०५०

॥ सनत्कुमार उवाच ॥ ॥
पापनाशिनी विख्याता यथा शिप्रा पयस्विनी ॥
तथाहं सम्प्रवक्ष्यामि समासेन परन्तप॥१॥
पुरा कृतयुगे व्यास दमनोनाम वै नृपः ॥
कीकटेषु समाख्यातो राजा परमकोपनः ॥२॥
उत्पथी सर्वधर्माणां गोब्राह्मणविनिन्दकः ॥
सुरापी हेमहारी मत्सरी गुरुतल्पगः ॥ ३ ॥
प्रजासर्वस्वहर्ता च परदाराभिमर्शकः ॥
धूर्तको धूर्तंसङ्गी च पिशुनस्तस्कराकृतिः ॥४॥
गोग्रहः पुरभेदी च बन्दी बन्दिजनप्रियः ॥
कुत्सितः कोपपूर्णश्च वेदशास्त्रविवर्जितः ॥५ ॥
साधुसङ्गपरित्यागी दुष्टो दुष्टजनप्रियः ॥
कुलाङ्गनापरित्यागी पण्यस्त्रीवृषलीपतिः ॥ ६ ॥
धर्मनिन्दाकरो नित्यमधर्मे रमते मतिः ॥
न हूयन्ते न पूज्यन्ते न श्रूयन्ते कथा बुधैः ॥ ७ ॥
वेदा यज्ञाश्च देवानां मूर्तिः पद्भ्यां च ताड्यते ॥
एवं दुष्टतरो राजा न भूतो न भविष्यति ॥ ८ ॥
स एकदा वने घोरे मृगयावनगोचरः ॥
इतस्ततो भ्रममाणो व्याधैः परिवृतः खलः ॥ ॥ ९ ॥
न लब्ध्वा खेटकं किञ्चित्क्षुधार्तस्तृषितः खलः ॥
एकाकी विगतोऽसङ्गो महाकालवनान्तिके ॥ 5.1.50.१० ॥
रात्रिः समागता तत्र घोरा घोरनि षेविता ॥
वृक्षमूलमुपावृत्य शयनार्थी क्षुधार्दितः ॥ ११ ॥
तत्राश्वं विटपे बद्ध्वा स्वयमेव न्यषीदत ॥
तदैव काले वृक्षाद्वै सर्पः पपात मस्तके ॥१२॥
किमिदं कुत आश्चर्यं कृत्वा हस्तेन वारितः ॥
तेन वारयिता राजा दष्टोंऽगुष्ठे तदाऽहिना ॥ १३ ॥
दष्टमात्रे च नृपतिर्व्यथितः क्षितिमागतः ॥
कियत्काले व्यथाविष्टो मुमोह क्षीणमङ्गलः ॥ १४॥
एतत्क्षणात्प्रेतभूतो घोरे नरकसञ्चये ॥
यमदूतैस्ताड्यमानो विविधास्त्रैः स्वकर्मजैः ॥ १५ ॥
हर्षिताश्च गणाः सर्वे यमराजस्य किङ्कराः ॥
बद्ध्वा पाशैश्च तं निन्युः पापिष्ठं यममन्दिरे ॥ १६ ॥
एतस्मिन्नन्तरे व्यास क्रव्यादैः खादितं शवम् ॥
किञ्चिच्छेषतरं प्रातर्वायसेनाभिलक्षितम् ॥ १७ ॥
तत्र गत्वानयन्मांसं तुण्डेन वियदुद्गतः ॥
ततोऽन्यैर्वायसैर्भग्नो भ्राम्यमाण इतस्ततः ॥ १८ ॥
तत्राटतो हि यत्रास्ते दिव्या शिप्रा पयस्विनी ॥
किञ्चित्कर्मविपाकेन वायसास्यगतं पलम् ॥ १९॥
पतितं वै जले तस्याः शिप्रायास्तस्य काय जम्॥
तेन पुण्यप्रभावेन शिवोऽजायत तत्क्षणात् ॥ 5.1.50.२० ॥
त्रिनेत्रोथ जटाजृटी व्याघ्राम्बरपरीवृतः ॥
शूलहस्तो वृषारूढो भालचन्द्रो ह्युमापतिः ॥ २१ ॥
इत्याश्चर्यमयं रूपं दृष्ट्वा दूताश्च धर्षिताः ॥
तद्गणैस्ताडिता भग्ना धर्मराज्ञे शशंसिरे ॥ २२ ॥
श्रूयतां भो महाराज धर्मराज नमोस्तु ते ॥
दूतानां यद्वचो रम्यं बह्वाश्चर्यमयं परम् ॥२३॥
कीकटाधिमतिर्मन्दः पापिष्ठो वृषलीपतिः ॥
दमनो नाम राजाभूत्समस्ते क्षितिमण्डले ॥२४॥
यानि कानि च पापानि ब्रह्महत्यासमानि च ॥
तानि सर्वाणि तेनापि कृतानि भुवि सत्तम ॥ २५ ॥
मर्यादाभेदको मूढो वर्णाश्रमसुधर्मिणाम् ॥
कुसङ्गी द्यूतकोन्मादी बहुव्यङ्गभरः खलः ॥ २६ ॥
यमदण्डपरः पापी अस्माकं हर्षवर्धनः ॥
स कथं शिवरूपी स्यात्किमाश्चर्यमतः परम् ॥ २७ ॥
यावन्तः पतिताः पूर्वे पापिनः सर्व एव हि ॥
कृष्णेन तारिताः सर्वे ब्रह्मपुत्रार्थिना तदा ॥ २८ ॥
तदाप्रभृति सर्वाणि कुण्डानि नरकस्य वै ॥
शुष्काणि चैव दृश्यन्ते ग्रीष्मान्ते वै ह्रदा यथा॥२९॥
न चैवार्तरवं किञ्चिच्छ्रूयते तव मन्दिरे ॥
अस्माकं जीवनं नास्ति किमुपायं वदस्व नः ॥5.1.50.३०॥
एक एवागतो लोके वृत्तिदो नो यमाधिप ॥
सोऽपि शिवत्वमापन्नः कस्मान्नो जीव्यते कथम् ॥ ३१ ॥
धर्मराजस्तदाश्रुत्य किङ्कराणां परं वचः ॥
चिरं ध्यात्वा स्वकानूचे देशकालोचितं वचः ॥ ३२ ॥
॥ धर्मराज उवाच ॥ ॥
श्रूयतां भो गणाः सर्वैः श्रुतिरेकाग्रमानसैः ॥
येन पुण्यप्रभावेन पापिष्ठः शिवतां गतः ॥ ३३ ॥
भुवि पुण्यतमे देशे महाकालवने शुभे ॥
शिप्रानाम सरिच्छ्रेष्ठा सर्वपापहरा परा ॥३४ ॥
येषां शिप्रोदक स्पर्शो जायते भुवि किङ्कराः ॥
न तेषां पातकं किञ्चिन्मृतः शिवपुरं व्रजेत् ॥ ३५ ॥
मनसा वपुषा वाचा पापानि विविधानि च ॥
तत्क्षणात्प्रलयं यान्ति शिप्रासरिन्निषेवणात् ॥ ३६ ॥
शिप्राशिप्रेति यो ब्रूते यत्र कुत्रापि मानवः ॥
स एव शिवतां याति न जाने स्नानजं फलम् ॥३७॥
यत्र कीटपतङ्गाश्च शिप्रावारिचराश्च ये ॥
मृताः शिवपुरं यान्ति शिप्रानीरनिषेवणात् ॥ ३८ ॥
कृत्वान्यत्र महापापं येऽन्ते शिप्रातटं श्रिताः ॥
महापातकिनोऽप्येते मृता यान्ति शिवालयम् ॥ ३९ ॥
माधवे मासि सम्प्राप्ते निमज्जन्ति नरोत्तमाः ॥
न तेषां निरयं किञ्चिच्छिवरूपाश्चरन्ति ते ॥ 5.1.50.४० ॥
वायसेनाहृतं मांसं तस्य राज्ञः कृतागसः ॥
शिप्रागाधजले क्षिप्तं का तत्र परिदेवना ॥ ४१ ॥
वापीकूपतडागादि अधिकाधिकसत्फलम् ॥
तस्माद्दशगुणं पुण्यं नदीषु उपजायते ॥ ४२ ॥
तस्माद्दशगुणा तापी गोदा पुण्या ततोधिका ॥
तस्माद्दशगुणा रेवा गङ्गा पुण्या ततोऽधिका ॥
तस्माद्दशगुणा शिप्रा पवित्रा पापनाशिनी ॥ ४३ ॥
दमनस्य शरीरस्य मांसं शिप्रासमागतम् ॥
तेन पुण्यप्रभावेन शिवरूपधरोऽभ वत् ॥ ४४ ॥
ईदृशा च नदी रम्या अवन्त्यां भुवि वर्तते ॥
वाञ्छन्ति देवताः सर्वास्तस्या दुर्लभदर्शनम् ॥ ४५॥
धर्मराजवचः श्रुत्वा गणा विस्मय मागताः ॥
मनसा च निरातङ्काः शिप्रां शरणमागताः ॥ ४६ ॥
॥ सनत्कुमार उवाच ॥ ॥
तदाप्रभृति विख्याता शिप्रेयं पापनाशिनी ॥
गीयते च पुराणेषु यस्या माहात्म्यमुत्तमम् ॥ ४७ ॥
दमनस्य च निर्मुक्तिः शिप्रामाहात्म्यमुत्तमम् ॥
यमदूतानां संवादं श्रुत्वा मुक्तिर्न संशयः ॥ ॥ ४८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शिप्रामाहात्म्ये पञ्चाशत्तमो ऽध्यायः ॥ ५० ॥