॥ व्यास उवाच ॥ ॥
कोऽसौ विन्ध्यगिरिर्ब्रह्मन्कदा काले समागतः ॥
महाकालवने रम्ये केन वा प्रेषितः पुरा ॥ १ ॥
॥ सनत्कुमार उवाच ॥ ॥
पुरा रेवाजलैर्व्यास प्लावितेयं वसुन्धरा ॥
तदा सर्वसुरैरेवमगस्तिर्मुनिसत्तमः॥२॥
आराधितो महाभागो धरणीत्राणकारणात्॥
तदागत्य गिरौ रम्ये विन्ध्ये स मुनिसत्तम ॥ ३ ॥
एकाग्रमानसो भूत्वा भवानीं विन्ध्यवासिनीम् ॥
आराधयामास तदा तां च देवीं वरेप्सया ॥ ४ ॥
कंसविद्रावणकरीमसुराणां क्षयङ्करीम्॥
भारावतारणीं पुण्यां बलदेवानुजां शुभाम् ॥ ५ ॥
यशोदागर्भसम्भूतां चाणूरबलमर्दिनीम्॥
विद्युदाभां नभःस्थां च कृष्णां कृष्णाहिमर्दिनीम्॥६॥
जननीं देवसेनस्य कवीनां वाचमीश्वरीम् ॥
गायत्रीं द्विजमुख्यानां व्याहृतिश्छन्दसां वराम् ॥ ७ ॥
सहस्राक्षीं तथेन्द्रस्य ऋषेश्चारुन्धतीं पराम् ॥
गवां कामदुघां श्यामां लतां मधुतमप्रियाम् ॥८॥
अदितिं सर्वमातॄणां पार्वतीं सर्वयोषिताम् ॥
ज्योत्स्नां चान्द्रमसीं बालां सर्वकामवरप्रदाम् ॥ ९ ॥
शारदीमृतुवेलायां वृन्दावनचरीं वराम् ॥
मायिनां वैष्णवीं मायां सर्वदैत्यविमोहिनीम् ॥ 5.1.55.१० ॥
लक्ष्मीं च श्रीमतामिष्टां यक्षिणीं धनदार्चिताम् ॥
महोदधीप्सितां वेलां राज्ञां च राजसम्पदम् ॥ ॥११॥
वेदिकां यज्ञशालानां हविराहवनीं शुभाम् ।
दक्षिणां सर्वदीक्षाणां सर्वकामफलप्रदाम् ॥१२॥
एवं स्तुता तदा देवी प्रत्यक्षा विन्ध्यवासिनी ॥
प्राह प्रसादसुमुखी ऋषीणां प्रवरं ह्यृषिम् ॥ १३ ॥
वियतां भो द्विजश्रेष्ठ यदस्मत्तोऽभिवाञ्छितम्॥
यदीप्सिता त्वया वत्स स्तुतिर्मे शुचिना कृता॥ ॥ १४ ॥
॥ अगस्तिरुवाच ॥ ॥
यदि मातर्वरो देयो देवानामुपकारिणि ॥
रेवेयं वर्द्धिता लोके सर्वलोकभयप्रदा ॥१५॥
तयेदं प्लावितं विश्वं तस्यास्तु ग्रहणं कुरु ॥
इति सा प्रार्थिता तेन तदा काले महर्षिणा ॥ १६ ॥
आगात्साध्वी तदा व्यास महाकालवनं शुभम्॥
सान्त्वपूर्वं वचस्तथ्यमगस्ति मिदमब्रवीत् ॥ १७ ॥
वारयिष्ये परां देवीं वर्धमानां द्रुतं ह्यृषे ॥
तावत्कालं न चोत्तिष्ठेद्विन्ध्यो नाम महागिरिः ॥ १८ ॥
यावत्त्रिकूटे द्वारे त्वं स्थास्य सि ऋषिसत्तम ॥
देवकार्योद्यतो नित्यं दक्षिणां दिशमुत्तमाम् ॥१९॥
कुशस्थली महापुण्या पवित्रा पापहारिणी ॥
पुरी ह्येषा मुनिश्रेष्ठ त्रिषु लोकेषु विश्रुता ॥
तत्रैवाहं चिरं कालं मातृभिर्निवसामि वै ॥ 5.1.55.२० ॥
तत्रापि त्वं सदा सिद्धक्षेत्राधिपत्यमाप्नुयाः ॥
मत्सरो निर्मलं पुण्यं विमलोदं च विश्रु तम् ॥ २१ ॥
यत्र पुण्यवतां वासो देव्यस्तिष्ठन्ति कोटिशः ॥
तस्मिंस्तीर्थे नराः स्नात्वा शुचीभूय समाहिताः ॥ २२ ॥
यजन्ति चैव मां भक्त्या धूपदीपाग्नितर्पणैः ॥
क्षीरखण्डाज्यभोज्यैश्च भोजयेद्विधिवद्द्विजान् ॥२३॥
न तेषां दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते ॥
धनधान्यधरैश्वर्यपुत्रदारादिसं पदाम् ॥ २४ ॥
प्राप्यन्ते विविधा भोगा देवानामपि दुर्लभाः ॥
शत्रुतो न भयं तेषां दस्युभ्यो वा न राजतः ॥ २५ ॥
न शस्त्रानलतोयौघात्कदा चित्सम्भविष्यति ॥
दीर्घायुर्बुद्धिमाल्ँलोके उषित्वा शाश्वतीः समाः ॥ २६ ॥
सर्वपापविशुद्धात्मा मृतः शिवपुरं व्रजेत् ॥
एवं व्यास पुरीं प्राप्य रम्यां चोज्जयिनीं शुभाम् २७॥
समाश्रिता तदा देवी सततं विन्ध्यवासिनी ॥
तस्मिंस्तीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥ २८ ॥
स्त्रियो वा रजो दोषार्ता वन्ध्याः काकबकादिकाः॥
दुर्भगाः शीलहीनाश्च सर्वकामविवर्जिताः॥२९॥
विमलोदेऽपि ताः स्नात्वा दृष्ट्वा वै विन्ध्यवासिनीम्॥
मुच्यन्ते सर्वदो षैस्ता नात्र कार्या विचारणा ॥ 5.1.55.३० ॥
अपुत्रा प्राप्नुयुः पुत्रान्कन्या वीरपतिं वरम् ॥
प्राप्यते सर्वसौभाग्यं सर्वकामवरप्रदम् ॥ ३१ ॥
विद्यावाञ्जायते विप्रः क्षत्रियो विजयी भवेत् ॥
वैश्यश्च बहुलाभाढ्यः शूद्रः सुखमथाश्नुते ॥ ३२ ॥
कथां पुण्यवतीमेतां सर्वकामवरप्रदाम्॥
पठन्वाप्यथवा शृण्वन्गोसहस्रफलं लभेत् ॥ ३३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये विन्ध्यवासिनी विमलोदतीर्थमाहात्म्यवर्णनन्नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥ ॥ छ ॥