॥ व्यास उवाच ॥ ॥
भूयस्तु श्रोतुमिच्छामि त्वत्तो ब्रह्मविदांवर ॥
नीलगङ्गा कदा ब्रह्मञ्छिप्राकुण्डे समागता ॥ १ ॥
॥ सनत्कुमार उवाच ॥ ॥
शृणु व्यास महातीर्थं सर्वतीर्थफल प्रदम् ॥
नीलगङ्गां नरः स्नात्वा सङ्गमेश्वरमर्चयेत् ॥ २ ॥
दुःसङ्गसम्भवा दोषा न भवन्ति कदाचन ॥
एकदा ब्रह्मलोके वै गङ्गा त्रिपथगा नदी ॥ ३ ॥
गता पुनन्ती त्रील्लोकान्नीलवासा शुचार्दिता ॥
भगवन्किमिदं जातं पातकं मे कृतं पुरा ॥ ४ ॥
दुष्टाचारापराधेन येनेमां प्रापिता दशाम् ॥
सर्वलोकेषु यत्किञ्चिजनानां पातकं भुवि ॥ ५ ॥
तत्सर्वं तिष्ठति मयि सर्वेषामपि देहिनाम् ॥
तेनाहं वै भराक्रान्ता नो शक्या चलितुं धराम् ॥ ६ ॥
नीलभासा विवर्णा च सर्वधर्मबहिर्मुखा ॥
यत्किञ्चित्क्रियते कर्म शुभं वा यदि वाऽशुभम्॥७॥
मयि त्यक्त्वा पुनन्तीह जन्तवः सर्वशोऽमलाः ॥
तिष्ठन्ति पुण्यलोकेषु भुक्तिमुक्तिप्रदेषु च ॥ ८ ॥
अस्माकं च महत्कष्टं जातं धातः परं मलम् ॥
न हि शर्म न वै शान्तिर्न निद्रा न च निर्वृतिः ॥ ९ ॥
न लोके च स्थितिर्मेद्य पापिष्ठायाः सनातनी ॥
दुष्टसङ्गोद्भवैदोंषैः प्लाविताहं जगद्गुरो ॥5.1.54.१०॥
किं करोमि क्व गच्छामि येन शान्तिर्भवेन्मम ॥
किं तपः किं च दानं मे किं तीर्थं किं च साधनम्॥ ११ ॥
येनाहं पापलिप्ताङ्गी पुनः प्रकृतिमाप्नुयाम् ॥
एवं ज्ञात्वा महायो गिन्यथा योग्यं तथा कुरु ॥ १२ ॥
॥ ब्रह्मोवाच ॥ ॥
श्रूयतां भोः सरिच्छ्रेष्ठे कारणं पापनाशनम् ॥
महाकालवने रम्ये पुरी ह्येषा ऽमरावती ॥ १३ ॥
तत्र शिप्रा सरिच्छ्रेष्ठा वर्तते भुवि पावनी॥
तस्या दर्शनमात्रेण सर्वपापक्षयो भवेत् ॥ १४ ॥
तत्र गच्छ महाभागे सद्यश्चात्म विशुद्धये ॥
ब्रह्मणेति समाख्यातं श्रुत्वा गङ्गा सरिद्वरा ॥ १५ ॥
तमभिज्ञाय सम्प्राप्ता महाकालवनं शुभम् ॥
पुष्करस्याग्निभागे च यत्र देवो मरुत्सुतः ॥ १६ ॥
विन्ध्यस्य चोत्तरे भागे अञ्जन्याश्रममुत्तमम्॥
सा पुत्रेण तपस्तेपे पवित्रा ब्रह्मचारिणी ॥ १७ ॥
पतिव्रताभिः सर्वाभिः पतिभिर्ब्रह्मचारिभिः ॥
देवाङ्गनाभिर्बहुभिः क्रीडद्भिर्बालकुञ्जरैः ॥ १८ ॥
सरसीफुल्लकल्हारैर्मत्तालिकुलनादितैः ॥
निर्वैरजन्तुभिः सेव्यं ब्रह्मर्षिगणसे वितम् ॥ १९ ॥
मनोह्रादकरं पुण्यं पवित्रं पापनाशनम् ॥
तत्र प्रवेशमात्रेण नीलवासाः सरिद्वरा ॥ 5.1.54.२० ॥
शुक्लवासाऽभवत्सद्यो नष्टपापमला ऽशुभा ॥
शरच्चन्द्रनिभाकारा धूतपापा पयस्विनी ॥ २१ ॥
तत्रैव चाश्रमं चक्रे मनःसंहर्षकारणम् ॥
तत्प्रभृति समाख्यातं सर्वलोकेषु पुण्यदम् ॥ ॥ २२ ॥
नीलगङ्गेति वै व्यास तीर्थं किल्विषनाशनम् ॥
अस्मिंस्तीर्थे नरः स्नात्वा हनुमन्तमथार्चयेत् ॥ २३ ॥
तस्य सिद्धिः करगता भविष्यति न संशयः ॥
आश्विने मासि सम्प्राप्ते कृष्णपक्षे समाहितः ॥२४॥
दर्शे पितॄन्समुद्दिश्य श्राद्धं कुर्यान्महालयम् ॥
तारितं च कुलं सर्वं तेनात्मैकोत्तरं शतम् ॥ २५ ॥
समगोत्रेषु ये जाताः पूर्वजा निरयवासिनः ॥
ते सर्वे सद्गतिं यान्ति तेषां लोकाः सनातनाः ॥ २६ ॥
स्नात्वा तिलाञ्जलिं दद्यात्पितॄ नुद्दिश्य तत्परः ॥
अक्षया जायते तृप्तिः स्वर्गलोके महीयते ॥ २७ ॥
भोजयेद्ब्राह्मणान्सप्त श्राद्धं कृत्वा तु पायसैः ॥
अक्षयं लभते श्राद्ध मश्वमेधफलं भवेत् ॥ २८ ॥
तीर्थं पुण्यतरं व्यास शृणु चान्यद्वदामि ते ॥
दुग्धकुण्डमिति ख्यातं त्रिषु लोकेषु विश्रुतम् ॥ २९ ।
सर्वपापहरं पुण्यं सर्वकामवरप्रदम्॥
पुरा दुग्धधरा देवी पृथुना धर्ममूर्तिना॥ 5.1.54.३० ॥
दुग्धं सर्वं हविर्भाव्यं सर्वेषां जीवनप्रदम् ॥
दत्तं निधाय कुण्डेस्मिंस्तेन दुग्धसरः स्मृतम् ॥ ३१ ॥
कुण्डे स्नात्वा पयः पीत्वा दत्त्वा गां च पयस्विनीम् ॥
सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः ॥ ॥३२ ॥
जायते सर्वकालेषु मृतः स्वर्गपुरं व्रजेत् ॥
ततः पुष्करमासाद्य स्नानदानादिकं चरेत् ॥ ३३ ॥
सर्वपापविशुद्धात्मा पुष्करस्य फलं लभेत् ॥ ३४॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये नीलगङ्गामाहात्म्यवर्णनन्नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ ५४ ॥ ॥ छ ॥