०४४ पद्मावतीनामकथावर्णनम्

॥ सनत्कुमार उवाच ॥ ॥
अथातः सम्प्रवक्ष्यामि पद्मावती यथाऽभवत् ॥
शृणुष्व चादृतो व्यास बहुपुण्यकृतां कथाम् ॥ १ ॥
एकदा सर्वरत्नानां हानिर्जाता दुरात्मभिः॥
धर्मग्लानिर्निरोधश्च जातो वै दुष्टदानवैः ॥ २ ॥
तदा सुरासुरैः सर्वैर्मिलित्वा मथितोंऽबु धिः ॥
मेरुर्वंशोदधिः पात्रं रज्जुर्वासुकिपन्नगः ॥ ३ ॥
कूर्मपृष्ठे विधिं कृत्वा रत्नानि दुदुहुस्तदा ॥
आदौ लक्ष्मीर्विनिर्याता कृष्णाय प्रतिपादिता ॥ ॥ ४ ॥
तेन कृत्वा विषादोऽभूद्देवदानवयोस्तदा ॥
एतस्मिन्नन्तरे प्राप्तो नारदो देवदर्शनः॥। ५ ॥
वारितः कलहस्तेन देवदैत्यसमुद्भवः ॥
महाकालवने साऽस्तु पद्मा सिन्धुसमुद्भवा ॥ ६ ॥
सागरान्ते च रत्नानि तिष्ठन्ति विविधानि च ॥
तानि सर्वाणि चादाय भवतां वै ददाम्यहम् ॥ ७ ॥
मथ्यतामुदधिः शीघ्रं नात्र कार्या विचारणा॥
पुनस्ते तूद्यमं चक्रुरमृतार्थं सुरासुराः ॥ ८ ॥
मथ्यमानेंऽबुधौ तेषां मणिः प्राप्तश्च कौस्तुभः ॥
परिजाततरुः पश्चात्सुरा जाता ततः परम् ॥ ९ ॥
धन्वन्तरिरथोत्पन्नश्चन्द्रो जातोऽपि वै ततः ॥
कामधेनुस्ततो जाता गजरत्नं ततः परम् ॥ 5.1.44.१० ॥
उच्चैःश्रवा हयश्रेष्ठः सुधा रम्भा ततस्ततः ॥
ततः परं च सारङ्गं धनुः सर्वास्त्रसम्भवम् ॥ ११ ॥
पाञ्चजन्यस्तथा शङ्खः करे तिष्ठति मुरद्विषः ॥
निधिरेष महापद्मो विषं हालाहलं ततः ॥ १२ ॥
चतुर्दशापि रत्नानि प्राप्तानि विविधानि च ॥
समादाय गतास्तत्र यत्र माहेश्वरं वनम् ॥ १३ ॥
गत्वा ते च समासीना मन्त्रं चक्रुः परस्परम् ॥
अहम्पूर्वमहम्पूर्वमिति ते समयन्त्रिताः ॥ १४ ॥
कोलाहलस्तथोत्पन्नो नारदः पुनरभ्यगात् ॥
तेषां कलिमलं दृष्ट्वा विष्णुमाराधयत्ततः ॥ १५ ॥
मोहनीरूपमास्थाय नारीभूत्वाभ्यगाद्धरिः ॥
अतिरूपवती तन्वी तामालोक्य महासुराः ॥ १६ ॥
विह्वलाङ्गाश्च ते सर्वे कामबाणवशङ्गताः ॥
एतस्मिन्नन्तरे तेषां सुरां प्रादात्सुरेश्वरः ॥ १७ ॥
हस्तलाघवयोगेन देवानाममृतं ददौ ॥
एतस्मिन्नन्तरे व्यास राहुस्तद्रू पधारकः ॥ १८ ॥
तेषामन्तरगो भूत्वा पपौ चामृतमुत्तमम् ॥
तज्ज्ञात्वा च द्रुतं विष्णुः शिरश्चक्रेण चाच्छिनत् ॥१९॥
सुधास्पर्शप्रसङ्गेन न ममारासुरस्तदा ॥
राहुः केतुरिति ख्यातौ क्षेत्रेऽस्मिन्मुनिसत्तम ॥ 5.1.44.२० ॥
राहुकायात्समुद्भूतं बहु सुस्राव शोणितम् ॥
तस्मिन्क्षेत्रे महत्तीर्थं जातं तद्दोष नाशनम् ॥ २१ ॥
तत्र स्नात्वा शुचिर्भूत्वा राहोर्दर्शनतत्पराः ॥
न तेषां जायते किञ्चिद्राहुपीडा कदाचन ॥ २२ ॥
वाञ्छितार्थमवाप्नोति गोसहस्र फलं भवेत् ॥
ततस्तानि च रत्नानि महाकालवने सुराः॥ २३ ॥
विभज्य भागांस्ते सर्वे प्राप्य रत्नभुजोऽभवन् ॥
मणिं पद्मां धनुः शङ्खं विष्णवे नारदो ददौ ॥ २४ ॥
सूर्याय च ददौ ह्यश्वं सप्तास्यं चाब्धिसम्भवम् ॥
ऐरावतं गजश्रेष्ठं वासवाय समर्पयत् ॥ २५ ॥
पीयूषं दिविषद्गणान्ददौ चन्द्रं च शम्भवे ॥
पारिजातं तरुश्रेष्ठं रम्भां चैव वराङ्गनाम् ॥ २६ ॥
इन्द्रक्रीडावने रम्ये नन्दने च समर्पयत् ॥
ऋषीणां समदाद्धेनुं कामदोग्ध्रीं यज्ञसिद्धये ॥ २७ ॥
निधिरेष महापद्मः कुबेरभवनं गतः ॥
यत्तद्धालाहलं प्रोक्तं विषं केनापि नादृतम् ॥ २८ ॥
यतोयतः प्रसरति प्रलयं यान्ति जन्तवः ॥
दधार तद्विषं शम्भुर्जगतां हितकाम्यया ॥ २९ ॥
तदाप्रभृति महादेवो नीलकण्ठ इति स्मृतः ॥
रत्नकुण्डे नरः स्नात्वा नीलग्रीवं च पश्यति ॥ 5.1.44.३० ॥
मुक्त्वा स सर्वपापेभ्यः सर्वरत्नभुजो भवेत् ॥
शताश्वमेधिकं पुण्यं लब्ध्वा शिवपुरं व्रजेत् ॥ ३१ ॥
तदादाय सुराः सर्वे ब्रह्मविष्णुपुरोगमाः ॥
ऊचुश्च ते तदा व्यास हर्षनिर्भरमानसाः ॥ ३२ ॥
उज्जयिनीं समासाद्य जाता रत्नभुजो वयम् ॥
पद्मायाश्च निवासेन यस्मात्सर्वसुखावहा ॥ ३३ ॥
तस्मात्सर्वेषु कालेषु पद्मा वसतु निश्चला ॥
अद्यप्रभृति पूरेषा पद्मावतीति च स्मृता ॥ ३४ ॥
य एतस्यां महाभागाः स्नानं दानं तथार्चनम् ॥
तर्पणं चैव देवानां पितॄणां च विशेषतः ॥ ३५ ॥
न तेषां दुष्कृतं किञ्चिन्न दारिद्र्यं न दुर्गतिः ॥
शतं कुलानि सर्वाणि तारयेन्निरयात्तदा ॥ ३६ ॥
धनार्थी चैव पुत्रार्थो विद्यार्थो बहुकामुकः ॥
यत्रकुत्र स्थितो भूत्वा पद्मावतीति च स्मरेत् ॥ ३७ ॥
सर्वान्कामानवाप्नोति शिवः साक्षाद्भवेन्नरः ॥
एतद्व्यास फलं नाम्नः किं चिरं सेवनेन वै ॥ ३८ ॥
ये शृण्वन्ति कथां पुण्यां ये श्रावयन्ति नित्यशः ॥
न तेषां पातकं किञ्चिदश्वमेधफलं लभेत् ॥ ॥ ३९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये पद्मावतीनामकथावर्णनन्नाम चतुश्चत्वारिं शोऽध्यायः ॥ ४४ ॥ छ ॥