॥ सनत्कुमार उवाच ॥ ॥
तीर्थमन्यतरं व्यास क्षातासङ्गमसम्भवम् ॥
यत्र तु स्नानमात्रेण महापापैः प्रमुच्यते ॥ १ ॥
अमा वै शनिवारेण यदायाति समाहितः ॥
पितॄनुद्दिश्य यः कुर्याच्छ्राद्धं चैव तिलोदकम् ॥ २ ॥
पश्येच्छनैश्चरं देवं स्थावरं लिङ्गमुत्तमम् ॥
तस्य शानैश्चरी पीडा न भवेत्तु कदाचन ॥ ३ ॥
॥ व्यास उवाच ॥ ॥
महातीर्थं समाख्यातं महाकालवने शुभे ॥
भूयस्तु श्रोतुमिच्छामि विस्तरेण तपोधन ॥४॥
॥ सनत्कुमार उवाच ॥ ॥
श्रूयतां भो द्विजश्रेष्ठ कथा पौराणिकी शुभा ॥
यस्याः श्रवणमात्रेण महापापक्षयो भवेत् ॥५ ॥
रेवा चर्मण्वती क्षाता तिस्रो नद्यः पुराऽनघ ॥
जातास्त्रैलोक्यपावन्यो भुवि चामरकण्टकात् ॥ ६ ॥
पुण्याः पुण्यजला रम्याः पवित्राः पापहारकाः ॥
पुनन्त्यः सर्वलोकानां स्नानात्पानात्तथापगाः॥ ७ ॥
एकदोपवने रम्ये मान्धातृक्षेत्र उत्तमे ॥
मिथो रमन्ति संहृष्टाः परस्परजिगीषया ॥ ८ ॥
किञ्चिद्दोषप्रसङ्गेन मिथो भेदो ह्यजायत ॥
रेवासङ्गं परित्यक्ता भित्त्वा विन्ध्यगिरिं वरम् ॥ ९ ॥
महाकालवने रम्ये समा याता सरिद्वरा ॥
यत्र शिप्रा महापुण्या पुरी ह्येषाऽमरावती ॥ 5.1.56.१० ॥
सर्वतीर्थवरं श्रेष्ठं नामा रुद्रसरः स्मृतम् ॥
भुक्तिमुक्तिप्रदं नित्यं सिद्धर्षिगण सेवितम्॥ ११ ॥
तत्रागत्य पुरा क्षाता शिप्रासङ्गं समाश्रिता ॥
तत्र तीर्थं परं जातं क्षातासङ्गमसञ्ज्ञितम् ॥
यत्र धूतरजा जातः सद्यः प्रोक्तो विभावसुः ॥ १२ ॥
॥ व्यास उवाच ॥ ॥
कथं सूर्यस्त्वया प्रोक्तो विरजो ह्यभवत्पुरा ॥
एतद्वेदितुमिच्छामि त्वत्तो ब्रह्मविदांवर ॥ १३ ॥ ॥
॥ सनत्कुमार उवाच ॥ ॥
पुरानुसूर्यां सावित्रीं त्वष्टा स्वतनयां ददौ ॥ १४ ॥
पतिधर्मरता नित्यं सिषेवे लोकचक्षुषे ॥
तस्यां वै मिथुनं जज्ञे लोकसाक्षिविभावसोः ॥ १५ ॥
यमो वैवस्वतो जातो यमुना लोकपावनी ॥
ततस्त्वष्टाऽब्रवीच्छायां स्वकीयां सूनृतां गिरम् ॥ १६ ॥
मिथुनं मे तवोत्सङ्गे धृतं त्वं परिपालय ॥
तावदेवमिह च्छाये यावत्पितुर्गृहेचरी ॥ १७ ॥
रविभक्तिरता नित्यं चर त्वं मम वेश्मनि ॥
नो वाच्याहं कदा च्छाये पितुर्वेश्मगता रवेः ॥ १८ ॥
एवं सा समयं कृत्वा सावित्री ह्यगमत्तदा ॥
पितुर्वेश्मगता बाला सवितुर्भयविह्वला ॥ १९ ॥
पित्र निवारिता सद्यो वडवारूपधारिणी ॥
विचचार वने रम्ये बहुलोदकशाड्वले ॥ 5.1.56.२० ॥
एकदा याचिता तेन वैवस्वतेन बुभुक्षता ॥
नोदनं वै तया दत्तं याचमानाय तत्क्षणात् ॥ २१ ॥
तदा पदाहता तेन च्छाया तं च शशाप ह ॥
यतस्त्वं मे पदाघातं कृतवान्बालभावनात् ॥ ॥ २२ ॥
तस्मात्त्वं च पदा खञ्जो भविष्यसि न संशयः ॥
एवं शप्तो रुजाक्रान्तो विललाप शुचार्दितः ॥ २३ ॥
एतस्मिन्नन्तरे व्यास परिभूय वसुन्धराम् ॥
भावयन्सकलाल्ँलोकान्ग्रहचारी विभावसुः ॥ २४ ॥
दृष्ट्वा च तनयं पङ्गुमित्युवाच विभावसुः ॥
किमिदं वत्स ते कष्टं कुतः प्राप्तं त्वयाऽनघ ॥ २५ ॥
इति पृष्टो यदा तेन सवित्रा लोकभास्वता ॥
उवाच गद्गदा वाचं यमः संयमिनीपतिः ॥ २६ ॥
प्रातराशाय मे नाथ याचितं मातुरन्तिकात् ॥
नो दत्तं भोजनं क्षिप्रं बालभावेन ताडिता ॥ २७ ॥
पादौ मे गलितौ सद्यो मातुः शापपराभवौ ॥
तच्छ्रुत्वा मोहमापन्नो रविर्ध्यानपरायणः ॥ २८ ॥
विचित्रमिदमाख्यातं मातुः शापस्य कारणम् ॥
एवं ध्यात्वा चिरं कालं ज्ञातवान्रविरंशुमान् ॥ ॥ २९ ॥
नेयं सा रुचिरापाङ्गी त्वाष्ट्री लोकस्य पावनी ॥
केयं वा कुत आयाता कासि त्वं च शुचिस्मिते ॥ 5.1.56.३० ॥
॥ छायोवाच ॥ ॥
नानुसूर्या महाराज छाया तस्याः स्वसम्भवा ॥
गता वै सा पितुर्गेहे वारिताहं तयाऽनघ ॥ ३१ ॥
सवित्रे नैव वक्तव्यं छाये किञ्चित्कथञ्चन ॥
एष मे समयो नाथ तेनाहं मौनमास्थिता ॥ ३२ ॥
तच्छ्रुत्वा भगवांस्त्वष्टुः समीपं रोषमास्थितः ॥
जगाम सहसा भानुर्बहुरोषसमन्वितः ॥ ॥ ३३ ॥
तं दृष्ट्वा सहसोत्थाय त्वष्टा लोकपितामहः ॥
पाद्यार्घ्याचमनीयं च मधुपर्कैरपूजयत् ॥ ३४ ॥
नत्वा पादौ परिक्रम्य बहुमानपुरः सरम् ॥
उवाच मधुरया वाचा प्रियं ते करवाम किम् ॥ ३५ ॥
॥ रविरुवाच ॥ ॥
क्व सानुसूर्या सावित्री ममानुप्रियकारिणी ॥
आगता ते गृहं तात मम मार्गानुमोदिनी ॥ ३६ ॥
॥ त्वष्टोवाच ॥ ॥
न जानीमो वयं तात प्रिया मे क्व गता सुता ॥
इत्युक्ते वचने त्वष्ट्रा रविर्दुश्चिन्तमानसः ॥ ३७ ॥
किं करोमि क्व गच्छामि क्व च प्रियतरा मम ॥
इति सम्भाषमाणे तु त्वष्टा वाक्यमथाब्रवीत् ॥ ३८ ॥
तव तेजः परिभ्रष्टा भग्ना क्वापि गताबला ॥
यदि ते वल्लभा भार्या तेजस्त्वं परिशामय ॥ ३९ ॥
॥ सूर्य उवाच ॥ ॥
यद्येवं दुस्सहं तेजो मम पूर्वपितामह ॥
तदा ते रोचते सम्यग्यथा स्याद्वै तथा कुरु॥5.1.56.४०॥
इति सूर्यवचः श्रुत्वा शाणं कृत्वा सुदर्शनम्॥
घृष्टितः क्षुरधारेण लघीयान्निर्मलोऽभवत्॥४१॥
तस्य घृष्टितमात्रेण त्वष्टा चक्रे विवस्वतः ॥
शाणं सुदर्शनं चक्रं सैकता मणिजातयः ॥ ४२ ॥
तदा त्वष्टाऽब्रवीद्वाक्यं मधुरं सूर्यसन्निधौ ॥
महाकाल वने रम्ये वडवारूपगीरणी ॥ ४३ ॥
गृह्यतां भोः सुरश्रेष्ठ शीघ्रं गच्छतु शाड्वले ॥
यत्र शिप्रा सरिच्छ्रेष्ठा यत्र क्षाता समागता ॥ ४४ ॥
उभयोः सङ्गमो यत्र तत्र मुक्तिर्न संशयः ॥
तत्र तां सुभगां पत्नीं प्राप्स्यसि त्वं न संशयः ॥ ४५ ॥
इति तस्य वचः श्रुत्वा सविता सर्वतापनः ॥
तत्रागमद्वनं यत्र महाकालस्य पावनम् ॥ ४६ ॥
क्षातासङ्गमसंयुक्ता यत्र शिप्रा पयस्विनी ॥
तत्र भुक्तिश्च मुक्तिश्च धनधान्यसमागमः ॥ ४७ ॥
तत्रागत्य प्रियां भार्यां वडवारूपधारिणीम् ॥
ददर्श तां पुनः श्यामां हरिरूपधरो हरिः ॥ ४८ ॥
नासिकाघ्राणमात्रेण यत्र जातौ सुतावुभौ ॥
दर्शनीयौ सुनृम्णाङ्गौ भिषजौ तौ दिवौकसाम् ॥ ४९ ॥
छाया च सुषुवे तत्र मिथुनं द्विजसत्तम ॥
तापीं शनैश्चरं चैव सर्वलोकप्रतापनम् ॥5.1.56.५०॥
शनि योगे यदामा वै जायते सर्वकामदा ॥
तदा स्नानं च दानं च श्राद्धं चैव तु कारयेत् ॥ ५१ ॥
तस्य हस्तगता लक्ष्मीर्जायते सर्वदा भुवि ॥
क्षाता सङ्गमे नरः स्नात्वा दानं दत्त्वा च शक्तितः ॥ ५२ ॥
स्थावरेशं समभ्यर्च्य तस्य पापक्षयो भवेत् ॥
सौरिः शनैश्चरो मन्दः कृष्णोऽनन्तोंऽतको यमः ॥ ५३ ॥
पिङ्गश्छायासुतो बभ्रुः स्थावरः पिप्पलायनः ॥
एतानि शनिनामानि प्रातःकाले पठेन्नरः ॥ ५४ ॥
तस्य शानैश्चरी पीडा न भवेत्तु कदाचन ॥
यमधर्मोऽपि चात्रैव तपस्तेपे सुदुस्तरम् ॥ ५५ ॥
यज्ञकुण्डोत्तरे भागे यत्र तिष्ठति मारुतिः ॥
धर्मसरेति विख्यातं नाम्ना तत्तीर्थमुत्तमम् ॥ ५६ ॥
यत्र सिद्धिं परां प्राप्तस्तपसा पवनात्मजः ॥
तस्मिंस्तीर्थे नरः स्नात्वा दत्त्वा वै कांस्यभाजनम् ॥ ५७ ॥
सवासो मणिमु क्ताभिः काञ्चनालङ्कृतं वरम् ॥
ब्राह्मणेभ्यः स्वलङ्कृत्य वेदविद्भ्यश्च सादरम् ॥ ५८ ॥
मातृलोकं समुत्तीर्णो ब्रह्मलोके महीयते ॥
श्रावणे मास्युभे पक्षे एकादश्यां तु यो नरः ॥ ५९ ॥
धर्मतीर्थे सदाचारी स्नानदानादिकाः क्रियाः ॥
करोति सततं तस्य विष्णुलोकः सनातनः ॥ 5.1.56.६० ॥
च्यवनाश्रमे नरः स्नात्वा च्यवनेश्वरं विलोकयेत् ॥
यत्र सिद्धिं गतौ पुण्यावश्विनौ भिषजां वरौ ॥ ६१ ॥
च्यवनस्य प्रसादेन देवपङ्क्तिमवापतुः ॥
च्यवनेन पुरा दृष्टिः प्राप्ता वै देवभेषजात् ॥ ६२ ॥
तस्मिंस्तीर्थे द्विजश्रेष्ठ दिव्यदृष्टिर्भवेन्नरः ॥
अत्रैव प्राप्तवान्सूर्यः साग्निहोत्राश्रमं परम् ॥ ६३ ॥
अनु सूर्यां महाभागां सावित्रीं लोकविश्रुताम्॥
सूर्यलोकं समासाद्य बुभुजे विपुलां श्रियम्॥६४॥
तस्माद्व्यास परं तीर्थं क्षातासङ्गमसञ्ज्ञितम्॥
सर्वपापहरं पुण्यं सर्वकामवरप्रदम्॥६५॥
य एतां तु कथां पुण्यां शृणोति भुवि भक्तितः॥
पठेद्वा प्रातरुत्थाय तस्य पुण्यफलं शृणु॥६६॥
कपिलागोसहस्रेण फलं भवति पर्वणि ॥
तत्फलं समवाप्नोति नात्र कार्या विचारणा ॥ ६७ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसा हस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये क्षातासङ्गममाहात्म्यवर्णनन्नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥ ॥ छ ॥