॥ सनत्कुमार उवाच ॥ ॥
शृणु व्यास महाबुद्धे शिप्रामाहात्म्यमुत्तमम् ॥
यथाऽमृतभवा ख्याता पाताले नागसम्मते ॥१॥
एकदा रुद्रो भिक्षार्थं नागलोके बुभुक्षितः ॥
करे कपालमादाय भोगवत्यां समागतः ॥ २ ॥
भिक्षां देहि वचो दीनं वाचयित्वा गृहेगृहे ॥
भिक्षा केनापि नो दत्ता क्षुधितस्य च धूर्जटेः ॥ ३ ॥
तदा क्रोधाभिरक्ताक्षः शूलपाणिः क्षुधार्दितः ॥
भ्रामयित्वा पुरीं सर्वां शनैर्बहिर्विनिर्ययौ ॥ ४ ॥
एकविंशतिकुण्डानि पीयूषस्य द्विजोत्तम ॥
यत्र तिष्ठन्ति सर्वाणि नागलोकस्य रक्षणे ॥ ५ ॥
तत्र गत्वा स भगवाञ्छम्भुः सर्वात्मसम्भवः ॥
अपिबन्नेत्रमार्गेण तृतीयेन च शङ्करः ॥ ६ ॥
रिक्तानि पीयूषकुण्डानि कृत्वा तत्रैव सोत्थितः ॥
कम्पितश्च तदा लोको नागानां सर्वतोमु खम् ॥ ७ ॥
कस्येदं कर्म किं जातं सुधा यस्मादितो गता ॥
इत्युक्ता चैव ते सर्वे नागा वासुकिपुरोगमाः ॥ ८ ॥
महदतिक्रमणे शङ्काः पुरात्ते निर्ययुर्बहिः ॥
किं कुर्वाम क्व गच्छाम कस्येदं हेलनं कृतम् ॥ ९ ॥
येनास्माकं कोपितेन हृतं चामृतमुत्तमम् ॥
अस्माकं जीवनं तस्मात्कथं जीवाम पन्नगाः ॥ 5.1.51.१० ॥
इत्युक्त्वा पन्नगाः सर्वे सस्त्रीबालपरिग्रहाः ॥
हरिं च जग्मुः शरणं मनसा परिशङ्किताः॥११॥
तेषामनुग्रहार्थाय वागुवाचाशरीरिणी॥
श्रूयतामुरगाः सर्वे युष्माभिर्देवहेलनम्॥१२॥ ।
भिक्षार्थमागतः शम्भुः क्षुधार्तश्च गृहेगृहे ॥
विदित्वातिथिवेलायां कपालकरभिक्षुकः ॥ १३ ॥
दत्ता न भिक्षा केनापि भोगवत्यां पिन किनः ॥
तदा बहिर्गतो नाथः क्षुधितो धर्मविग्रहः ॥ १४ ॥
तेन नष्टा सुधा सर्वा कुण्डान्ते पन्नगोत्तमाः ॥
यूयं प्रयात पातालान्म हाकालवनोत्तमे ॥ १५ ॥
तत्रैका वै सरिच्छ्रेष्ठा शिप्रानामेति विश्रुता ॥
त्रैलोक्यपावनी ह्येषा सर्वकामफलप्रदा ॥ १६ ॥
यस्या दर्शनमात्रेण सर्वपापक्षयो भवेत् ॥
तत्र गत्वा भवद्भिश्च स्नानं कार्यं यथाविधि ॥ १७ ॥
भजनं देवदेवस्य ततः पूजां करिष्यथ ॥
भजनाद्देवदेवस्य शिप्रासलिलमज्जनात् ॥ १८ ॥
भविष्यति ततः सद्यः सुधा लोके पुरेव वः ॥
इति सम्भाष्य तान्नागांस्तत्रैवान्तरधीयत ॥ १९ ॥
वाणीं व्यास तदा दिव्यां सहसा लोकसाक्षिणीम् ॥
श्रुत्वा देवेरितां वाणीं तथेत्युक्त्वा च पन्नगाः ॥ 5.1.51.२० ॥
स्त्रीबालवृद्धसहिता महाकालवनं ययुः ॥
तत्र गत्वा ददृशुस्ते नदीं त्रैलोक्यवन्दिताम् ॥ २१ ॥
सर्वत्र कुसुमाकीर्णां तरुच्छायाभिराश्रिताम् ॥
हंसकारण्डवाकीर्णां मणिमुक्ताप्रवालकाम् ॥ ॥ २२ ॥
मणिसोपानरचितां पद्मखण्डैश्च मण्डिताम् ॥
सायं प्रातः स्थिता विप्राः सन्ध्योपासनतत्पराः ॥ २३ ॥
ऋषयश्च महाभागा भृग्वङ्गिरसमु ख्यकाः ॥
गन्धर्वाश्चैव तत्रैव देवर्षिनारदादयः ॥ २४ ॥
वसवश्च तथादित्या ह्यश्विनौ मरुतस्तथा ॥
रुद्राः साध्याश्च देवाश्च पितरो विमलाशयाः ॥ ॥ २५ ॥
उपासते च शिप्रां वै सन्ध्यावेलां समाहिताः ॥
ऋषिपत्न्यो महाभागा देवकन्याप्सरोगणाः ॥ २६ ॥
पतिव्रता महाभागास्तत्रैव पतिभिः सह ॥
उपासन्ते सदाचारा वर्णाश्रमपुरोगमाः ॥ २७ ॥
राजर्षयः समासीना निर्वाणपदवीं गताः ॥
सिद्धा योगेश्वरा शान्तास्तापसाः शंसितव्रताः ॥ ॥ २८ ॥
नानादेशोद्भवा लोका यात्रिणः समुपागताः ॥
शिप्राकूले समासीना नरनारीसमन्विताः ॥ २९ ॥
कुर्वते तत्र धर्माणि महादानानि सर्वशः ॥
एवंविधां समालोक्य व्यास त्रैलोक्यवन्दिताम् ॥ 5.1.51.३० ॥
नदीं सुधामयीं सर्वां नागाः परमहर्षिताः ॥
स्नानदानादिकं कृत्वा महादेवमुपा सिरे ॥ ३१ ॥
वेदोक्तविधिना सर्वे भक्त्या पन्नगसत्तमाः ॥
पञ्चाङ्गपूर्वकं स्नानं यक्षकर्दमलेपनम् ॥ ३२ ॥
अम्लानपङ्कजां मालां नानापुष्पाक्षतै स्तथा ॥
वासःस्रगनुलेपाद्यैश्चन्दनैर्गन्धधूपकैः ॥ ३३ ॥
दीपदानादिनैवेद्यैस्ताम्बूलमथ दक्षिणाः ॥
कर्पूरार्तिकराः सर्वे महादेवमुपागताः ॥
स्तुतिमारेभिरे कर्तुं सुधाकामास्तदोरगाः ॥ ३४ ॥
॥ सर्पा उचुः ॥ ॥
नमोऽनन्ताय बृहते सर्वदेव नमोनमः ॥
चन्द्रमौले नमस्तेऽस्तु कपर्दिन्परमात्मने ॥
वृषध्वज नमस्तेऽस्तु त्रिशूलवरधारिणे ॥ ३५ ॥
त्र्यम्बकाय नमस्तेऽस्तु जटामुकुटधारिणे ॥
शेषहार नमस्तेस्तु चिताभस्माङ्गधारिणे ॥ ३६ ॥
कृत्तिवास नमस्तेऽस्तु गिरीशाय नमोनमः ॥
त्रिपुरघ्न नमस्तेस्तु स्मरान्तक नमोऽस्तु ते ॥ ३७ ॥
मृगव्याध नमस्तेऽस्तु घस्मराय नमोनमः ॥
शङ्करात्मन्नमस्तेस्तु सर्वकामफलप्रद ॥ ३८ ॥
सर्वसाक्षिन्नमस्तेऽस्तु सर्वभूताशयाकृते ॥
सर्वाधार नमस्तेऽस्तु सर्वशक्तिधराय च ॥ ३९ ॥।
सर्वभोग नमस्तेऽस्तु सर्वबीजसमुद्भव ॥
दिव्यहास नमस्तेऽस्तु नमोऽमृतस्रवाय च ॥ 5.1.51.४० ॥
काम्यकाम नमस्तेस्तु सर्वकामवरप्रद ॥
नमः शिवाय शान्ताय पशूनां पतये नमः ॥ ४१ ॥
नमो मृडाय दान्ताय शान्तरूपाय वै नमः ॥ ४२ ॥
एवं प्रसादितो नागैर्भगवान्वृषभध्वजः ॥
प्रसन्नवदनो भूत्वा प्रत्यक्षः प्राह पन्नगान् ॥ ४३ ॥
॥ श्रीमहादेव उवाच ॥ ॥
शृणुध्वमुरगाः सर्वे वचस्तथ्यं वदामि वः ॥
नागलोके पुरा नित्यं भिक्षार्थं चागतोस्म्यहम् ॥ ४४ ॥
गृहेगृहे भोगवत्यां व्यचरत्क्षु धितो भृशम् ॥
कपालं च करे कृत्वा धृत्वा कन्थां सुचीरकाम् ॥ ४५ ॥
अप्राप्तभिक्षो भिक्षार्थी पुनरागां ततो गृहम् ॥
तेन पापप्रसङ्गेन सुधा नष्टा च वः स्थलात् ॥ ४६ ॥
किञ्चित्पुण्यप्रसङ्गेन महाकालवनोत्तमे ॥
यूयं प्राप्ता महाभागा हित्वा नागालयोत्तमम् ॥ ४७ ॥
आबालवृद्धैः सस्त्रीभि दृष्टा शिप्रा सरिद्वरा॥
यस्या दर्शनमात्रेण सुनिष्पापोऽस्म्यहं पुरा ॥ ४८ ॥
शिप्रायां स्नानजं पुण्यं वक्तुं शक्तो न कीदृशम्॥
दर्शनाज्जायते शम्भुस्तत्क्षणाद्भुवि पन्नगाः ॥ ४९ ॥
यस्मात्स्नानं कृतं सर्वैः शिप्रायां पन्नगोत्तमैः ॥
तेन पुण्यप्रभावेन सुधास्तु वो गृहेगृहे ॥ 5.1.51.५० ॥
नीत्वा शिप्रोदकं पुण्यं कुण्डेषु परिषिञ्चत ॥
तेनैतानि च कुण्डानि अमृतान्येकविंशतिः ॥ ५१ ॥
सम्पूर्णानि भविष्यन्ति स्थिराणि पन्नगोत्तमाः ॥
तथेत्युक्त्वा च ते सर्वे धृत्वा शिप्रोदकं करैः ॥ ५२ ॥
गतास्ते वै स्वकं लोकं नमस्कृत्वा महेश्वरम् ॥
ततः प्रभृति सा शिप्रा नागलोकेऽमृतोद्भवा ॥ ५३ ॥
सर्वलोकेषु विख्याता व्यास शिप्राऽमृतोद्भवा ॥
ये तु तस्यां प्रकुर्वन्ति नराः स्नानादिकं भुवि ॥ ५४ ॥
न तेषां दुष्कृतं किञ्चिन्नापदो न च दुर्गतिः ॥
न वियोगो भवेत्तेषां पुत्रदारादिकैः कदा ॥ ५५ ॥
न च मित्राणि दुष्यन्ति न रोगो न दरिद्रता ॥
कथां पापहरां पुण्यां सर्वकामवर प्रदाम् ॥
पठनाच्छ्रवणाद्वापि गोसहस्रफलं लभेत् ॥ ५६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽ वन्तीक्षेत्रमाहात्म्ये शिप्रामाहात्म्येऽमृतोद्भवानामकथावर्णनन्नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥ ॥ ॥ छ ॥