॥ सनत्कुमार उवाच ॥ ॥
एकस्मिन्नन्तरे व्यास यथोज्जयनी स्मृता पुरी ॥
तथाहं सम्प्रवक्ष्यामि शृणुष्व त्वं समाहितः ॥ १ ॥
त्रिपुराख्यो महादैत्यः सर्वदैत्यजनेश्वरः ॥
तपस्तेपे सुदुर्धर्षं ब्रह्मणस्तुष्टिकारणात्॥ २ ॥
आतपे चाग्निसेवां वै प्रावृषि मेघडम्बरम् ॥
दमयित्वा तदात्मानं शीतकाले जलाशये ॥ ३ ॥
शीर्णपत्र जलाहारो वायुभक्षी निराश्रयः ॥
गायत्रीव्रतमास्थाय त्यक्तसर्वपरिग्रहः ॥४॥
एवं वर्षसहस्रं तु तपस्तप्तं सुदुश्चरम् ॥
पूर्णे वर्षसहस्रे तु ब्रह्मा प्रीततमो ऽब्रवीत्॥५॥
व्रियतां भोऽसुरश्रेष्ठ वरं मत्तोभिवाञ्छितम्॥
तत्सर्वं साम्प्रतं लोके वरं तुभ्यं ददामि वै॥ ॥ ६॥
एवमुक्तः स विधिना दैत्यस्त्रिपुरसञ्ज्ञितः॥
उवाच वचनं सद्यो ब्रह्माणं संशितव्रतम्॥
त्रिपुर उवाच॥
यदि तुष्टमना ब्रह्मन्वरं मे दातुमिच्छसि॥
देवदानगन्धर्वपिशाचोरगराक्षसैः ॥
अवध्योऽहं सदा भूयां वरमेतद्वृणोम्यहम् ॥ ८ ॥
॥ ब्रह्मोवाच ॥ ॥
एवं भवतु भो वत्स विचरस्वाकुतोभयः ॥
इत्युक्त्वा सहसा ब्रह्मा तत्रैवान्तरधीयत ॥९॥
तदारभ्य महादैत्यो देवानां कदनं महत् ॥
चकार कोपपूर्णो वै पूर्ववैरमनुस्मरन् ॥ 5.1.43.१० ॥
वासयित्वा यत्र तत्र त्रिपुराणि चराणि च ॥
अत्र वासकृतः सर्वे वर्णाश्रमपरा जनाः ॥ ११ ॥
तेषां वै कदनं चक्रे नानोपायेन पापधीः ॥
तस्मिन्पुरे दुष्टवासे ब्राह्मणा वेदपारगाः ॥ १२ ॥
न जुहुयुश्चाग्निहोत्रं सोमपानं न कर्हिचित् ॥
कुतश्चित्सुकृतं कर्म जनाः कुर्वन्ति नो मुने ॥ १३ ॥
स्वाहाकारस्वधाकारवषट्कारविवर्जिताः ॥
नोत्सवो दृश्यते गेहे कस्यचिद्भुवि विस्तृतः ॥ १४ ॥
देवतायतनं नास्ति तथा नो शिवपूजनम् ॥
नास्ति यज्ञो न दानानि न गोब्राह्मणपूजनम् ॥ ॥ १५ ॥
सदाचारजनो नास्ति दया मानविवर्जिता ॥
न दानी नोपकारी च तपस्वी नैव दृश्यते ॥ १६ ॥
एवं व्यास पुरे तस्मिन्नष्टप्रायमिदं जगत् ॥
प्रजानां ब्राह्मणा मूलं वेदमूला हि ब्राह्मणाः ॥ १७ ॥
वेदमूलपरा यज्ञा यज्ञमूला हि देवताः ॥
तस्माद्व्यास हतं सर्वं कृतं तेन दुरात्मना ॥ ॥ १६ ॥
तेन देवगणाः सर्वे हतप्राया हतौजसः ॥
विचरन्ति यथा मर्त्या भुवि तेन पराजिताः ॥ १९ ॥
अन्योन्यकृतसन्धाना मन्त्रं कृत्वा समा हिताः ॥
जग्मुस्ते तत्र यत्रास्ते प्रजापतिरकल्मषः ॥ 5.1.43.२० ॥
त्रिदशाः कथयामासुरात्मव्यसनकारणम् ॥
तज्ज्ञात्वा सहसोत्थाय ब्रह्मा लोकपिता महः ॥ २१ ॥
जगाम त्रिदशैः सार्धं महाकालवनोतमम् ॥
यत्रास्ते सततं देव उमया सहितः शिवः ॥ २२ ॥
यत्रावन्ती पुरी दिव्या सर्वतीर्थनिषेविता ॥
तत्रागत्य सुरैः साकं स्वयम्भूश्चतुराननः ॥२३॥
स्नानं दानं जपं होमं कृत्वा रुद्रसरे तदा ॥
पूजयित्वा महाकालं ब्रह्मा वचनमब्रवीत् ॥२४॥ ॥
॥ ब्रह्मोवाच ॥ ॥
देवदेव महादेव भक्तानामभयङ्कर ॥
श्रूयतां भोः सुरश्रेष्ठ देवकार्यमनुत्तमम् ॥२५॥
त्रिपुरोनाम दैत्येन्द्रो देवानां कदनं महत् ॥
करोति सततं दैत्यो देवब्राह्मणनिन्दकः ॥२६॥
वासयित्वा पुरस्तिस्रो विस्तीर्णा विचरत्यथ ॥
तत्र स्थितानि भूतानि नाशं यान्ति दुरात्मना ॥२७॥
एवं कृत्वा प्रजाः सर्वाः क्षयं नीताश्चराचराः ॥
उद्वासितानि द्वीपानि ग्रामाश्च नगराणि च ॥२८॥
ऋषीणामाश्रमाः सर्वे यतीनामायतनानि च ॥
एवं कृत्वा सुराः सर्वे भ्रष्टराज्याः पराजिताः ।ऽ। २९ ॥
विचरन्ति यथा मर्त्यास्त्रिपुरेण दुरात्मना ॥
मत्तो लब्धवरो नित्यं व्रजत्येवाकुतोभयः ॥ ॥ 5.1.43.३० ॥
तस्मात्सर्वप्रयत्नेन वधस्तस्य विचिन्त्यताम् ॥ ३१ ॥
इति श्रुत्वा वचस्तस्य ब्रह्मणः संशितात्मनः ॥
चिरं ध्यात्वा महादेवो ब्रह्माणं तमुवाच ह ॥ ३२ ॥
॥ महादेव उवाच ॥ ॥
श्रूयतां भोः सुरश्रेष्ठा ब्रह्मशक्रपुरोगमाः ॥
जयोपायं करिष्यामि दैत्यस्यास्य दुरात्मनः ॥३३॥
तपश्चरत यूयं वा आत्मनो जयकाङ्क्षिणः ॥
अवन्त्यां यद्धुतं दत्तं तत्सर्वं चाक्षयं भवेत् ॥ ३४ ॥
इत्युक्त्वा सर्वदेवानां तत्रैवान्तर्हितः शिवः ॥
गत्वा स्मशाननिलये भूतप्रेतनिषेविते ॥ ३५ ॥
जयार्थं तस्य दैत्यस्य त्रिपुरस्य दुरात्मनः ॥
उपासाञ्चक्रिरे तत्र चामुण्डायाः सुरेश्वराः॥ ॥ ३६ ॥
महिषैश्च महामेध्यैः पशुपुष्पार्घतर्पणैः ॥
बलिभिर्विविधैर्दानैर्धूपदीपाग्नितर्पणैः ॥
पूजयित्वा तदा देवीं तामीडे वृषभध्वजः ॥ ३७ ॥
दुर्गां भगवतीं भद्रां दुर्गसंसारतारणीम् ॥
त्रिपुरान्तकारिणीं कृत्यां चण्डमुण्डवधोद्यमाम् ॥ ३८ ॥
दैत्यमेदोमदोन्मत्तां रक्ताख्यां रक्तदन्तिकाम् ॥
रक्ताम्बरधरां धीरां रक्तपुष्पावतीं सतीम् ॥ ३९ ॥
महिषवाहिनीं श्यामां यक्षासनपरिग्रहाम् ॥
द्वीपिचर्मपरीधानां शुष्कमांसाति भैरवाम् ॥ 5.1.43.४० ॥
पूजयित्वा प्रसन्नात्मा ध्यानमास्थाय संस्थितः ॥
तदा भगवती भद्रा ययेदं धार्यते जगत् ॥
प्रसन्नवदना भूत्वा प्रत्यक्षं प्राह चण्डिका ॥ ४१ ॥
॥ देव्युवाच ॥ ॥
व्रियतां भोः सुरश्रेष्ठ वरं मत्तोऽभिवाञ्छितम् ॥
सर्वं त्वयोक्तं यच्छामि जगतामुपकारकम् ॥ ४२ ॥
॥ श्रीहर उवाच ॥ ॥
यदि तुष्टासि वै देवि देहि मे वरमुत्तमम् ॥
येन हन्मि महादैत्यं त्रिपुरं देवकण्टक म् ॥ ४३ ॥
॥ श्रीदेव्युवाच ॥ ॥
जय ह्येनं महादेव गृहाण पाशुपतं परम् ॥
मया दत्तं सुरश्रेष्ठ दैत्यनाशकरं परम् ॥ ४४ ॥
महापाशुपतं शस्त्रं करे कृत्वा च शङ्करः ॥ ४५ ॥
उज्जहार तदा शम्भुर्दैत्यनाशाय सत्वरः ॥
महाडम्बरिको भूत्वा सर्वप्राणिभयङ्करः ॥ ४६ ॥
स्तुतिं कृत्वा ययौ वाग्भिः पृष्ठतोऽनुययुः सुराः ॥
शरेणैकेन वै रुद्रो जघान तं महासुरम् ॥ ४७ ॥
मायिनं तं त्रिधा भित्त्वा मायायुद्धेन शङ्करः ॥
पुनरागात्पुरीमेतामवन्तीममरसेविताम् ॥ ४८ ॥
जयाशिषा प्रयुञ्जाना ऋषयः सिद्धचारणाः ॥
तुष्टुवुश्च तदा देवा जयशब्देन हर्षिताः ॥ ४९ ॥
अप्सरा ननृतुस्तत्र गन्धर्वा ललितं जगुः ॥
ववौ तदा पुण्यतमो वायुः सुखप्रदो नृणाम् ॥5.1.43.५०॥
जयशब्दस्तदा जातः प्राणिनां च गृहेगृहे ॥
जज्वलुश्चाग्नयः शान्ताः शान्ता दिग्ज नितस्वनाः ॥ ५१ ॥
प्रवर्तन्ते तदा यज्ञा महोत्सवसदक्षिणाः ॥
देवाः प्रपेदिरे स्थानं स्वकीयं पुनरादृतम् ॥ ५२ ॥
उज्जितो दानवो यस्मात्त्रैलोक्ये स्थापितं यशः ॥
तस्मात्सर्वैः सुरश्रेष्ठैर्ऋषिभिः सनकादिभिः ॥ ५३ ॥
कृतं नाम ह्यवन्त्या वा उज्जयिनी पापनाशिनी ॥
अवन्ती च पुरा प्रोक्ता सर्वकामवरप्रदा ॥ ५४ ॥
अद्यप्रभृति पुरी व्यास उज्जयिनी समाश्रिताः ॥
येऽस्यां च स्नानदानादि भुवि कुर्वन्ति मानवाः ॥ ५५ ॥
न तेषां दुष्कृतं किञ्चिद्देहे तिष्ठति पापजम् ॥ ५६ ॥
विद्यार्थी गिरीशं धनार्थी धनेशं सुतार्थी सुतेशं दिनेशं सुखार्थी ॥
धियोर्थी गणेशं प्रियार्थी वसेद्वै गिरां ग्राह्य मानी जनश्चोज्जयिन्याम् ॥ ५७
य एतस्यां महाभाग सदा वसति मानवः ॥
भुक्त्वा कामान्मनोऽभीष्टान्मृतः शिवपुरं व्रजेत् ॥ ५८ ॥
तत्रैव वसते नित्यं कल्पकोटिशताधिकम् ॥ ५९ ॥
य एतां वै कथां पुण्यां पठते शृणुतेऽथ वा ॥
मुच्यते सर्वपापेभ्यो गोसहस्रफलं लभेत् ॥ 5.1.43.६० ॥।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये उज्जयिन्यभिधानकथनन्नाम त्रिचत्वारिंशो ऽध्यायः ॥ ४३ ॥ ॥ छ ॥