॥ सनत्कुमार उवाच ॥ ॥
शृणुष्वावहितो व्यास कथां पापहरां पराम् ॥
एषा कुमुद्वती जाता यथा पद्मावती पुरी ॥
तथाहं सम्प्रवक्ष्यामि यथा मे लोमशोऽब्रवीत् ॥ १ ॥
॥ लोमश उवाच ॥ ॥
शृणु वत्स मया दृष्टा बहुपुण्यतमा पुरी ॥
एकदा तीर्थयात्रायां गतोऽहं वै कुशस्थलीम् ॥
गुह्याद्गुह्यतरं स्थानं यत्र सन्निहितो हरः ॥ २ ॥
यस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति ॥
यत्र तत्र स्थिता विप्रा ब्रह्मघोषमकुर्वत ॥ ३ ॥
यज्ञांश्चैव तथा चित्रानृत्विजोदारकर्मणः ॥
ऋषयश्च महाभागाः प्रकुर्वन्ति समाहिताः ॥ ४ ॥
ऋषिपत्न्यस्तथा साध्व्यः परिचर्यां प्रकुर्वते ॥
दश विष्णुसमाः ख्यातास्तत्रैव निवसन्ति ते ॥ ५ ॥
रुद्रा ह्येकादश प्रोक्ता द्वादशार्कास्तथैव च ॥
अष्टौ च वसवः ख्याता विश्वे देवास्त्रयोदश ॥ ६ ॥
अष्टौ च दिग्गजाश्चैव मनवश्च चतुर्दश ॥
मरुद्गणाश्च ते सर्वे तत्रैवेन्द्रपुरोगमाः ॥ ७ ॥
गन्धर्वासरसश्चैव किन्नरोरगराक्षसाः ।
सिद्धास्तपस्विनो वत्स तत्रैव समुपस्थिताः ॥८॥
अष्टौ वै भैरवाः ख्याताश्चत्वारः पवनात्मजाः ॥
विनायकाश्च षट् प्रोक्ता देव्यश्च चतुर्विंशतिः ॥ ॥ ९ ॥
एते देवगणाः प्रोक्ता रौद्राश्चैव तथा गणाः ॥
ब्रह्मा वेदविदां श्रेष्ठो मरिचिकश्यपादयः ॥ 5.1.45.१० ॥
दक्षः प्रजापतिश्रेष्ठो दितिर्वै देवमातरः ।
सुरभीप्रमुखा गावः स्थावराणि चराणि च ॥ ११ ॥
तीर्थानि यानि सर्वाणि नद्यः प्रस्रवणानि च ॥
क्षेत्राणि चैव सर्वाणि भुवि पुण्यतमानि वै ॥ १२ ॥
सप्त पुर्यस्त्रयो ग्रामा नवारण्या नवोषराः ॥
चतुर्दशानि गुह्यानि मुक्तिद्वाराणि भूतले ॥ १३ ॥
समुद्राश्चैव चत्वारो रत्नानि विविधानि च ॥
सती पतिव्रताः साध्व्यस्तथा ब्रह्मर्षयोऽमलाः ॥
राजर्षयस्तथा शान्ता ब्राह्मणा वेदपारगाः ॥ १४ ॥
वेदाः पुराणस्मृतयो गाथा गीतिप्रहे लिकाः ॥
उपासाञ्चक्रिरे तस्य देवदेवेडुमापतेः ॥ १५ ॥
तस्य दर्शनमात्रेण जातोऽहं विज्वरोऽमलः ॥
दीर्घायुर्दीर्घतपसा जरारोगविवर्जितः ॥१६॥
स्नातोऽहं सर्वतीर्थेषु शुचिर्भूत्वा समाहितः ॥
प्रसन्नमानसो जातः सर्वपापपराङ्मुखः ॥ १७ ॥
दृष्ट्वा पद्मावतीं शुद्धां सर्वकामवरप्रदाम् ॥
न यत्र दृश्यते कश्चिच्छोकरोगपरो जनः ॥ १८ ॥
न दुःखी न च दारिद्रो न मूर्खो नाजितेन्द्रियः ॥
परस्परविरोधी न नृतिर्य्यक्षु च दृश्यते ॥ १९ ॥
अन्योन्यं सर्वमित्राणि अन्योन्यं चोपकारिणः ॥
सर्वे दान्ताश्च शान्ताश्च सर्वे विद्योपदेशिनः ॥ 5.1.45.२० ॥
उद्यानानि च रम्याणि वनान्युपवनानि च ॥
हर्म्याणि च सुशुभ्राणि श्रेणीबद्धानि भान्ति वै ॥२१ ॥
नानारत्नसमाकीर्णैर्हेमकुम्भैः सुशोभनैः ॥
विराजन्ते विचित्राणि गीतवाद्यमहोत्सवैः॥२२ ॥
सदैव वसते यत्र उमया सह शङ्करः ॥
चन्द्रचूडः कृत्तिवासाश्चिताभस्माङ्गलेपनः ॥ २३ ॥
चन्द्रज्योत्स्नाकलापूर्णमरीचिभिः सदा बभौ ॥
यत्र नो कृष्णपक्षोऽभून्नामावास्या न वै तमः ॥ २४ ॥
सदैव पुष्पिता श्यामा बाल्यरूपवती यथा ॥
हर्म्यपृष्ठे गवाक्षे च द्वाराजिरगृहान्तरे ॥ २५ ॥
गिरिगह्वरकुञ्जेषु गुहाध्वान्तान्तरेषु च ॥
आश्रमेषु च रम्येषु वनेषूपवनेषु च ॥ २६ ॥
गृहदीर्घिकासु रम्यासु शालामालासु सर्वतः ॥
चन्द्रज्योत्स्नासमापूर्णा दृश्यन्ते धवला दिशः ॥ २७ ॥
कुमुद्वतीप्रफुल्लानि विराजन्ते सरांसि च ॥
ज्योतिर्गणसमाकीर्णं शरदीव नभःस्थलम् ॥ २८ ॥
नद्यः सरांसि सर्वाणि वापीकूपसुपल्वलाः ॥
कुमुद्वत्या समाकीर्णा आसीच्चान्द्रमसी मही ॥ २९ ॥
यस्मात्सर्वेषु कालेषु प्रफुल्ला च कुमुद्वती ॥
तस्मात्पद्मावती ह्येषा जाता कुमुद्वती पुरी ॥ 5.1.45.३० ॥
कुमुद्वत्यां नरा ये तु श्राद्धं कुर्युः समाहिताः ॥
न तेषां पितरः स्वर्गाच्च्यवन्ते हि कदाचन ॥ ३१ ॥
अक्षयं लभते श्राद्धं पितॄणां दत्तमक्षयम् ॥
स्नानं दानं तथा होमो देवताराधनं तथा ॥ ३२ ॥
यत्किञ्चित्क्रियते कर्म तत्सर्वं चाक्षयं भवेत् ॥
एवं कुमुद्वती जाता पुरी व्यास सनातनी ॥ ३३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कुमुद्वतीप्रभावकथनन्नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥ ॥ छ ॥