॥ सनत्कुमार उवाच ॥ ॥।
भूयः शृणु महाभाग शिप्रामाहात्म्यमुत्तमम् ॥
यस्य श्रवणमात्रेण हयमेधफलं भवेत् ॥ १ ॥
शिप्रा च सर्वतः पुण्या पवित्रा पापहारिणी ॥
अवन्त्यां च विशेषेण शिप्रा चोत्तरवाहिनी ॥ २ ॥
तथापि तत्समुत्पत्तिं विस्तराद्गदतो मम ॥
यथा वाराहतनया विष्णुदेहोद्भवा शिवा ॥
शृणु व्यास महापुण्यां कथां पौराणिकीं शुभाम् ॥९३ ॥
पुरा महासुरो जातो हिरण्याक्षो महाबलः ॥ ४ ॥
स चेमां सकलां पृथ्वीं वशीकृत्वा चकार ह ॥
राज्यं च सार्वभौमानां दानवैश्च दुरात्मभिः ॥ ५ ॥
जित्वा च सकलाल्ँलोकान्सुरानिन्द्रपुरोगमान् ॥
दिक्पालान्वसुपालांश्च तिरस्कृत्यसुरा धिपः ॥ ६ ॥
स सर्वान्सर्वलोकेभ्यः स्वयमेवाधितिष्ठति ॥
स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि ॥ ७ ॥
विचरन्ति यथा मर्त्या भ्रष्टराज्याः पराजिताः ॥
अलब्धशरणाः सर्वे ब्रह्माणं शरणं ययुः ॥ ८ ॥
तत्र गत्वा नमस्कृत्य दैत्यकृत्यं न्यवेदयन् ॥
भगवन्किमिदं कार्यं भवता परमेष्ठिना ॥ ॥ ९ ॥
येन देवगणाः सर्वे नष्टप्रायाश्च तत्क्षणात् ॥
हिरण्याक्षेण दैत्येन हृतं स्वर्गमकण्टकम् ॥ 5.1.52.१० ॥
यज्ञभागांश्च वै सर्वानुपाश्नाति पृथक्पृथक् ॥
केनोपायेन जीवाम कथं तिष्ठाम भूतले ॥ ११ ॥
इति विक्लवितं तेषां देवानां स पितामहः ॥
उवाच वचनं रम्यं तत्कालसमयोचितम् ॥ १२ ॥
॥ ॥ ब्रह्मोवाच ॥ ॥
शृणुध्वं भोः सुरश्रेष्ठा यूयं सर्वे समाहिताः ॥
पुरायं पार्षदश्रेष्ठो द्वारपालः समाहितः ॥ १३ ॥
वैकुण्ठभवने रम्ये विष्णोरतुलतेजसः ।
जयोनाम महाबाहुर्विजयेन समन्वितत॥ १० ॥
द्वावेव सचिवौ दान्तौ विष्णुवेषधरावुभौ॥
आत्तयष्टी च विक्रान्तौ द्वारे सन्तिष्ठतः सदा ॥ ॥१५॥
एकदा वै मुनिश्रेष्ठ ब्रह्मणो मानसात्मजाः॥
स्वैरं चरन्तो लोकानां विष्णोर्भवनमागताः ॥१६॥
सनकादयो महाभागा भगवद्दर्शनलालसाः॥
ताभ्यां निवारिताः सर्वे पेतुर्वै धरणीतले ॥ १७ ॥
मुमुहुश्च तदा व्यास कुमारा भृशदुःखिताः ॥
ततोऽगात्स महाबाहुर्भगवान्कमलेक्षणः ॥ १८ ॥
ददर्श सहसा विष्णुः कुमारान्भुवि दुःखितान् ॥
उत्थाप्याङ्कं समारोप्य सस्वजे मधुसूदनः ॥ १९ ॥
मूर्ध्नि चाघ्राय बाहुभ्यां परिष्वज्य ह्युवाच ह॥
कस्माद्वः कश्मलमिदं केनापि दुःखिता भृशम् ॥ 5.1.52.२० ॥
सर्वं तत्कारणं बाला ब्रूत नो धर्मवित्तमाः ॥ २१ ॥
॥ कुमारा ऊचुः ॥ ॥
श्रूयतां भो महाराज अस्माकं दुःखमीदृशम् ॥
येन प्राप्ता वयं ब्रह्मन्दशामेतां शृणुष्व ह ॥ २२ ॥
आयाता भ्रातरो ह्येते चत्वारो लोकपर्यटाः ॥
दर्शनार्थं रमानाथ साभिलाषाः शुचार्दिताः ॥ २३ ॥
निवारिताश्च सहसा ताभ्यां वै द्वारपालनात् ॥
तेनैवेयं दशा प्राप्ता भवता परिपालिताः ॥ २४ ॥ ॥
॥ भगवानुवाच ॥ ॥
अतः प्रभृति स्थानेस्मिन्स्थितिर्नास्ति च शाश्वती ॥
एतयोरासुरी योनिः प्राप्स्यते यन्ममाहितौ ॥ २५ ॥
सद्यः प्राप्तौ तदा व्यास आसुरीं योनिमेव तौ ॥
जयविजयनामाख्यौ दुष्टभावसमाश्रितौ ॥ २६ ॥
जन्मान्तरसहस्रेण तपोदानसमाधिभिः ॥
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥ २७ ॥
दुष्टभावेन सद्यो वै जन्मभिर्जायते त्रिभिः ॥
भविष्यति च तस्माद्वो विष्णुभक्तिः परा स्मृता ॥२८॥
जन्मजन्मान्तरे जातौ तामसीं योनिमुद्धतौ ॥
हिरण्यकशिपुश्चैव हिरण्याक्षो महाबलः ॥ २९ ॥
तथैव कुम्भकर्णाख्यो रावणो लोकरावणः ॥
दन्त वक्त्रः शिशुपालश्च जन्मत्रयमिति स्मृतम् ॥ 5.1.52.३० ॥
योऽसौ महाबली दैत्यो हिरण्याक्ष इति स्मृतः ॥
दुष्टभावसमापन्नो देवब्राह्मणनिन्दकः ॥ ॥ ३१ ॥
जित्वा च सकलान्देवान्स्वयमेवाधितिष्ठति ॥ ३२ ॥
स्वर्गान्निराकृताः सर्वे भ्रष्टराज्याः पराजिताः ॥
विचरन्ति यथा मर्त्यास्तेन देव गणा भुवि ॥ ३३ ॥
स्वधाकारो वषट्कारः स्वाहाकारो न दृश्यते ॥
देवपूजार्चनं नास्ति ब्राह्मणानां विशेषतः ॥ ३४ ॥
नैव तीर्थं प्रकाशेत पुण्यान्यायतनानि च ॥
आश्रमेषु च सर्वेषु ऋषीणां च महात्मनाम् ॥ ३५ ॥
उद्वृत्तं च प्रकुर्वन्ति दुष्टदैत्याः प्रहारिणः ॥
वर्णाश्रमवतां धर्माः स्त्रीणां चैव सुशीलता॥ १८ ॥
उच्छिन्ना हि तदा जातास्तस्मिन्राज्ञि दुरात्मनि ॥
दुष्टाचारा दुरात्मानो मायिनो बहुमानिनः ॥ ३७ ॥
पाखण्डिनोऽपरा क्रान्ताः सर्वे धर्मबहिर्मुखाः ॥
पशुधर्मरताः सर्वे सर्वे ब्रह्मेतिशंसिनः ॥ ३८ ॥
बहुम्लेच्छा बहुक्लेशा बह्वाबाधावनी कृता ॥
को वेदः का स्मृतिः को यज्ञः का च दक्षिणा ॥ ३९ ॥
तमीभूतं जगत्सर्वं दृश्यते वसुधातले ॥
एवं व्यास यदा जातं दुष्टं सर्वं जगत्त्रयम् ॥ 5.1.52.४० ॥
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ॥
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ४१ ॥
इति ज्ञात्वा महाविष्णुर्वाराहं वपुरात्मवान् ॥
दधार लीलया दिव्यं श्वेतद्वीपोपमं शुभम् ॥ ४२ ॥
यूपदंष्ट्रो हविर्गन्धो बीजौषधितनूरुहः ॥
वेदपादः शुचिर्दण्डी जिह्वाग्निस्तालुकाहुतिः ॥ ४३ ॥
अन्तरास्यरुचादार्ढो यज्ञकायः सुदक्षिणः ॥
उद्गानघुर्घुरोन्नादो विहार ऋत्विजाकृतिः ॥ ४४ ॥
हौत्रश्वासपरो दक्षसदस्यावयवः स्मृतः ॥
पुच्छ कर्माशनो नित्यं यजमानसुमानदः ॥ ४५ ॥
वेदिपल्वलसंस्तारो ब्रह्माध्वर्युर्वनाकरः ॥
लोककल्पो लोकसाक्षी परावरवहः शुचिः ॥ ४६ ॥
आद्यः पुरुष ईशानः पुरुहूतः पुरुष्टुतः ॥
तेनासौ निहतो दैत्यो हिरण्याक्षो दुरासदः ॥ ४७ ॥
सङ्ग्रामान्सुबहून्कृत्वा बहुकष्टेन विष्णुना ॥
दैत्येन पीडिता पृथ्वी रसातलतलङ्गता ॥ ४८ ॥
उद्धृता च वराहेण दंष्ट्रया चन्द्ररेखया ॥
हतास्ते दानवाः सर्वे शेषाः पातालमाययुः ॥ ४९ ॥
ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ॥
जज्वलुश्चाग्नयः शान्ताः शान्ता दिग्जनितस्वनाः ॥ 5.1.52.५० ॥
सरितो मार्गवाहिन्यः सागराः प्रकृतिं गतः ॥
दृष्ट्वा देवोऽखिलं व्यास प्रसन्नात्मा बभूव ह ॥ ५१ ॥
वाराहमूर्तिर्भगवान्सर्वकामफलप्रदः ॥
आनन्दनिर्भरो देवो हतदैत्यो वरप्रदः ॥ ५२ ॥
तस्यापि हृदयाज्जाता नदी ह्येषा सनातनी ॥
आनन्दजलसम्पूर्णा सर्वानन्दवरप्रदा ॥५३॥
बहुयोजनविस्तारा बहुला कामचारिणी ॥
पद्माकरसमाकीर्णा हंसकारण्डसङ्कुला ॥५४॥
सरला तरलच्छाया यक्षगन्धर्वसेविता ॥
किन्नरीगीयमाना च गीयमाना खगालिभिः ॥५५॥
अप्सरोभिर्नृत्यमाना स्तूयमाना महर्षिभिः॥
हूयमाना हुताग्निभी राजर्षिभिः समाश्रिता ॥ ५६ ॥
तुङ्गस्तनभराक्रान्तयोषिद्भिः क्रीडितान्तरा ॥
क्वचित्कीरवरान्दोलै रम्यमाणा विराजिता ॥५७॥।
वेदविद्भिर्द्विजैः सेव्या ऋषिभिस्संशितात्मभिः ॥
सर्वदा सर्वकाले च सिद्धैः सिद्धिप्रदा नृणाम् ॥ ५८ ॥
महाकालवने रम्ये रम्या पद्मावती पुरी ॥
सुन्दरं कुण्डमपरं रम्यं प्राचीनकं शुभम् ॥ ५९ ॥
यत्र स्नात्वा नरा यान्ति शिवलोकं सनातनम् ॥
यत्र नीला परा व्यास शिप्रा वै लोकपावनी ॥ 5.1.52.६० ॥
वाराहेण कृतं सर्वं दुष्टदैत्यनिबर्हणम् ॥
तेन देवा निरातङ्काः कृता वाराहमूर्तिना ॥ ६१ ॥
कृतप्राञ्जलयः सर्वे देवा इन्द्रपुरोगमाः ॥
स्तुतिं कृत्वा महाविष्णोः सततं पुरतः स्थिताः ॥ ६२ ॥
देवदेव जगन्नाथ पुण्यश्रवणकीर्तन ॥
किं दानं किं तपः पुण्यं किं तीर्थं का च देवता ॥ ॥ ६३ ॥
येन पुण्यप्रभावेन पुनः स्वर्गो ह्यवाप्स्यते ॥
एतन्निश्चित्य नो ब्रूहि सर्वं गुह्यतरं विभो ॥ ६४ ॥
॥ विष्णुरुवाच ॥ ॥
शृणुध्वं भोः सुराः सर्वे युष्माकं सिद्धिकारणम् ॥
गुह्याद्गुह्यतरं पुण्यं महाकालवनं शुभम् ॥ ६५ ॥
मम देहोद्भवा शिप्रा यत्र लीना पयस्विनी ॥
नीलगङ्गा सरिच्छ्रेष्ठा यत्र प्राची सरस्वती ॥ ६६ ॥
पुष्करं च गयातीर्थं पुरुषोत्तमसरः शुभम् ॥
तत्रैव गच्छत क्षिप्र पुनर्लोकानवाप्स्यथ ॥ ६७ ॥
इति श्रुत्वा परं वाक्यं देवदेवजगद्गुरोः ॥
तत्र देवगणाः सर्वे ब्रह्मशक्रपुरोगमाः ॥ ६८ ॥
महाकालवने रम्ये यत्र शिप्रा सरिद्वरा ॥
स्नानदानादिकं कृत्वा श्राद्धं कृत्वा यथोचितम् ॥ ६९ ॥
तेन पुण्यप्रभावेन स्वकाल्ँलोकान्गताः सुराः ॥
एवं व्यास समाख्याता शिप्रा वै लोकपावनी ॥ 5.1.52.७० ॥
जातं सरो वराहस्य विष्णोरतुलतेजसः ॥
यस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति ॥ ७१ ॥
अत्र स्नात्वा पयः पीत्वा श्राद्धं कृत्वा यथोचितम् ॥
पयस्विनीं च गां दत्त्वा विष्णुलोके महीयते ॥ ७२ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्ती क्षेत्रमाहात्म्ये शिप्रामाहात्म्यवर्णनन्नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥ ॥ छ ॥