०५३ सुन्दरकुण्डपिशाचमोचनतीर्थमाहात्म्यवर्णनम्

॥ सनत्कुमार उवाच ॥ ॥
पृथिव्यां यानि तीर्थानि तानि सर्वाणि सुव्रत ॥
अवन्त्यां सुन्दरे तीर्थे तिष्ठन्ति सर्वदा भुवि ॥ १ ॥
॥ व्यास उवाच ॥ ॥
किमिदं सुन्दरं कुण्डं कदाकालेऽभवत्क्षितौ ॥ ॥
निर्मितं केन को देवः किं वा तस्य फलं स्मृतम् ॥ २ ॥
॥ सनत्कुमार उवाच ॥ ॥
शृणु पुण्यतमे क्षेत्रे सुन्दराख्यं यदा ऽभवत् ॥
सर्वपापप्रशमनं वाञ्छितार्थफलप्रदम् ॥ ३ ॥
यस्य श्रवणमात्रेण ब्रह्महत्या व्यपोहति ॥
अश्वमेधादिकं पुण्यं वाजपेयश ताधिकम् ॥ ४ ॥
पुरा कल्पक्षये व्यास नष्टकल्पा च मेदिनी ॥
प्रचण्डवातवर्षाभ्यां चूर्णितो मेरुपर्वतः ॥ ५ ॥
तदात्र पतितं व्यास वैकुण्ठशिखरोत्तमम् ॥
महाकालवने घोरे गुह्ये चाव्ययके ध्रुवे ॥ ६ ॥
तत्क्षणात्पतिते शृङ्गे कुण्डं जातं सुनिश्चितम् ॥
रत्नसोपानमच्छोदं मुक्तासैकतपूरितम् ॥ ७ ॥
जाम्बूनदकरारोहं हेमपद्मविराजितम् ॥
कल्पद्रुमकृतच्छायं चिन्तामणिसमुच्छ्रितम् ॥ ८ ॥
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥
बीजौषधिगणाकीर्णं सर्वतत्त्वाभिसंयुतम् ॥ ९ ॥
कल्पक्षये न क्षीयन्ते यानि तत्त्वानि सर्वशः ॥
तानि तत्र प्रतिष्ठन्ति मूर्तिमन्ति पराणि च ॥ 5.1.53.१० ॥
वेदशास्त्रपुराणानि गाथागीतिक्षराक्षराः ॥
ॐकारश्च वषट्कारो गायत्री त्रिपदा परा ॥ ॥११ ॥
कलाः काष्ठा मुहूर्ताश्च लवत्रुटिपलं घटिः ॥
अहर्निशश्च यामाश्च पक्षमासावृतुस्तथा ॥ १२ ॥
संवत्सरयुगाश्चैव कुण्डे तिष्ठन्ति मूर्तितः ॥
देवा यक्षाश्च नागाश्च गुह्यकाः किन्नरास्तथा ॥ १३ ॥
गन्धर्वाप्सरसो यक्षाः सिद्धाः किम्पुरुषास्तथा ॥
उपासाञ्चक्रिरे तस्य कल्पदोषभयातुराः ॥ १४ ॥
ब्रह्मा रुद्रश्च कालश्च लोकपाला महौजसः ॥
केचिद्ध्यानपराः सिद्धास्तापसाः शंसितव्रताः ॥ १५ ॥
तिष्ठन्ति बहुयुग व्यास यावत्कल्पः समाप्यते ॥
सुदर्शनसमाकारं पूरितं चामृताम्बुभिः ॥ १६ ॥
दिव्यपादपसंयुक्तं पारिजातगुणान्वितम् ॥
दिव्यस्त्रीस्नानगन्धोदैर्वासितोद्गारिसौरभम्॥ १७ ॥
क्वचिन्मयूरा नृत्यन्ति क्वचित्कूजन्ति कोकिलाः ॥
क्वचित्केकारवाः क्वापि मेघघोषसमाकुलम् ॥ ॥ १८ ॥
सुन्दरं सुन्दराकारं सुन्दरं तेन चोच्यते ॥
बहुपुण्यकरं व्यास सर्वपापहरं परम् ॥ १९ ॥
यत्र सन्निहितो विष्णुः शिवः शक्त्या युतो वशी ॥
उपासाञ्चक्रिरे शश्वत्सर्वकालेषु सर्वदा ॥ 5.1.53.२० ॥
पक्षार्धं पक्षमेकं च सुन्दरकुण्डे नरो वसेत् ॥
वैकुण्ठे नियतं वासो यावत्कल्पशतं भवेत्॥ २१ ॥
पक्षिकीटपतङ्गाश्च मृता यान्ति शिवालयम् ॥
किं पुनर्मानवा लोके स्नानपूताश्च तत्र वै ॥ २२ ॥
ये ददति तिलान्धेनुं गजवा जिरथावनीः॥
दासीर्दासान्सुवर्णं च रत्नानि विविधानि च ॥२३॥
शय्यादानविमानानि दानानि विविधानि च ॥
न तेषां दानजं वेद्मि कीदृग्व्यास फलं भवेत्॥ २४ ॥
भूयः शृणु परं व्यास सुन्दरकुण्डफलं स्मृतम्॥
एकदा बहुपापेन पतितः पापयोनिषु ॥ २५ ॥
पिशाचो मोक्षमापन्नः शिव रूपधरो गतः॥
पिशाचमोचने स्नात्वा दृष्ट्वा देवं महेश्वरम्॥२६॥
मुच्यते सर्वपापेभ्यो यद्यपि ब्रह्महा भवेत्॥२७॥
॥व्यास उवाच॥
कोऽसौ पिशाच इति ख्यातः किं तेन दुष्कृतं कृतम् ॥
येन पापप्रसङ्गेन पिशाचत्वमुपागतः ॥ २८ ॥
कथं तीर्थप्रसङ्गोऽस्य जातो वै द्विज सत्तम ॥
एतद्वेदितुमिच्छामि त्वत्तो ब्रह्मविदांवर ॥ २९ ॥
॥ सनत्कुमार उवाच ॥ ॥
शृणु व्यास महाख्यानं तीर्थमाहात्म्यमुत्तमम् ॥
यस्य श्रवणमात्रेण सर्वपापक्षयो भवेत् ॥5.1.53.३०॥
ब्राह्मणो देवलो नाम दाक्षिणात्यो द्विजाधमः ॥
सदा पापरतो लोभी कूटसाक्षी च लम्पटः ॥ ३१ ॥
गुरुद्रोही कितवो धूर्तो गुरुहा गुरुतल्पगः ॥
हेमहारी सुरापी च ब्रह्महा स्वामिद्रोहकः ॥ ३२ ॥
अभक्ष्यभक्षकश्चैव वेदशास्त्रविवर्जितः ॥
अनेकजन्मार्जितपापी सर्वधर्मबहिष्कृतः ॥।३३ ॥
विश्वासघातको मानी चोरसङ्गरतः खलः ॥
देशान्तरगतो मन्दश्चौरकार्यार्थसाधकः ॥ ३४ ॥
बहवो निहता मार्गे पापाचारेण जन्तवः॥
मगधे स गतो दुष्टः प्रसङ्गात्पापकारिणाम्॥३५॥
तत्रैको ब्राह्मणो दान्तो वेदवेदाङ्गपारगः ॥
साग्निकः शुद्धसत्त्वस्थो ब्रह्मकर्मरतः सदा ॥ ३६ ॥
श्वशुरगृहे स्थिता भार्या तामादाय यशस्विनीम् ॥
चलितो यानमारुह्य तेन पापेन घातितः ॥ ३७ ॥
तस्य स्त्री च वरारोहा रूपलावण्यशालिनी ॥
पतिव्रता महाभागा दृढचित्ता शुचिस्मिता ॥ ३८ ॥
हते भर्तरि दुःखार्ता पतिविरहकातरा ॥
वने घोरे परिभ्रष्टा काष्ठान्यादाय भामिनी ॥ ३९ ॥
आरुरोह चितां दीप्तां पतिना हृष्टमानसा ॥
स च दुष्टतरः सर्वं तस्य विप्रस्य जीवनम् ॥ 5.1.53.४० ॥
गृहीत्वा चलितो मार्गे गृहीतो राजकिङ्करैः ॥
बन्धयित्वा च तैः सर्वैस्तेन वित्तेन वै सह ॥
नीतोऽसौ राजभवनं निवेदितो राजसन्निधौ ॥४१॥
पातितो वै गले बद्ध्वा रज्जुना वृक्षकोटरे ॥
चाण्डालैर्घृष्टितो भूमावितस्ततः श्वपाकिभिः ॥ ४२ ॥
तेन कर्मविपाकेन रौरवं नरकं गतः ॥
षष्टिवर्षसहस्राणि विष्ठायां कृमितां गतः ॥ ४३ ॥
ततोऽन्यं नरकं प्राप्तो यमशासनकारकैः ॥
असिपत्रवनं घोरमायसं तप्तसायकम् ॥ ४४ ॥
मुद्गरैस्ताड्यमानो हि शृङ्खलाभिश्च किङ्करैः ॥
कुम्भीपाकगतौ रौति वैतरण्यां सुपीडितः ॥ ४५ ॥
एवं बहुविधान्कुण्डान्भुक्त्वा पापी नवान्नवान् ॥
ततः प्रेतत्वमापन्नो युगानां पञ्चसप्ततिम् ॥ ४६ ॥
महाकायो महारावो महोदरः सूचीमुखः ॥
क्षुत्तृड्भ्यां च पराक्रान्तो मरुदेशं समाश्रितः ॥ ४७ ॥
ततः कष्टतरां प्राप्य पैशाचीं तनुमाश्रितः ॥
कुटिलो दुष्टभावश्च दुष्टचारी दिगम्बरः ॥ ४८ ॥
विण्मूत्रदूषितोच्छिष्टपूतिपर्युष्टभोजनः ॥
श्मशानोच्छिष्टभोजी च कृत्तिवासा विलोचनः ॥ ४९ ॥
भग्नवापीतडागे च शुष्कवृक्षे निरूदके ॥
प्राकारपरिखागारे शून्यागारे नदीतटे ॥ 5.1.53.५० ॥
निवासो रोचते तस्य सर्वदा सर्वसन्धिषु ॥
एवं बहुयुगे याते महाकालवने गतः ॥ ५१ ॥
यत्र माहेश्वरं लिङ्गं सुन्दरं कुण्डमुत्तमम् ॥
तत्रोषितत्वमात्रेण सिंहेन विनिपातितः ॥ ५२ ॥
घातयित्वा च तं पापं जलार्थी कुण्डमाविशत् ॥
दंष्ट्रान्तरगतं चास्थ्यपतत्तस्य मुखाज्जले ॥ ५३ ॥
तेन पुण्यप्रभावेन सर्वपापं क्षयं गतम् ॥
मृतमात्रे च लिङ्गं तन्नेत्रान्तरगतं तदा ॥ ५४ ॥
हित्वा पैशाचकं देहं ज्योतिस्तल्लिङ्गमाविशत्॥
तदारभ्य परं व्यास तीर्थं पैशाचमोचनम्॥ ॥५५ ॥
पिशाचमोचनेशेति देवः ख्यातिं ततो गतः ॥
तावद्गर्जन्ति पापानि मदोन्मत्तगजा यथा॥५६ ॥
यावन्नायाति शिप्रायास्तीर्थे पैशाचमो चने ॥
पिशाचमोचने स्नात्वा शुचिर्भूत्वा समाहितः ॥ ५७ ॥
पिशाचमोचनं देवं पूजयित्वा यथाविधि ॥
सर्वपापविशुद्धात्मा जायते नात्र संशयः ॥ ५८ ॥
पिशाचमोचने व्यास महादानानि कारयेत् ॥
न तस्य पुनरावृत्तिः शिवलोकात्कदाचन ॥ ५९ ॥
पिशाचमोचनकथां पवित्रां पापहारिणीम् ॥
यः पठेच्छणुयाच्चैव हयमेधफलं लभेत् ॥ 5.1.53.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽव न्तीक्षेत्रमाहात्म्ये सुन्दरकुण्डपिशाचमोचनतीर्थमाहात्म्यवर्णनन्नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥