॥ व्यास उवाच ॥ ॥
विचित्रमिदमाख्यातं गयामाहात्म्यमुत्तमम् ॥
भगवन्भवता सर्वं विदितं विश्वमूर्तिना ॥ १ ॥
तत्सर्वं श्रोतुमिच्छामि श्राद्धस्य फलमुत्तमम् ॥
क्षेत्रस्य च द्विजश्रेष्ठ विस्तरेण तपोधन ॥ २ ॥
कियन्तः पितरो नित्यं तृप्ता यान्ति सुरालयम् ॥
केषां के पितरः प्रोक्ताः किमुद्देश्याः पुराऽनघ ॥ ३ ॥
॥ सनत्कुमार उवाच ॥ ॥
धन्योऽसि कृतकृत्योऽसि यस्य ते नैष्ठिकी मतिः ॥
तथापि शृणु वै वत्स श्राद्धस्य विधिमुत्तमम् ॥ ४ ॥
श्राद्धे प्रकल्पिता लोकाः श्राद्धे धर्मः प्रतिष्ठितः ॥
श्राद्धे यज्ञा हि तिष्ठन्ति सर्वकर्मफलप्रदाः ॥ ५ ॥
श्रद्धया दीयते किञ्चिद्दैवं ब्रह्माग्नितर्पणम् ॥
श्राद्धं तु तद्विजानीयात्पुरा प्रोक्तं मह र्षिणा ॥ ६ ॥
मनुष्या ऋषयः सर्वे सुरसिद्धाश्च राक्षसाः ॥
गन्धर्वाः किन्नरा नागा ब्रह्मेशानसुरेश्वराः ॥ ७ ॥
त्रीन्पितॄंश्च समुद्दिश्य श्राद्धं दद्युः समाहिताः ॥
प्राप्नुवन्त्यखिलान्कामान्सर्वान्व्यास मनोगतान् ॥ ८ ॥
एवं परम्परामार्गं प्रवर्तन्ते सनातनम् ॥
तथापि पितरो ह्येते समाख्याततमा भुवि ॥ ९ ॥
तत्सर्वं सम्प्रवक्ष्यामि यथा श्रुतं तथा शृणु ॥
त एते पितरो देवा देवाश्च पितरस्तथा ॥ 5.1.58.१० ॥
अन्योन्यं पितरो ह्येते देवाः पितृगणैः सह ॥
मार्कण्डेन पुरा पृष्टं प्रश्नमेतद्द्विजोत्तम ॥ ११ ॥
निबोध त्वं मतं सर्वं यदुक्तं तत्समाहितः ॥
यावन्तस्ते पितृगणास्तस्मिल्ँलोके च ये गताः ॥ १२ ॥
॥ सनत्कुमार उवाच ॥ ॥
सप्तैते यजतां श्रेष्ठाः सर्वे पितृगणाः स्मृताः ॥
चत्वारो मूर्तिमन्तो वै त्रयस्तेषां च मूर्तयः ॥ ॥ १३ ॥
तेषां लोकं विसर्गं च कीर्तयिष्यामि तच्छणु ॥
प्रभावं त्वं महत्त्वं च विस्तरेण तपोधन ॥ १४ ॥
धर्ममूर्तिधरास्तेषां तपो ये परमं गताः॥
तेषां नामानि लोकांश्च कीर्तयिष्यामि तच्छृणु॥ १५ ॥
लोकाः सनातना नाम यत्र तिष्ठन्ति भास्वराः ॥
अमूर्तयः पितृगणास्ते वै पुत्राः प्रजापतेः ॥ १६ ॥
विराजस्य द्विजश्रेष्ठ वैराजा इति नः श्रुतम् ॥
यजन्ते तान्देवगणा विधिदृष्टेन कर्मणा ॥ १७ ॥
एते वै योगविभ्रष्टा लोकान्प्राप्य सनातनान् ॥
पुनर्युगसहस्रान्ति जायन्ते ब्रह्मवादिनः ॥ १८ ॥
ते प्राप्य तां स्मृतिं भूयः साङ्ख्ययोगमनुत्तमम् ॥
यान्ति योगगतिं सिद्धाः पुनरावृत्तिदुर्लभाम् ॥ १९ ॥
एते स्युः पितरस्तात योगिनां योगवर्धनाः ॥
आप्याययन्ति ये पूर्वं सोमं योगबलेन वै ॥ 5.1.58.२० ॥
तस्माच्छ्राद्धानि देयानि योगिनां द्विजसत्तम ॥
एष वै प्रथमः कल्पः सोमपानामनुत्तमः ॥ २१ ॥
एतेषां मानसी कन्या मेना नाम महागिरेः ॥
पत्नी हिमवतः श्रेष्ठा यस्यां मैनाक उच्यते ॥ २२ ॥
मैनाकस्य सुतः श्रीमान्क्रौञ्चो नाम महागिरिः ॥
अग्निष्वात्ताः पितृगणास्तत्र तिष्ठन्ति भास्वराः ॥ २३ ॥
याम्यां बर्हिषदश्चासन्यमाश्च पश्चिमां दिशम् ॥
सोमपाश्चोत्तरां प्राप्ता दिशं धनदपालिताम्॥ २४ ॥
अमूर्तिमन्तावाकाशे कव्यवाडनलौ क्षितौ ॥ ॥ २५ ॥
यक्षरक्षःपिशाचाश्च यजन्ते भावितात्मनः ॥
साध्या देवान्यजन्ति स्म विश्वेदेवा ऋषींस्तथा ॥ २६ ॥
मानवाः श्राद्धदेवं च ऋषयो ब्रह्म सनातनम् ॥
एवं परम्पराप्राप्तः श्राद्धधर्मः सनातनः ॥ २७ ॥
देवकार्यात्परं कार्यं पितृकार्यं विशिष्यते ॥
भरद्वाजात्मजाः सप्त श्राद्धधर्मपराय णाः ॥ २८ ॥
जातिस्मरत्वमापन्ना निर्वाणपदवीं गताः॥
गुरोश्च दोग्ध्रीं गां हत्वा सप्तैते वै द्विजाधमाः ॥ २९ ॥
पितॄनुद्दिश्य ते सर्वे भक्षयन्तः क्षुधा र्दिताः ॥
तेन पुण्यप्रभावेन योगभ्रष्टा दिवं गताः ॥ 5.1.58.३० ॥
सप्त जातिस्मरास्ते वै योगयुक्ता बभूविरे ॥
तस्माच्छ्राद्धं परं प्रोक्तं सूरिभिः परमात्मभिः ॥ ३१ ॥
श्राद्धे प्रतिष्ठिता लोकाः श्राद्धे योगः परन्तप ॥
एवं ते पितरः प्रोक्ताः श्राद्धस्य च विधिं शृणु ॥ ३२ ॥
ब्रह्मचर्यरतो दान्तो न क्रोधी न च मत्सरी ॥
शौचाचारपरो धीरः शास्त्रदृष्टिर्जितेन्द्रियः ॥३३ ॥
एवं यः कुरुते श्राद्धं तीर्थे चैव विशेषतः ॥
ततोऽधिकतरा प्रोक्ता तृप्तिर्व्यास क्षयेऽहनि ॥ ३४ ॥
वृद्धिश्राद्धे तथा प्रोक्ता महालये शताधिका ॥
ततो दशगुणा प्रोक्ता प्रयागे द्विजसत्तम ॥ ३५ ॥
प्रयागाद्दशगुणा तृप्तिः कुरुक्षेत्रे च सत्तम ॥
कुरुक्षेत्रात्ततो व्यास दशाधिका गया स्मृता ॥ ३६ ॥
ततो दशाधिका व्यास महाकालवने शुभे ॥
अवन्त्यां सर्वतः पुण्यं गयातीर्थे च सर्वदा ॥ ३७ ॥
येषां निरयमापन्नाः पितरो जन्मजन्मनि ॥
तेषामुद्धरणार्थाय तीर्थमेतत्सुदुर्लभम्॥३८॥
सकृत्स्मरणमात्रेण पितॄणा दत्तमक्षयम् ॥
ये नरा रणमध्यस्थाः पितृवंशविवर्जिताः ॥ ३९ ॥
गर्भपाते मृता ये च नामगोत्रच्युतास्तथा ॥
स्वगोत्रे परगोत्रे वा आत्मघातमृताः परे ॥ 5.1.58.४० ॥
तेषामुद्धरणार्थाय तत्र श्राद्धं विधीयताम् ॥
उद्बन्धनमृता ये च विषशस्त्रैर्मृताश्च ये॥ ४१ ॥
दष्ट्रिभिर्व्यङ्गतो वापि दौर्ब्राह्मण्ये मृताश्च ये॥
तेषामुद्धर णार्थाय अत्र श्राद्धं विधीयते ॥ ४२ ॥
अग्निदग्धाश्च ये जीवा नाग्निदग्धास्तथा परे ॥ ४३ ॥
विद्युद्धातेन ये केचिन्मुद्गराभिहताः परे ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ॥ ४४ ॥
रौरवे चान्धतामिस्रे कालसूत्रे च ये गताः ॥
अनेकयातनासंस्थाः प्रेतलोके च ये गताः ॥ ४५ ॥
असिपत्रवने घोरे कुम्भीपाके च ये गताः ॥
पशुयोनिगता ये च पक्षिकीटसरीसृपाः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ॥ ४६ ॥
उदकेषु मृता ये च नारीसूतीमृतास्तथा ॥ ४७ ॥
अश्वसूकूरकृमिदंष्ट्रिश्वशृङ्गिशकटाहताः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ॥ ४८ ॥
भग्नदंष्ट्राश्च शस्त्रास्त्रैर्व्याघ्राहिगजभूमिपैः ॥
शलभैर्वृश्चिकैर्दंष्ट्रिचोरैर्ये चापि घातिताः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ॥ ४९ ॥
अष्टशल्यैर्मृता ये च शौचाचारविवर्जिताः ॥
विषूचिकामृता ये च ये चातीसारतो मृताः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ॥ 5.1.58.५० ॥
शाकिन्यादि ग्रहग्रस्तजलमध्ये च ये मृताः ॥
अस्पृश्यस्पर्शसंस्पृष्टाः पापा अपत्यवर्जिताः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ॥ ५१ ॥
जन्मान्तरसहस्राणि भ्रमन्ति स्वेन कर्मणा ॥
मानुषं दुर्लभं येषां तेभ्यः श्राद्धं विधीयताम् ॥५२॥
येऽन्यजन्मन्यबान्धवा येऽन्यजन्मनि बान्धवाः॥
येऽन्यजन्मनि सम्बद्धा मित्रामित्रे तथा परे ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ॥ ५३ ॥
पितृवंशे मृता ये च मातृवंशे तथैव च ॥
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ॥ ५४ ॥
ये मे कुले लुप्तर्पिडाः पुत्रदारादिवर्जिताः ॥
क्रियालोपगता ये च तेभ्यः श्राद्धं विधीयते॥ ५५ ॥
पङ्गुकुब्जा विरूपाश्च आमगर्भाश्च ये मृताः॥
ज्ञाताऽज्ञाताः कुले ये च तेभ्यः श्राद्धं विधीयते॥५६॥
आब्रह्मभुवनाद्ये च अन्यैर्दुर्मरणैर्मृताः॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते॥५७॥
तृषार्ताः क्षुधिताश्चैव हापिताश्चैव ये मृताः॥
प्रेतयोनिं गताश्चैव म्लेच्छयोनिं गताश्च ये॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ॥ ५८ ॥
एवं श्राद्धविधिं व्यास तस्मिंस्तीर्थे समाचरेत् ॥
ऋणत्रयविनिर्मुक्तो वाञ्छितार्थं लभेत सः ॥
गयायां च समासाद्य सुरा इन्द्रपुरोगमाः ॥
चक्रुश्च विधिवत्सर्वे यदुक्तं देवभाषया ॥ ५९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गयामाहात्म्ये श्राद्धविधिवर्णनन्नामाष्टापञ्चाशत्तमोऽध्यायः ॥५८ ॥ ॥ छ ॥