॥ व्यास उवाच ॥ ॥
भगवन्क्षेत्रमाहात्म्यं कथितं च यथातथम् ॥
तीर्थानामुत्तमं तीर्थं पुण्यानां पुण्यवर्धनम् ॥ १ ॥
कति सन्त्यत्र तीर्थानि लिङ्गानि च तथा कति ॥
कथयस्व प्रसादेन पृच्छतो मम साम्प्रतम् ॥ २ ॥
॥ सनत्कुमार उवाच ॥ ॥
षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ॥
महाकालवने व्यास लिङ्गसङ्ख्या न विद्यते ॥ ३ ॥
अकामो वा सकामो वा जायते योऽत्र मानवः ॥
महाकालवने रम्ये शिवलोके महीयते ॥ ४ ॥
कृतकामानि तीर्थानि प्रासादायतनानि च ॥
तेषु स्नात्वा शुचिर्भूत्वा शिवलोके महीयते ॥ ५ ॥
पुण्यानि सर्वतीर्थानि सिद्धिक्षेत्राणि सर्वतः ॥
तेषां मुख्यतमं विद्धि क्षेत्रं तीर्थं तथोत्तमम् ॥ ॥ ६ ॥
यः शृणोति महाभक्त्या स याति परमां गतिम् ॥ ७ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्य खण्डेऽवन्तीक्षेत्रमाहात्म्ये महाकालवनमाहात्म्यवर्णनन्नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥ ॥ छ ॥