॥ सनत्कुमार उवाच ॥ ॥
पुरा चैशानकल्पे तु स्मृतावन्ती यथा पुरी ॥
तथा शृणु सुरैः पूर्वं दैत्यसैन्यपराजितैः ॥ १ ॥
आश्रितं मेरुशिखरं वनकन्दगुहावृतम्॥
तत्र गत्वा द्विजश्रेष्ठ मन्त्रं च चक्रुरुद्यताः॥२॥
अन्योन्यं च समासाद्य समभ्यर्च्य परस्परम्॥
जग्मुः सर्वे सुरगणा यत्र ब्रह्मा प्रजापतिः॥३॥
निवेदयाञ्चक्रिरे सर्वं तत्रागमनकारणम्॥
तेषां तद्वचनं श्रुत्वा देवानां स प्रजेश्वरः॥४॥
जगाम त्रिदशैः साकं देवदेवं महेश्वरम्॥
स चापि ह्यगमत्तत्र वैकुठं धाम यत्र वै ॥ ५ ॥
ऋद्धिसिद्धिप्रदं नित्यं मुनिचारणसेवितम् ॥
किन्नरैर्गीयमानं च अप्सरोगणसेवितम् ॥ ६ ॥
ऋषिभिर्भार्गवादिभिर्देवर्षिनारदोत्तमैः ॥
सिद्धगन्धर्वमुख्यैश्च कुमारैः सनकादिभिः ॥ ७ ॥
प्रजापतिगणाकीर्णं मानवैश्च चतुर्दशैः ॥
वसुभिर्विश्वेदेवैश्च पितॄणामुत्तमैर्गणैः ॥ ८ ॥
संसेव्यं च सदाचारैः पुण्यवद्भिर्जनैस्तथा ॥
दिव्यं दिव्यैश्च प्रासादैर्दिव्यपादपशोभितम् ॥ ९ ॥
मणिरत्नैश्च सोपानै र्दिव्यं सरसशोभितम् ॥
हंसकारण्डवाकीर्णं मणिभाभिः सुभास्वरम् ॥ 5.1.42.१० ॥
षडूर्मिरहितं स्थानं यत्र तिष्ठन्ति पक्षिणः ॥
तत्र गत्वा सुराः सर्वे वासु देवदिदृक्षया ॥
स्तुतिमारेभिरे कर्तुं देवदेवजगत्पतेः ॥११ ॥
॥ देवा ऊचुः ॥ ॥
नमोऽनन्ताय बृहते कूर्माय वै नमोनमः ॥ १२ ॥
नृसिंहरूपायोग्राय नमो वाराहरूपिणे ॥
राघवाय च रामाय ब्रह्मणेऽनन्तशक्तये ॥ १३ ॥
वासुदेवाय शान्ताय यदूनां पतये नमः ॥
नमो बुद्धाय शुद्धाय कल्कये म्लेच्छनाशिने ॥ १४ ॥
इति स्तवाभियुक्तानां वागुवाचाशरीरिणी ॥
शृणुध्वं भोः सुराः सर्वे भूत्वा चैकाग्रमानसाः ॥ १५ ॥
महाकालवने रम्ये ब्रह्मर्षिगणसेविते ॥
तत्र पुण्या पुरी ह्येका सर्वकामफलप्रदा ॥ १६ ॥
नाम्ना कुशस्थली रम्या सिद्धगन्धर्वसेविता ॥
कल्पादौ कल्पमध्ये वा यत्र सन्निहितो हरः ॥ १७ ॥
कल्पक्षये क्षयं यान्ति स्थावराणि चराणि च ॥
तीर्थानि चैव सर्वाणि पुण्यान्यायतनानि च ॥ १८ ॥
सरितः सागराः सर्वे सरांस्युपवनानि च ॥
औषधीर्वृक्षवल्लीश्च यन्त्रं मन्त्रं शुभाशुभम् ॥ १९ ॥
ज्योतींषि चन्द्रसूर्यौ च सर्वं विष्णुमयं जगत् ॥
तेषां बीजं च पुण्यं च जीवकर्माशय तथा ॥ 5.1.42.२० ॥
सर्वमादाय भगवाञ्छङ्करस्तत्र तिष्ठति ॥
सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः ॥ २१ ॥
सर्वयज्ञमयो वेदः सर्वधर्ममयी दया ॥
रेवा च सरितां श्रेष्ठा भुवि पुण्यकृताधिका ॥ २२ ॥
तस्माद्धितकरं क्षेत्रं कुरूणां वै सुरोत्तमाः ॥
तस्माद्दशगुणं मन्ये प्रयागं तीर्थमुत्तमम् ॥ २३ ॥
तस्माद्दशगुणा काशी काश्या दशगुणा गया ॥
ततो दशगुणा प्रोक्ता कुशस्थली च पुण्यदा ॥ २४ ॥
उपरागसहस्राणि व्यतिपातायुतानि च ॥
अमालक्षं तु एतस्याः कलां नार्हन्ति षोडशीम् ॥ २५ ॥
लक्षमिन्दुक्षये दानं सहस्रं चायनद्वये ॥
व्यतीपाते च कोटिः स्याद्रा कायां च ह्यनन्तकम् ॥ २६ ॥
तस्माद्धितकरा देवा पुरी ह्येषा कुशस्थली ॥
अनन्ताऽनन्तसङ्ख्यातं दानं किञ्चित्कृतं नरैः ॥ २७ ॥
तत्सर्वं भोः सुरश्रेष्ठाः सर्वं तच्चाक्षयं भवेत् ॥
तस्मात्सर्वप्रयत्नेन यूयं यात हि मा चिरम् ॥ २८ ॥
क्षीणपुण्या भवन्तो वै बाधन्ते तेन वः सुराः ॥
महाकालवने रम्ये पुरी ह्येषा कुशस्थली ॥ २९ ॥
तत्र गत्वा भवन्तो वै स्नानदानादिकं भुवि ॥
आचरध्वं सुविधिना पुण्यात्स्वर्गमवाप्स्यथ ॥ 5.1.42.३० ॥
एतच्छुत्वा वचस्तस्या वाण्याश्चाकाशगं तदा ॥
प्रणम्य शिरसा तस्यै ब्रह्मेशानपुरोगमाः ॥ ३१ ॥
पुनर्जग्मुः सुराः सर्वे यत्र माहेश्वरं वनम् ॥
पुरीं चैव द्विजश्रेष्ठ सर्वकामफलप्रदाम् ॥ ३२ ॥
चातुर्वर्ण्यसमाकीर्णामृषिगन्धर्वसेविताम् ॥
पुण्यवद्भिर्जनैः पूर्णां सिद्धचारणसेविताम् ॥ ३३ ॥
दरिद्रो न जडो मूर्खो न रोगी न च मत्सरी ॥
न व्याधितो नापकारी जनः क्वचित्प्रदृश्यते ॥ ३४ ॥
दाता शान्ताः सुशीलाश्च जरारोगविवर्जिन्ताः ॥
स्वधर्मनिरता नित्यं सदाचारातिथिप्रियाः ॥ ३५ ॥
नरा यत्र निवसन्ति नार्यश्चैव पतिव्रताः ॥
महोत्सवाः सुगीतानि हव्यं कव्यं गृहेगृहे ॥ ३६ ॥
ईदृशीं च पुरीं दृष्ट्वा देवा हर्षं परं गताः ॥
तत्र तीर्थं समाख्यातं नाम्ना पैशाचमोचनम् ॥ ३७ ॥
पुण्यवद्भिः सदा सेव्यं सर्वतीर्थनिषे वितम् ॥
तस्मिन्स्नात्वा च जप्त्वा च हुत्वा दत्त्वा च देवताः ॥ ३८ ॥
पुण्यं चाथाक्षयं लब्ध्वा पुनर्याताः सुरालयम् ॥
जित्वाऽसुरान्महादुष्टान्स्थानं प्राप्ताः स्वकंस्वकम्॥ ३९ ॥
येऽस्यां कुर्युर्महाभागाः स्नानं दानं तथार्चनम् ॥
हवनं तर्पणं पितॄंस्तत्सर्वं स्याद्ध्यनन्तकम् ॥ 5.1.42.४० ॥
तस्मात्सर्वप्रयत्नेन एतत्कार्यं सदा बुधैः॥
देवतीर्थोषधीबीजभूतानां चैव पालनम् ॥ ४१ ॥
कल्पेकल्पे च यस्यां वै तेनावन्ती पुरी स्मृता ॥
अद्यप्रभृति पुरी ह्येषा नाम्नावन्ती कुशस्थली ॥४२ ॥
इत्युक्त्वा वै तदा देवाः स्वधाम परमं गताः ॥
तदारभ्य द्विजश्रेष्ठ ह्यवन्ती भुवि विश्रुता ॥ ४३ ॥
य एतां सुकथां दिव्यां पुण्यां च पापहारिणीम्॥
शृणुयाच्छ्रावयेद्यो वै सर्वपापैः स मुच्यते ॥ ४४ ॥
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ॥
वाजपेयसहस्राणां राजसूयशताधिकम् ॥ ४५ ॥
पुण्यं लब्ध्वा नरो नित्यं शिवलोके महीयते ॥ ४६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽवन्त्यभिधानकथावर्णनन्नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥ ॥ छ ॥