॥ सनत्कुमार उवाच ॥ ॥
शृणुष्वावहितो व्यास स्थितिमेकाग्रमानसः ॥
मया व्यासमुखात्प्राप्ता कल्पभेदे कथा शुभा ॥ १ ॥
गुह्याद्गुह्यतरा श्रेष्ठा न देया यस्य कस्यचित् ॥
नास्तिकाय कृतघ्नाय नाशिष्याय कदाचन ॥ ॥ २ ॥
एषा पुण्यतमा व्यास कथा पापहरा परा ॥
यस्याः श्रवणमात्रेण कल्पदोषो न बाधते ॥ ३ ॥
प्रमाणं कल्पपर्यन्तं ब्रह्मणः परमेष्ठिनः ॥
मन्वन्तरेषु सर्वेषु कल्पकल्पान्तरेषु च ॥ ४ ॥
यावत्सङ्ख्या परिमिता तावती शृणु सत्तम ॥
अहोरात्रं च भजते सूर्यो मानुषदैवतम् ॥ ५ ॥
तामुपादाय गणनां शृणु सङ्ख्या द्विजोत्तम ॥
निमेषैः पञ्चदशभिः काष्ठा त्रिंशत्तु ताः कला ॥ ६ ॥
त्रिंशत्कला मुहूर्तस्तु त्रिंशता तैर्मनीषिणः ॥
अहोरात्र मिति प्राहुश्चन्द्रादित्यगतिस्तदा ॥७॥
रविर्गतिविशेषेण सन्ध्यायां याति नित्यशः ॥
तदहस्तु मनुष्याणां रात्रिश्चैव तु तादृशी ॥ ८ ॥
पक्षौ मासा ऋतुश्चाब्दमयने च प्रकीर्तिते ॥
पितॄणां चैव देवानां ब्रह्मणश्च यथातथम् ॥ ९ ॥
यावत्सङ्ख्या समाख्याता आयुरन्तश्च तादृशः ॥
अहोरात्राः पञ्चदश पक्ष इत्यभिशब्दितः ॥ 5.1.48.१० ॥
पक्षौ द्वौ तौ कृतौ मासौ मासौ द्वावृतुरुच्यते ॥
अयनं चर्तुभिस्त्रिभिरब्दं द्वे अयने स्मृतम् ॥ ११ ॥
दक्षिणं चोत्तरं चैव सङ्ख्यातत्त्वविशारदैः ॥
मानेनानेन यो मासः पक्षद्वयसमन्वितः ॥ १२ ॥
पितॄणां तदहोरात्रमिति कालविदो विदुः ॥
शुक्ल पक्षस्त्वहस्तेषां कृष्णपक्षस्तु शर्वरी ॥ १३ ॥
कृष्णपक्षे त्विह श्राद्धं पितॄणां वर्तते द्विज ॥
मानुषेण तु मानेन यो वै संवत्सरः स्मृतः॥१४॥
देवानां तदहोरात्रं दिवा चैवोत्तरायणम्॥
दक्षिणायनं स्मृता रात्रिः प्राज्ञैस्तत्त्वार्थकोविदैः॥१५॥
दिव्यमब्दं शतगुणं दिव्यमब्दसहस्रकम् ॥
मुनिभिश्चैव तत्त्वज्ञैरहोरात्रं मनोः स्मृतम् ॥ १६ ॥
अहोरात्रं दशगुणं मानवः पक्ष उच्यते ॥
पक्षाद्दशगुणो मासो मासा द्वादशभिर्गुणैः ॥ १७ ॥
ऋतुर्मनूनां सम्प्रोक्तः प्राज्ञैस्तत्त्वार्थदर्शिभिः ॥
षड्भिस्तैर्वर्षं सम्प्रोक्तं तेन सङ्ख्या निबध्यते ॥ १८ ॥
चत्वार्येव सहस्राणि वर्षाणां तु कृतं युगम् ॥
तावती तु भवेत्सन्ध्या सन्ध्यांशश्च तथाविधः ॥ १९ ॥
त्रीणि वर्षसहस्राणि त्रेता तत्परिमाणतः ॥
तस्याश्च त्रिशती सन्ध्या सन्ध्यांशश्च तथा परः ॥ 5.1.48.२० ॥
तथा वर्षसहस्रे द्वे द्वापरं परिकीर्तितम् ॥
तस्य च द्विशती सन्ध्या सन्ध्यांशश्च तथा। परः ॥ २१ ॥
कलिर्वर्षसहस्रं तु सङ्ख्या चोक्ता मनीषिभिः ॥
तस्य चैकशती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ २२ ॥ ( ४८०० कृतम्, ३६०० त्रेता, २४०० द्वापरम्, १२०० कलिः)
एषा द्वादशसाहस्री युगसङ्ख्या प्रकीर्तिता ॥
दिव्येनानेन मानेन युगसङ्ख्यां निबोध मे ॥ २३ ॥
ससर्ज स पुनस्तात जगत्सर्वमिदं ततः ॥
कृतं त्रेता द्वापरं च कलिश्चैव चतुर्युगम् ॥ २४ ॥
युगं तदेकसप्तत्या गुणितं द्विजसत्तम ॥
मन्वन्तरमिति प्रोक्तं सङ्ख्यानार्थविशारदैः ॥ २५ ॥
अयनं चापि तत्प्रोक्तं द्वेऽयने दक्षिणोत्तरे ॥
मनुः प्रलीयते ह्यत्र सम्प्राप्ते जगतः प्रभौ ॥ २६ ॥
ततोऽपरो मनुः कालमेतावन्तं भवेत्पुनः ॥
समतीते तु राजेन्द्र प्रोक्तः संवत्सरस्य वै ॥ २७ ॥
तदैव चायनं प्रोक्तं मुनिना तत्त्वदर्शिना ॥
ब्रह्मणस्तदहः प्रोक्तं कल्प श्चेति स उच्यते ॥ २८ ॥
सहस्रयुगपर्यन्तं सा निशा प्रोच्यते बुधैः ॥
निमज्जत्यत्र चोर्वी सा सशैलवनकानना ॥ २९ ॥
तस्मिन्युगसहस्रे तु पूर्णे वै द्विजसत्तम ॥
ब्राह्मे दिवसपर्यन्ते कल्पो निःशेष उच्यते ॥ 5.1.48.३० ॥
युगानि सप्ततिं तानि साग्राणि कथितानि ते ॥
कृतत्रेतादियुक्तानि मनोरन्तर मुच्यते ॥ ३१ ॥
चतुर्दशैते मनवः कथिताः कीर्तिवर्धनाः ॥
वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः ॥ ३२ ॥
प्रजानां पतयो व्यास धन्यमेषां प्रकीर्त नम् ॥ ३३ ॥
मन्वन्तरेषु संहाराः संहारान्तेषु सम्भवाः ।
न शक्यमन्तस्तेषां वै वक्तुं वर्षशतैरपि ॥ ३४ ॥
विसर्गश्च प्रजानां वै संहारस्य च भारत ॥।
मन्वन्तरेषु संहारः श्रूयते भरतर्षभ ॥ ३५ ॥
यत्र तिष्ठन्ति वै देवाः सर्वे सप्तर्षिभिः सह ॥
तपसा ब्रह्मचर्येण श्रुतेन च समन्विताः ॥ ३६ ॥
पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते ॥
तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः ॥ ३७ ॥
ब्रह्माणमग्रतः कृत्वा सहादित्यैर्गणैर्द्विज ॥
प्रविशन्ति सुरश्रेष्ठं हरिं नारायणं प्रभुम् ॥ ३८ ॥
स स्रष्टा सर्वभूतानां कल्पान्ते तु पुनःपुनः ॥
अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत् ॥ ३९ ॥
स एव विद्यते व्यास महेशा सह संयुतः ॥
महाकालवने वासं चकार जगदीश्वरः ॥ 5.1.48.४० ॥
प्रलयो न बाधते व्यास महाकालवनोत्तमे ॥
कल्पे कल्पे च वै रम्या पुरी ह्येषा कुशस्थली ॥ ४१ ॥
निरामया निरातङ्का निर्विकारा युगेयुगे ॥
मार्कण्डेयोपदिष्टानि कल्पानि सम्भवन्ति च ॥ ४२ ॥
अत्रैव च वने रम्ये ब्रह्मा लोकपितामहः ॥
प्रजानां पतयो ये ते दक्षः प्राचेतसस्तथा॥ ४३ ॥
मरीचिः कश्यपो रुद्रो येऽन्ये भृग्वादयस्तथा ॥
कल्पादौ ससृजे लोकांश्चराचरान्यथा तथा ॥ ४४ ॥
एवमादौ पुरा व्यास कल्पं कल्पायते तदा ॥
वाराहवामनविष्णुपितॄणां वै तथैव च ॥४५॥
कल्पभेदाः समाख्याता महाकालवने शुभे ॥
चतुराशीतिकल्पानि सञ्जातानि द्विजोत्तम ॥ ४६ ॥
तावन्ति योगलिङ्गानि वने तिष्ठन्ति सत्तम॥
पुनर्जाता पुनः र्नष्टा महीसागरपर्वताः ॥४७॥
पुनःपुनर्भविष्यन्ति पुरी ह्येषाऽचला स्मृता ॥
तस्मात्सर्वेषु कालेषु सर्वलोकेषु गीयते ॥४८॥
प्रतिकल्पेति विख्याता भुवि व्यास भविष्यति ॥
येऽस्यां वै मानवा दान्ताः स्नानदानादिकं तथा ॥ ४९ ॥
जपं होमं तथा श्राद्धं पितॄनुद्दिश्य देवताः ॥
न तेषां पुनरा वृत्तिः कोटिकल्पशतैरपि ॥ 5.1.48.५० ॥
प्रतिकल्पामनुप्राप्य दृष्ट्वा देवं महेश्वरम् ॥
वैशाखे पौर्णमास्यां वै स्नापयन्त्येकवासरम् ॥ ५१ ॥
प्रसङ्गतो रजः क्लान्तः शिप्राम्भसि च मानवाः ॥
न तेषां दुष्कृतं किञ्चिद्विष्णुलोके वसन्ति ते ॥५२॥
मन्वन्तरसहस्रेषु काशिवासेषु यत्फलम् ॥
तत्फलं प्राप्नुयाज्जन्तुः प्रतिकल्पं क्षणादपि ॥ ५३ ॥
प्रतिकल्पे च कल्पान्ते सैवासीच्च पुरी शुभा ॥
तस्मात्सर्वजनैः ख्याता प्रतिकल्पा द्विजोत्तम ॥ ५४ ॥
ये चैतस्य महाभागाः प्रीतिं कुर्वन्ति मानवाः ॥
न तेषां कल्पभेदोऽयं स्वप्नवज्जायते क्षणात् ॥ ५५ ॥
यः शृणोति कथां पुण्यां प्रतिकल्पोद्भवां शुभाम् ॥
श्रावयेद्वा प्रयत्नेन ब्रह्महत्यां व्यपोहति ॥ ५६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये प्रतिकल्पाभिधानकथनन्नामाष्टाचत्वारिंशोऽध्यायः ॥ ४८ ॥