॥ व्यास उवाच ॥ ॥
भगवन्भवता सर्वं भवभीतिविनाशकम् ॥
ईश्वरस्थानमाख्यातं समन्तात्साग्रयोजनम् ॥ १ ॥
यत्र क्षेत्रे मृता मर्त्याः सदाचारास्तथोत्तमाः ॥
विमानस्था पुरे नूनमैश्वरे ते वसन्ति च ॥ २ ॥
यत्र कीटपतङ्गाद्या मृता यान्ति परां गतिम् ॥
किं तीर्थं पुण्यमन्यच्च महाकालवनादृते ॥ ३ ॥
तस्माद्ब्रूहि ममैकं तु प्रश्नं तथ्येन साम्प्रतम् ॥
कथं कनकशृङ्गेति ख्याता ह्येषा पुरा मुने ॥ ४ ॥
कुशस्थली कथं नाम तथावन्ती कथं स्मृता ॥
पद्मावती कथं साधो कथमुज्जयिनी तथा ॥ ५ ॥
नाम्नां हेतुमथो तेषां ब्रूहि त्वं मुनिसत्तम ॥ ६ ॥
॥ सनत्कुमार उवाच ॥ ॥
शृणु व्यास प्रवक्ष्यामि यथा पूर्वं विरञ्चिना ॥
कथितं वामदेवाय गौरकल्पे पुरातने ॥ ७ ॥
महेशेन भगवता विधिश्चैवात्र हेतुतः ॥
पृष्टस्तु स्वश्च्युतानां च कुतो निवसतां सुखम् ॥ ८ ॥
स्वर्गप्राप्तिश्च भवति स्वेच्छाचारविहारिणाम् ॥
कोऽतिपुण्यतमः श्रेष्ठः प्रदेशः पापदारकः ॥ ९ ॥
कुतो निवर्तितं चित्तं जायते वसतां क्वचित् ॥
वसतामपि लोके शमैहिकं पारलौकिकम् ॥
एतन्मे भगवन्ब्रूहि हितार्थं सर्वदेहिनाम् ॥ ॥ 5.1.40.१० ॥
॥ सनत्कुमार उवाच ॥ ॥
एवमादौ पुरा कल्पे प्रोक्तः श्रेष्ठः स शम्भुना ॥ ११ ॥
प्रोवाच पार्वतीकान्तं प्रभुः प्रीतः पितामहः ॥
भगवन्सर्वकर्ता त्वं सर्वदर्शी सदाशिवः ॥ १२ ॥
अजानन्निव त्वं सर्वं मां पृच्छसि सनातन ॥
यत्र कल्पान्तको वह्निरधिज्वालः प्रतिष्ठितः ॥ ॥ १३ ॥
त्वमेव च महाकालः सर्वं वै ज्ञायते त्वया ॥
नाथ ये मानवास्तत्र सदाचारास्तथा परे ॥ १४ ॥
निवसन्ति न ते मर्त्याः सुरास्ते वै न संशयः ॥
लभन्ते च पुनः स्वर्गं मृता वै कालपर्यये ॥ १५ ॥
वर्तते च पुरी तत्र रम्यहर्म्या सुशोभना ॥
यस्यां भान्ति विचित्राणि हर्म्याणि विविधानि च ॥ १६ ॥
स्वर्णशृङ्गाश्च प्रासादा विहिता विश्वकर्मणा ॥
देवाः सन्ति सदा तत्र तीर्थानि विविधानि च ॥ १७ ॥
पूर्वकल्पे स्थितोऽहं च यत्र त्वं केशवस्तथा ॥
तामेव च पुरीं द्रष्टुं सर्वे लोका ह्यवन्तिकाम् ॥ १८ ॥
तथा देवर्षयः सिद्धा यक्षकिन्नरदानवाः ॥
आजग्मुः स्थाणुना सार्धं वेधसा ब्रह्मयोनिना ॥ १९ ॥
तथैव च वरा नार्यो देवानामतिवल्लभाः ॥
समापेतुः सहस्राणि द्रष्टुमत्यद्भुतां पुरीम् ॥ 5.1.40.२० ॥
आगत्य च यदा देवः सह देवैर्महेश्वरः ॥
वीक्षते नगरीं रम्यामपश्यदावृतां तथा ॥ २१ ॥
प्रासादैः स्वर्णशृङ्गाढ्यैर्मणिरत्नविभूषितैः ॥
विश्वरूपो हि भगवान्राजा विश्वैक नायकः ॥ २२ ॥
तत्रास्ते शोभने दिव्ये प्रासादे मणिभूषिते ॥
सेव्यमानः सुरैः सिद्धैर्मुनिविद्याधरोरगैः ॥ २३ ॥
ततो महेशश्च पितामहश्च समेत्य तं विश्वपतिं ननन्दतुः ॥
समर्चितौ तेन यथार्हमादरात्सहानुगावागमनं त्वपृच्छत् ॥ २४ ॥
किमागतौ वा त्रिदिवान्महीतलं सहानुगावाश यकश्च कथ्यताम् ॥
ततस्तु तावूचतुरब्जजेश्वरौ भवान्तरे यत्र च तत्र नौ रतिः ॥ २५ ॥
त्वया विना नैव सुरालये सुखं महीतले वाथ रसातलेऽ स्ति नः ॥
कदा त्वया काञ्चनशेखरा पुरी निवेशिता वेश्मवती विचित्रिता ॥ २६ ॥
॥ हरिरुवाच ॥ ॥
त्वदर्थमेवेश विशेषशालिनी सृष्टा हि वै सर्वगुणाकरा मया ॥
प्रयच्छ विश्वेश्वर चावयोरिह स्थानं च तीर्थं प्रलयेऽक्षयं च ॥ २७ ॥
ददाम्यभीष्टं युवयोरिहालयं प्रजापते ह्युत्तरतस्तव स्थितिः ॥
महेश्वर त्वं व्रज दक्षिणालयं स्थानं सुदत्तं युवयोः सुशोभनम् ॥ २८ ॥
महाकालो ह्यधोज्वालो जगदात्मा प्रभुः स्थितः ॥
गणैरनेक साहस्रैरादृतः परमेश्वरः ॥ २९ ॥
क्रीडार्थं नगरी सृष्टा सर्वभूतहितैषिणा ॥
मयाद्य युवयोर्दत्ता विहायाऽचलमात्मनः ॥ 5.1.40.३० ॥
भवद्भ्यां हेमशृं गेति यस्माच्च समुदीरिता ॥
पुरी कनकशृङ्गेति लोके ख्याता भविष्यति ॥ ३१ ॥
एवं कनकशृङ्गेति प्रथमं नाम कथ्यते ॥ ३२ ॥
जपन्तश्च स्थिता यत्र ब्रह्मविष्णुमहेश्वराः ॥
नित्यं रमन्ति भक्तानां सर्वाभीष्टफलप्रदाः ॥ ३३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कनकशृङ्गाभिधानवृत्तान्तवर्णनन्नाम चत्वारिंशोऽध्यायः ॥ ४० ॥ ॥ छ ॥