॥ सनत्कुमार उवाच ॥ ॥
शृणु व्यास प्रवक्ष्यामि तीर्थमेकमतः परम् ॥
तीर्थानामुत्तमं तीर्थं गयानामेति नामतः ॥ १ ॥
तत्र स्नात्वा नरो नित्यं मुच्यते च ऋणत्रयात् ॥
देवान्पितॄन्समभ्यर्च्य विष्णुलोकं स गच्छति ॥ २ ॥
॥ व्यास उवाच ॥ ॥
कीकटेषु गया पुण्या नदी पुण्या पुनः पुना ॥
च्यवनस्याश्रमः पुण्यः पुण्यो राजगिरिस्तथा ॥ ३ ॥
स कथं विदितो देशे महाकालवने शुभे ॥
एतद्वेदितुमिच्छामि विस्तरेण तपोधन ॥ ॥। ४ ॥
॥ सनत्कुमार उवाच ॥ ॥
शृणु व्यास कथां पुण्यां पवित्रां पापहारिणीम् ॥
यस्याः श्रवणमात्रेण पितरो यान्ति सद्गतिम् ॥ ५ ॥
पुरा कृतयुगे पुण्ये युगादिदेवनामतः ॥
राजासीत्स तु धर्मात्मा पुण्यश्रवणकीर्तनः ॥ ६ ॥
तस्य पालयतः सम्यक्प्रजाः पुत्रानिवौरसान् ॥
बभूवुः सर्वसम्पन्ना वर्धमानाः समन्ततः ॥ ७ ॥
धर्मश्चतुष्पदो नित्यं यस्मिन्राज्ञि प्रशासति ॥
कालवर्षी च पर्जन्य ऋतवः स्वाङ्गचारिणः ॥ ८ ॥
बहुसस्यफला पृथ्वी गावश्च बहुदुग्धदाः ॥
वेदवादरता विप्राः क्षत्त्रिया बाहुशालिनः ॥ ९ ॥
वैश्या धनपरा नित्यं शूद्राः शुश्रूषणे रताः ॥
वर्णाश्रमरताः सर्वे सर्वे धर्मोपदेशकाः ॥ 5.1.57.१० ॥
श्रुतिस्मृतिपरो धर्मो हृष्टपुष्टजनाकरः ॥
नाधिव्याध्यभिभूतश्च लक्ष्यते कोऽपि मानवः ॥ ११ ॥
दुःशीला दुर्भगा नारी विधवा नैव लक्ष्यते ॥
बहुपुत्राऽल्पपुत्रा च मृतपुत्रा न वन्ध्यका ॥१२॥
रूपशीलगुणोपेता पतिव्रतपरायणा ॥
नो मार्गः कण्टसङ्कीर्णो दस्युदोषैश्च दूषितः ॥ १३ ॥
हूयतां भुज्यतां शश्वद्दीयतां च गृहेगृहे ॥
दयादानतपोहोमजपयज्ञक्रियापराः ॥ १४ ॥
जनाः सर्वत्र दृश्यन्ते सर्वधर्म परायणाः ॥
चतुष्पादचरो धर्मो ह्यधर्मोऽपादविग्रहः॥ १५ ॥
एवं राजा स धर्मात्मा युगादिदेवसञ्ज्ञितः ॥
येनेयं पालिता पृथ्वी धर्मेण वर्धिताः प्रजाः ॥ १६ ॥
अवन्त्यां च पुरा व्यास यज्ञकोटिं समाचरत् ॥
तस्मिन्कालेतिविक्रान्तस्तुहण्डो नाम दानवः ॥ १७ ॥
तेन सर्वं वशं नीतं चरा चरमिदञ्जगत् ॥
घोरं तप्त्वा तपः पुण्यं ब्रह्मलब्धवरः खलः ॥ १८ ॥
नैव देवा न यज्ञाश्च वेदमार्गविवर्जिताः ॥
देवतापूजनं नास्ति स्वधा स्वाहा न दृश्यते ॥ १९ ॥
उत्सन्नो धर्ममार्गोऽयं शाश्वतो वै दुरात्मना ॥
नष्टप्रायाः सुरास्तेन कृताः सर्वे द्विजोत्तमाः ॥5.1.57.२०॥
ब्रह्माणं शरणं जग्मुः पितृभिः सह साधुभिः ॥
किं कुर्मो वा क्व गच्छाम तुहण्डेन पराजिताः ॥ २१ ॥
इति श्रुत्वा वचस्तेषां ब्रह्मा लोकपितामहः ॥
समुत्थाय ततः सर्वैर्विष्णुलोकं जगाम ह ॥ २२ ॥
तत्र गत्वा समाराध्य विष्णुं देवगणैः सह ॥
स्तुतिं पुरुषसूक्तेन विष्णोरतुलतेजसः ॥ २३॥
प्रचक्रुः सर्व एवैते ह्यात्मनोभ्युदयाय च ॥
तदा तेषां शमिच्छन्ती वागुवाचाशरीरिणी ॥ २४ ॥
श्रूयतां भोः सुरश्रेष्ठा भवतां श्रेय उत्तमम् ॥
यूयं यात क्षितौ क्षिप्रं महाकालवनं प्रति ॥ २५ ॥
गुह्याद्गुह्यतरं पुण्यं पवित्रं पापनाशनम् ॥
नो यत्र मायिनां माया प्रकाशयति भूतले ॥ २६ ॥
सर्वतीर्थमयं तीर्थं कोटितीर्थवरप्रदम् ॥
यत्र शिप्रा सरिच्छ्रेष्ठा सर्वकामफलप्रदा ॥ २७ ॥
दैत्यान्तकारिणी दिव्या महाकाली कुलेश्वरी ॥
कोटिकोटिगणाकीर्णा मातॄ णां शक्तिवर्धिनी ॥ २८ ॥
यत्र गया महापुण्या फल्गुश्चैव महानदी ॥
पुरुषोत्तमगिरिश्रेष्ठो यत्र बुद्धगया स्मृता ॥ २९ ॥
तथैवाद्यगया ख्याता त्रिषु लोकेषु विश्रुता ॥
विष्णोः षोडशपदीतीर्थं गदाधरविनिर्मितम् ॥ 5.1.57.३० ॥
सर्वपापहरा पुण्या यत्र प्राची सरस्वती ॥
महासुरनदी प्रोक्ता यत्र तिष्ठति पुण्यदा ॥ ३१ ॥
न्यग्रोधश्चाक्षयो नित्यः पुरा प्रोक्तो महर्षिणा॥
तत्रैव सा शिला प्रोक्ता प्रेतमोक्षकरी शुभा ॥ ३२॥
तत्रैव सन्ति ताः सर्वा देवताः पितृकल्पजाः ॥
सर्वाक्षरमयोङ्कारः सर्वदेवमयो हरिः ॥ ३३ ॥
सर्वतीर्थमया देवा गयातीर्थमनुत्तमम्॥
शीघ्रं गच्छत तत्रैव परां सिद्धि मवाप्स्यथ ॥ ३४ ॥
यत्र प्रविष्टमात्रेण पितरो निरयस्थिताः ॥
ते सर्वे स्वर्गमायान्ति ब्रह्मभूयाय कल्पते ॥ ३५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गयातीर्थमाहात्म्ये गयातीर्थप्रशंसावर्णनं नाम सप्तपञ्चा शत्तमोऽध्यायः ॥ ५७ ॥ ॥ छ ॥