॥ सनत्कुमार उवाच ॥ ॥
शृणु व्यास यथेयं तु प्रोच्यते हि कुशस्थली ॥
कल्पे तत्पुरुषे पूर्वं वेदविद्भिर्मनीषिभिः ॥ १ ॥
वेधसा सृजितं विश्वं दैत्यदानवरा क्षसम् ॥
अन्योन्यमदसम्मत्तमन्योन्यद्वेषि वै रणे ॥ २ ॥
देवाश्च दानवाः सङ्ख्ये नित्यं स्पर्धासमन्विताः ॥
मनुष्या मनुजैः सार्धं सिद्धविद्याधरैः सह ॥ ३ ॥
चारणाः किन्नरैः सार्धमेवं ते द्वेषतत्पराः ॥
युद्धं कुर्वन्ति सततमविस्पष्टार्थया गिरा ॥ ४ ॥
सर्वे चैव च बलिनो दुर्बलैर्मनुजैः सह ॥
पशवः पशुभिः सार्धं पक्षिणः सह पक्षिभिः ॥ ५ ॥
एवमन्योन्यमन्यैश्च निर्मर्यादमिदं जगत् ॥
दृष्ट्वा विश्वस्य कर्तारं विष्णुं विश्वेश्वरं परम् ॥ ६ ॥
व्रजामि शरणं देवं शरणार्त्तिहरं हरिम् ॥
एवं मनसि सन्धाय दध्यौ ध्यानेन माधवम् ॥ ७ ॥
ततो ध्यातो महायोगी विश्वरूपधरो हरिः ॥
लोहदण्डधरः श्रीमानिदमाह पितामहम् ॥ ८ ॥
ब्रह्मन्ध्यातस्त्वया सम्यग्ध्यानयोगेन पश्य माम् ॥
समायान्तं तथा ध्यातं जगतां पातुमुद्यतम् ॥ ९ ॥
ततो धाता निशम्यैतत्त्यक्त्वा ध्यानमवेक्ष्य तम् ॥
समुत्थायैकमनसा नमश्चक्रेऽर्चयत्पुनः ॥ 5.1.41.१० ॥
पाद्येनाचमनीयेन मधुपर्केण केशवम् ॥
पूजयित्वा पुनर्वाक्यमुवाचाच्युतमब्जजः ॥ ११ ॥
॥ ब्रह्मोवाच ॥ ॥
देवदेव जगन्नाथ जगत्सृष्टमिदं त्वया ॥
ऋते त्वया जगद्विष्णो नैवावस्थातु मर्हति ॥ १२ ॥
शास्ता त्वमस्य विश्वस्य विशुद्धस्य च नापरः ॥
त्वत्तोस्तीदं जगत्सर्वं तस्मात्त्वमनुशासय ॥ १३ ॥
देवदानवगन्धर्वाः सयक्षो रगराक्षसाः ॥
त्वामृते पुण्डरीकाक्षं व्यापिताशेषविग्रहाः ॥
परस्परं विनिघ्नन्ति तांश्च त्वं रक्षितुं क्षमः ॥ १४ ॥
त्वमस्य विश्वस्य चराचरस्य स्थितेः सदा प्राणभृदात्मरूपिणी ॥ १५ ॥
त्वया धृतं सर्वमिदं जगद्वै यतस्ततोऽसि त्वमुपेन्द्रसञ्ज्ञः ॥
प्रवेशनं व्याप्तमिदं स्वधाम यत्त्वमुच्यसे विष्णुरतो मुनीन्द्रैः ॥ १६ ॥
निवासितं विश्वमिदं त्वयाद्य वासश्च धातोरिति वासुदेवः ॥
तवानुगं विश्वमिदं विभुस्त्वमशेषविश्वस्य विभासि राजा ॥ १७ ॥
सेनानुरूपं जगदेव यस्मादतः स्मृतस्त्वं किल विश्वसेनः ॥
विलेखनादस्य चराचरस्य कृतेश्च धातोस्त्वमतोऽसि कृष्णः ॥ १८ ॥
जितं त्वया देव जगत्त्रयं यज्जितेश्च धातोस्त्वमतोऽसि जिष्णुः ॥
तस्मात्समस्तग्रहलोकपालं जगद्विभो पालय सर्वकालम् ॥१९॥
त्वमस्य सर्वस्य भवादिराजस्तवास्तु भद्रासनमद्वितीयम॥
प्रदक्षिणावर्तनकस्तु शङ्खः करस्थितः शोभति पूरुषस्य ॥ 5.1.41.२० ॥
सुदर्शनं नाम तवास्ति चक्रमतो हि गीतः कविभि स्तु चक्री ॥
ध्वजोऽस्ति ते देव सुपर्णसेवितस्तथासुपर्णश्च तवास्ति वाहनम् ॥२१॥
तुरङ्गमाः सन्तु तवारिसंहरे तथा हृषीकेश सुदन्तदन्तिनः॥
किरीटनिष्काङ्गदकर्णपूरकेयूरहारोत्तमहेमसूत्रैः ॥ २२ ॥
विचित्रवस्त्रोत्तमरक्तमाल्यैर्विभूषितस्त्वं भव भीमसेनः ॥
श्रिया कदाचिच्च न मुच्यते भवान्भवं ति ते नित्यमनन्तसम्पदः ॥ २३ ॥
तवानुगा भक्तिरिहास्तु वै सती मुकुन्द भक्ते त्वमतः प्रसीद मे ॥ २४ ॥
॥ सनत्कुमार उवाच ॥ ॥
स एवमुक्तस्तु पुरो दिवौकसां विभुः प्रसन्नस्त्विदमब्रवीद्धरः ॥
विरिञ्च मे दर्शय तस्य मण्डलं त्वया विमुक्तं च सदाशिवं विभो ॥ २५ ॥
स्थिरं स्थि यत्र जगत्करोम्यहं ततो विरञ्चिः कुशमुष्टिमाददे ॥
पवित्रदेशस्य निदर्शनाय जगाम पुण्यं च्यवनाश्रमं तदा ॥ २६ ॥
ततः स्थलीमुच्चतरामवाप्य पितामहः केशवमाह चादरात् ॥
त्वदुद्भवं चात्र पवित्रमण्डलं त्वया विमुक्तं च सदा शिवं विभो ॥ २७ ॥
त्वमेव विष्णुर्विबुधार्चितः सदा स्मृतो मुनीन्द्रैः स च विष्टरश्रवाः ॥
निषीद विश्वेश कुशस्थलं यदा तदाश्रितो माधवमासरूपवान् ॥ २८ ॥
कुशस्थलीं संस्थित एव देव इत्थं विधात्रा पुरुषोत्तमः स्तुतः ॥
स्थलीं कुशैरास्तरितामुपाविशत्कुशस्थलीं देवमुनीन्द्रसेविताम् ॥ २९ ॥
समन्ततो योजनसं ख्ययावृतां ततो विधाता पुरुषोत्तमस्तथा ॥
कुशस्थलीति प्रथितं जगत्त्रये प्रचक्रतुर्नाम च तावुभावपि ॥ 5.1.41.३० ॥
तत्र विश्वपतिः श्रीमान्विश्वेशो विश्वकृद्विभुः ॥
विश्वं शशास विश्वात्मा सर्वविश्वस्य नायकः ॥ ३१ ॥
एवं कुशस्थली ख्याता हेमशृङ्गेति या पुरा ॥
स्तीर्णा कुशैर्यतो धात्रा कुशस्थली ततः स्मृता ॥ ३२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये व्याससनत्कुमारसंवादे कुशस्थलीनामहेतुकथावर्णनन्नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥ ॥. छ ॥ ॥