०४७ विशालाभिधानकथनम्

॥ सनत्कुमार उवाच ॥ ॥
शृणु व्यास महाभाग पुरी ह्येषामरावती ॥
विशाला च समाख्याता सर्वलोकेषु गीयते ॥ १ ॥
तथाहं सम्प्रवक्ष्यामि ब्रह्मणा कथितं पुरा ॥
गुह्याद्गुह्यतरं क्षेत्रं सर्वपापप्रणाशनम् ॥ २ ॥
उमया सहितो देव एक एवाचरद्वने ॥
ततो भूतगणाः सर्वे पश्चात्सर्वे सुरासुराः ॥ ३ ॥
विष्णुर्दशाकृतिर्यत्र देव्यो वै लोकमातरः ॥
विनायकाश्च वैतालाः कूष्माण्डा भैरवादयः ॥ ४ ॥
कल्पोद्भेदाश्च लिङ्गाश्च चतुराशीतिसङ्ख्यकाः ॥
क्षेत्राणि क्षेत्रपालाश्च ऋद्धिः सिद्धिस्तथैव च ॥ ५ ॥
पितरो लोकपालाश्च सिद्धाः सिद्धिप्रदाश्च ये ॥
ऋषयश्च महाभागा ऋषिपत्न्योऽमलाशयाः ॥ ६ ॥
किन्नरा देवगन्धर्वा ह्यप्सराश्च वराङ्गनाः ॥
मरुद्गणाश्च ये सर्वे साधकानां गणाश्च ये ॥ ७ ॥
यक्षा गुह्यकसङ्घाश्च पिशाचोरगराक्षसाः ॥
स्थावरा जङ्गमाः सर्वे ध्यानं मानसमाश्रिताः ॥ ८ ॥
उपासाञ्चक्रिरे तत्र देवदेवमुमापतिम्॥
तान्दृष्ट्वा सा तदा देवी पार्वती गिरिजा तदा ॥
उवाच श्लक्ष्णया वाचा शङ्करं जगदाश्रयम् ॥ ९ ॥
॥ पार्वत्युवाच ॥ ॥
देवदेव जगन्नाथ जगदाधारतत्पर ॥
पश्य एतान्महाभागान्ध्यायमानांस्तवाश्रितान् ॥5.1.47.१०॥
नानुपेक्ष्याश्च तान्सर्वान्वातवर्षातपार्दितान् ॥
कल्पय त्वं महा भाग एतेषामात्मनो हितम्॥११॥
यथायोग्यं वासनार्थं स्थानं परमशोभनम्॥
पुरीं कल्पय मे नाथ वासार्थं सर्वकामदाम् ॥१२॥
एषा मे वासना स्वामिन्भवतां यदि रोचते ॥
इति श्रुत्वा वचस्तस्याः पार्वत्याः परमेश्वरः ॥
कल्पयामास पुरीं रम्यां सर्वभूतमनोरमाम् ॥ १३ ॥।
आत्मनोपि हितां पुण्यां शम्भुः सर्वात्मना तदा॥
बहुयोजनविस्तीर्णां दिव्यां दिव्यजनप्रियाम्॥१४॥
दिव्याभिप्रायसंयुक्तां दिव्यस्थानमनोरमाम्॥
दिव्यसर्वगुणोपेता विशालां विरजां शुभाम् ॥ १५ ॥
क्रयविक्रयसम्पन्नहट्टाट्टालकचत्वराम् ॥
बहुहर्म्यगृहाकीर्णां सौधपङ्क्तिविराजिताम् ॥ १६ ॥
स्फाटिकाभित्तिरचितां वैडूर्यमणिभूमिकाम् ॥
प्रवालस्तम्भप्रवरां हेमाभरणसम्भराम् ॥ १७ ॥
आरक्तमणिदेहल्यां द्वारशाखाभिमण्डिताम् ॥
जाम्बूनदकपाटाढ्यां वज्रार्गलसुसंस्कृताम् ॥ १८ ॥
मणिरत्नसमाभूमिद्वाराजिरगृहान्तराम् ॥
घोषजालातिरम्यां च मुक्तादामविलम्बिनीम् ॥ १९ ॥
हेमस्तं भध्वजोपेताः पताकाश्च गृहेगृहे ॥
कलशाश्च विराजन्ते मणिहेमाचिता गृहे ॥ 5.1.47.२० ॥
वापीकूपतडागानि सरांसि विमलानि च ॥
पद्मकिञ्जल्कगन्धीनि जलयन्त्रोपशोभिताम् ॥ २१ ॥
हंसकारण्डवाकीर्णां शिखण्डिगणशोभिताम् ॥
जलयन्त्रकृताधारां गृहवापीवनाकराम् ॥ २२ ॥
क्वचिन्नृत्यन्ति मयूराः क्वचित्कूजन्ति कोकिलाः ॥
भ्रमरावलीढपुष्पाढ्यस्तबका वनराजयः ॥२३॥
नरनारीगणाकीर्णां वर्णाश्रमनिषेविताम् ॥
हर्म्यान्तरागता नार्यो विलोकनपरा बभुः ॥ २४ ॥
चन्द्रमालाकृतश्रेणीतोरणानीव च शोभते ॥
एवं व्यास पुरी रम्या आत्मयोगेन वासिता ॥ २५ ॥
यत्रालकापुरी रम्या कुबेरभवनाङ्किता ॥
धवला पुण्यजनैः कीर्णा पक्षिभिश्चोपशोभिता ॥ २६ ॥
तत्र भोगवती दिव्या वरुणालय उत्तमः ॥
नागकन्याभिरुग्राभि र्नागपत्नीभिः सङ्कुला ॥ २७ ॥
संयमनीपुरी श्रेष्ठा धर्मराजेन पालिता ॥
सदाचारजनैः पूर्णा कृता कृतविचक्षणैः ॥ २८ ॥
देवतानां पुरी रम्या वासवेनाभिरक्षिता ॥
पुण्यस्त्रीणां गणाकीर्णा किन्नरोद्गीतमण्डिता ॥ २९ ॥
एवंविधानि रम्याणि पुरा बहुतराणि च ॥
बहुविस्तीर्णमानानि शुभ्रा ण्यतितराणि च ॥ 5.1.47.३० ॥
क्वचिद्रम्भाकृतद्वारा यवाङ्कुरघटाः शुभाः ॥
क्वचिद्गायन्ति गन्धर्वाः क्वचिन्नृत्यन्ति नर्तकाः ॥ ३१ ॥
क्वचिद्बालाः पठन्ति स्म वेदाध्ययनका द्विजाः ॥
क्वचिद्यज्ञान्यजन्ति स्म यजमानाः सऋत्विजः ॥३२॥
क्वचिच्चावभृथस्नाताः क्वचिद्दानान्यकुर्वत ॥
क्वचित्क्वचित्तूपनयनं विवाहाग्निपरिग्रहम् ॥ ३३ ॥
क्वचिदारामपूर्तं वै क्वचिद्यात्रावधारणम् ॥
वापीकूपतडागानां तथैव विधिपूर्वकम् ॥ ३४ ॥
क्वचित्कथाप्रसङ्गांश्च परिशंसन्ति वाचकाः ॥
क्वचिद्गाथाः प्रकुर्वन्ति कवयः पुर उत्तमे ॥ ३५ ॥
क्वचिन्मल्ला नियुध्यन्ते नटा नाट्यपराः क्वचित् ॥
तडागानि विराजन्ते मणिसोपानपङ्क्तिभिः ॥ ३६ ॥
चञ्चलाश्चपला बालाः श्यामाः षोडशवार्षिकाः ॥
वारिहारपरास्तत्र मणिहेमघटोत्कटाः ॥ ३७ ॥
एवं व्यास पुरी रम्या निर्मिता योगमायया ॥
शम्भुना सर्वपापघ्नी प्रियाप्रियचिकीर्षया ॥३८॥
विशाला बहुविस्तीर्णा पुण्या पुण्यजनाश्रया ॥
तस्मात्सर्वेषु कालेषु सर्वलोकेषु गीयते ॥ ३९ ॥
विशालेति समाख्याता पुरी रम्या सनातनी ॥
यत्रतत्र स्थितो वापि सर्वावस्थां गतोऽपि वा ॥ 5.1.47.४० ॥
विशालेति वदेन्नित्यं शिवलोके महीयते ॥
ईदृशी न पुरीव्यास भुवि ब्रह्माण्डगोलके ॥ ४१ ॥
विशाला सदृशी चान्या भुक्तिमुक्तिप्रदा नृणाम् ॥
पितॄनुद्दिश्य कुर्वन्ति श्राद्धं काले नरा यदि ॥ ४२ ॥
तदक्षयं भवेत्तेषां पितृकल्पे च गीयते ॥
स्नानदानादिकं यैस्तु विशालायां प्रसङ्गतः ॥ ४३ ॥
यत्र कुत्र गतास्ते वै मृता यान्ति शिवालयम् ॥
धन्याः पुण्यतमा लोके प्रीतिर्येषां सदाचला ॥ ४४ ॥
विशालायां फलं शश्वच्छेषः शक्तो न वर्णितुम् ॥
कथाश्रवणमात्रेण वाच्यमानेन तत्क्षणात् ॥
महापापोद्भवात्पापान्मुच्यते नात्र संशयः ॥ ४५ ॥
एवं व्यास पुरी जाता विशाला च कुशस्थली ॥
प्रतिकल्पा यथा जाता तथा मे शृणु भाषतः ॥ ४६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्र माहात्म्ये विशालाभिधानकथनन्नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥