०४९ ज्वरानुग्रहः

॥ सनत्कुमार उवाच ॥ ॥
एवं व्यास पुरी रम्या नामभूता सनातनी ॥
युगेयुगे यथा जाता तथा ख्याता मयाऽनघ ॥ १ ॥
॥ व्यास उवाच ॥ ॥
भूयोऽहं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥
शिप्रायाश्च कथां पुण्यां पवित्रां पापहारिणीम् ॥ २ ॥
सुन्दरं कुण्डमाख्यातं पिशाचमोचनं तथा ॥
नीलगङ्गा इति प्रोक्ता कर्कराजमतः परम् ॥ ३ ॥
पुष्कराणि च सर्वाणि गयातीर्थमनुत्तमम् ॥
गोमतीकुण्डमाख्यातं नाम्ना धर्मसरस्तथा ॥ ४ ॥
ख्यातं सङ्गमजं तीर्थं शनेर्जन्मकथां शुभाम् ॥
च्यवनाश्रमे च या वार्ता तथा नागालये शुभे ॥ ५ ॥
पुरुषोत्तममहिमानं काले केन कथं भवेत् ॥
एतद्वेदितुमिच्छामि यत्ते मनसि वर्तते ॥ ६ ॥
॥ सनत्कुमार उवाच॥ ॥
शृणु व्यास महाभाग कथां पापहरां पराम्॥
यस्मिन्काले यदा जाता महाकालवने शुभे॥७॥
नास्ति वत्स महीपृष्ठे शिप्रायाः सदृशी नदी ॥
यस्यास्तीरे क्षणान्मुक्तिः किं चिरात्सेवनेन वै ॥ ८ ॥
वैकुण्ठे जायते शिप्रा ज्वरघ्नी च सुरालये ॥
महाद्वारे च पापघ्नी पातालेऽमृतसम्भवा ॥ ९ ॥
वाराहकल्पे वै प्रोक्ता विष्णुदेहेति नामतः ॥
शिप्रावन्त्यां समाख्याता कामधेनुसमुद्भवा ॥ 5.1.49.१० ॥
॥ व्यास उवाच ॥ ॥
विचित्रमिदमाख्यातं भवता ऋषिसत्तम ॥
वक्तुमर्हसि शिप्रायाः समासेन कथां शुभाम् ॥ ११ ॥
॥ सनत्कुमार उवाच ॥ ॥
ब्राह्मं कपालमादाय भिक्षार्थं सञ्चरन्महीम् ॥
महादेवो विशुद्धात्मा सर्वलोकेषु सर्वतः ॥१२॥
अप्राप्तभिक्षो भिक्षार्थी वैकुण्ठमगमद्विभुः ॥
गतश्चातिथ्यवेलायां भ्रममाणो यतस्ततः॥१३॥
लोकनिन्दापरः क्रुद्धः क्षुधितो बहुवासरैः ॥
भिक्षां देहीति भो ब्रह्मन्क्षुधितोऽहं समाहितः ॥१४॥
कपालं च करे कृत्वा इत्यु वाच पुनः पुनः ॥
गृह्यतां हर भिक्षां ते ददामीति हरिस्तदा ॥१५॥
इत्युक्त्वा करमुद्यम्य तर्जन्यगुंलिमादधत् ॥
तदा रुद्रः समाध्मातस्त्रिशूलेनाहन द्रुषा ॥१६॥
तदाङ्गुलिसमुद्भूतं बहु सुस्रावशोणितम् ॥
तेनाशु पात्रं तत्पूर्णं शङ्करस्य करे स्थितम् ॥१७॥
तदा उद्वेलिता सा वै धारा जाता समं ततः ॥
तत्र स्थाने समुद्भूता शिप्राऽसृग्धारसम्भवा ॥ १८ ॥
वैकुण्ठे चाभवत्सद्यो नदी त्रैलोक्यपावनी ॥
एवं शिप्रा सरिच्छ्रेष्ठा त्रिषु लोकेषु विश्रुता ॥ १९ ॥
ज्वरघ्नी च यथा प्रोक्ता तथा व्यास ब्रवीम्यहम् ॥
यदा बाणासुरो दैत्यः कृष्णेन सह संयुगे ॥ 5.1.49.२० ॥
योधयामास दैत्येन्द्रो ह्यनिरुद्धप्र हेलनः ॥
सहस्रबाहुभिर्वीरो नानाप्रहरणोद्यतः ॥ २१ ॥
तस्मात्क्रुद्धो वासुदेवश्चक्रमादाय सत्वरः ॥
चिच्छेद बाहुसाहस्रं क्षुरप्रेणाशुगामिना ॥ २२ ॥
स तदा भग्नसङ्कल्पश्छिन्नदोश्च व्रणार्दितः ॥
पराङ्मुखपरो भूत्वा शङ्करं शरणं ययौ ॥ २३ ॥
तदागतं महादैत्यं समीपे भयविह्वलम् ॥
विलोक्य कृपयाविष्टो गते सङ्ग्राममूर्धनि ॥ २४ ॥
छित्त्वा बाहुसहस्रं वै दैत्यराजस्य चाहवे ॥
क्रुद्धः कृष्णो महाबाहुः परसेनान्तको वरः ॥ २५ ॥
स्थितो यत्राचलो व्यास तत्रागतो महेश्वरः ॥
वारयामास कृष्णं वै शरोघैश्च समाकिरन्॥२६॥
अन्योन्यं च समासाद्य कृत्वा युद्धं तु दारुणम् ॥
शस्त्रास्त्रैश्च महाघोरैः सर्वप्राणिभयङ्करैः ॥ २७ ॥
वैष्णवास्त्रं तदा कृष्णः सन्दधे हरजिघांसया ॥
पाशुपतं च नामास्त्रं सर्वसंहारकारकम् ॥ २८ ॥ ।
सन्दधे वै तदा शम्भुः कृष्णप्राणहरोत्सुकः ॥
हाहाकारस्तदा जातः सर्वलोकेषु श्रूयते ॥ २९ ॥
मोहनास्त्रं पुनः कृष्णः शिवोपरि मुमोच ह ॥
तेनास्त्रेण तदा शम्भुर्मोहितो देवमायया ॥ 5.1.49.३० ॥
जृम्भमाणः स्थितः सङ्ख्ये किञ्चित्कालं मुहुर्मुहुः ॥
लब्धसञ्ज्ञः पुनर्जातो यदा रुद्रो महाहवे ॥ ३१ ॥
तदा क्रोधाभिभूतेन कृतो माहेश्वरो ज्वरः ॥
ललाटफलकात्सद्यो वीरभद्रो महाबलः ॥ ३२ ॥
त्रिनेत्रस्त्रिशिरा ह्रस्वस्त्रिपादो बर्कराकृतिः ॥
क्षुद्रो जटिलभस्माङ्गो महाव्याधिर्दुरत्ययः ॥ ३३ ॥
कृष्णसेनां समासाद्य महादेवेन प्रेरितः ॥
प्राणिनां कदनं चक्रे सर्वेषां कृष्णसङ्गिनाम् ॥ ३४ ॥
पराङ्मुख्यपरा भग्ना ज्वराभिघातपीडिता ॥
बभूव सहसा व्यास सेना कृष्णेन पालिता ॥३५॥
तथाभूतां समालोक्य जृम्भमाणा रुजार्दिताम् ॥
स्वसेनां भग्नसङ्कल्पां माहेशज्वरपीडिताम् ॥ ३६ ॥
ससर्ज वैष्णवं तापं कृष्णः परमकोपनः॥
तेन सह वैष्णवेन माहेश्वरेण ज्वरेण च ॥ ३७ ॥
अन्योन्यमभवद्युद्धं घोरं घोरतरं महत् ॥
सङ्ग्रामं बहुलं कृत्वा भग्नो माहेश्वरो ज्वरः ॥३८॥
सर्वलोकेषु गत्वा वै न शान्तिं प्रतिजग्मिवान् ॥
महाकालवने रम्ये प्राप्तस्तेनाभिपीडितः ॥ ३९ ॥
निमग्नोऽथ वै शिप्रायां ततः शान्तिं परां ययौ ॥
दृष्ट्वा माहेश्वरं शान्तं ज्वरं परमकोपनम् ॥ 5.1.49.४० ॥
वैष्णवो ऽपि समासाद्य तस्यां मज्जनमाचरत् ॥
तस्याः प्रभावसन्नष्टौ ज्वरो हरिहरोद्भवौ ॥ ४१ ॥
तस्मात्सर्वेषु कालेषु ज्वरघ्नी साऽभवत्क्षणात् ॥
ज्वराभिभूतास्तां प्राप्य जनाः परमदुःखिताः ॥ ४२ ॥
निमज्जन्ति च शिप्रायां व्यासोषसि समाहिताः ॥
न तेषां बाधते पीडा ज्वरोद्भूता कदाचन ॥ ॥ ४३ ॥
सत्यमुक्तं तदा व्यास ब्रह्महरिहरेण च ॥४४॥
ये शृण्वन्ति कथां दिव्यां नराश्चैकाग्रमानसाः ॥
न तेषां जायते किञ्चिज्जवरसन्तापजं भयम् ॥ ॥ ४५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शिप्राया माहात्म्ये ज्वरानुग्रहोनामैकोन पञ्चाशत्तमोऽध्यायः ॥४९॥