभ्रष्टा दूषिताः पावकेन च ॥ १९ ॥
ऋषिभिश्च परित्यक्ता बभ्रमुश्च वनाद्वनम् ॥
एवं बहुतिथे काले नारदो देवदर्शनः॥5.1.59.२०॥
तासां च प्रियमन्विच्छन्समायातो वनान्तरे ॥
ताभिश्च सत्कृतो नित्यं समासीनो धृतव्रतः ॥ २१ ॥
उवाच श्लक्ष्णया वाचा देशकालोचितं वचः ॥
किमिदं विकृतं जातं भवतीनां पराभवः ॥ २२ ॥
कस्माच्च ऋषिभिस्त्यक्ता लोकमातरः पतिव्रताः ॥ २३ ॥ ॥
॥ ऋषिपत्न्य ऊचुः ॥ ॥
न जानीमो वयं तात येन दोषेण तापसैः ॥
विमुक्ताः साग्निकैः क्षिप्रं कार्तिकेयप्रसङ्गतः ॥ २४ ॥
लोकापवादजं किञ्चिज्जातं दिष्टवशादधम् ॥
किं कुर्मो वा क्व गच्छामः किं तपः का च देवता ॥ २५ ॥
यस्याराधनपुण्येन पतिसान्निध्यमाप्नुयुः ॥
एतन्निश्चित्य भो ब्रह्मन्ब्रूहि त्वं वेदतत्त्वतः ॥२६॥
इति पृष्टस्तदा ताभिर्ऋषिपत्नीभिर्नारदः ॥
उवाच सुचिरं ध्यात्वा तासां स शर्महेतवे ॥२७॥
॥ नारद उवाच ॥ ॥
श्रूयतां भोस्तपःश्रेष्ठा भवतीनां च कारणम्॥
महाकालवने रम्ये गयातीर्थमनुत्तमम् ॥२८ ॥
तत्रैव चाक्षयो नाम न्यग्रोधः शाखिनां वरः ॥
तत्रागमनमात्रेण धूतदोषा भविष्यथ ॥ २९ ॥
सर्वदोषहरं तीर्थं सर्वकामवरप्रदम् ॥
सर्वसौख्यकरं पुण्यं तत्र गच्छत मा चिरम् ॥ 5.1.59.३० ॥
नारदस्य वचः श्रुत्वा ऋषिपन्त्यः सुचोदिताः ॥
महाकालवने व्यास इच्छन्त्यः प्रियमात्मनः ॥ ३१ ॥
आजग्मुस्तद्वनं तत्र यत्र तीर्थं गयाभिधम् ॥
तत्र गत्वा शुचीभूय स्नानदानादिकाः क्रियाः ॥ ३२ ॥
कृतास्ताभिश्च पुण्याभिर्नभस्यस्यासितेतरे ॥
पञ्चम्यामृषिसञ्ज्ञायां ताभिः सुचरितं व्रतम्॥ ३३ ॥
उपोष्य चैकरात्रं तु जागरं चैव योगतः ॥
कृतमात्रे व्रते व्यास धूतपापा बभुः क्षणात् ॥ ॥ ३४॥
भर्तृकोपपरिभ्रष्टाः सद्यः प्राप्ता गृहाश्रमम्॥
ऋषिभिः साग्निकं दत्तं पूर्ववदृषिसत्तम॥३५॥
तदाप्रभृति लोकेस्मिन्पञ्चमी ऋषिसञ्ज्ञिता ॥
ये नराश्चाथ नार्यो यास्तां कुर्वन्ति तु भक्तिः॥३६॥
नीवाराहारकं कृत्वा शुचीभूय समाहिताः॥
न तेषां जायते किञ्चिदापद्दुःखं कदाचन॥
दुर्भगत्वं च नारीणां न वियोगश्च मातृभिः।३८॥
पुत्रतो धनतो वापि कदाचित्सम्भविष्यति॥
एवं व्यास समाख्यातं यत्त्वया परिपृच्छितम् ॥ ३९ ॥
अवन्त्यामीदृशं तीर्थं वर्तते भुवि सत्तम ॥
तादृशं पुण्यदं किञ्चिन्नास्ति ब्रह्माण्डगोलके ॥ 5.1.59.४० ॥
अस्मिंस्तीर्थे नरः कश्चिन्महा दानानि चेच्चरेत् ॥
अक्षयाणि भवन्त्यस्य विष्णुलोके महीयते ॥ ४१ ॥
यो वै नियमवान्भूत्वा कथामेतां शृणोति वा ॥
पठेच्च सततं व्यास हय मेधफलं लभेत् ॥ ४२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गयातीर्थमाहात्म्य वर्णनन्नामैकोनषष्टितमोऽध्यायः॥५९॥