॥ सनत्कुमार उवाच ॥ ॥
नास्ति शेषं यदा रक्तं पीयमानं च रक्षसः ॥
चामुण्डायास्ततो रक्तमभूदास्यं च भासुरम् ॥१॥
कृष्णं कृतान्तकल्पान्तं करालदशनाधरम् ॥
प्रज्वलत्यन्धके शान्तं ज्वलत्केसरलोचनम् ॥२॥
घोरघर्घरनिर्घोषस्फीतफेत्कारविस्वरम् ॥
तार्क्ष्यपक्षकृतापीडं तीक्ष्णदंष्ट्राकुरोज्ज्वलम् ॥३॥
तस्मिन्मुखे कपालाग्रं निधाय रुषितानना ॥
अपिबद्रुधिरं चण्डी चण्ड दोर्दण्डमण्डिता ॥ ४ ॥
तया पिबन्त्या दैत्येन्द्रः शरीरे कृशतां गतः ॥
क्षयं निन्येऽथ सङ्क्षीणक्षुद्रक्षुभितवीक्षणः ॥ ५ ॥
इत्थं निर्वीर्यदेहोऽसौ बभूवान्ध कदानवः ॥
सर्वां संहृत्य मायां यो बलं क्षीणमथाकरोत् ॥ ६ ॥
तीव्रं भयं समासाद्य प्राणत्राणपरायणः ॥
दृष्ट्वा नान्यां गतिं लोके दैत्यस्तुष्टाव शङ्करम् ॥ ७ ॥
कृताञ्जलिपुटो भूत्वा रोमाञ्चितशरीरकः ॥
सात्त्विकं भावमापन्नस्त्यक्त्वा चैव रजस्तमः ॥ ८ ॥
लोकानां कारणं देवं विबुधाधि पतिं प्रभुम् ॥
शश्वद्बुद्ध्यान्वितो भक्त्या निर्मलेनान्तरात्मना ॥ ९ ॥
श्लाघ्यं शिवं च तुष्टाव देवं चन्द्रार्धशेखरम् ॥ 5.1.38.१० ॥
॥ अन्धक उवाच ॥ ॥
कृत्स्नस्य योऽस्य जगतः सचराचरस्य कर्ता कृतस्य च तथा सुखदुःखदाता॥
संसारहेतुरपि यः पुनरन्तकाले तं शङ्करं शरणदं शरणं व्रजामि ॥११॥
यं योगिनो विगतमोहतमोरजस्का भक्त्यैकतानमनसो विनिवृत्तकामाः ॥
ध्यायन्ति येऽखिलधियोऽमितदिव्यभूतिं तं शङ्करं शरणदं शरणं व्रजामि ॥ १२ ॥
यश्चन्द्रखण्डममलं विलसन्मयूखं बद्ध्वा सदा सुरसरिच्छिरसा बिभर्ति ॥
यस्यार्धदेहमभजद्गिरिराजपुत्री तं शङ्करं शरणदं शरणं व्रजामि ॥ ॥ १३ ॥
यः सिद्धचारणनिषेवितपादपद्मो गङ्गां महोर्मिविषमां गगनात्पतन्तीम् ॥
मूर्ध्ना दधे स्रजमिव त्रिजगत्पुनन्तीं तं शङ्करं शरणदं शरणं व्रजामि ॥ १४ ॥
कैलासशैलशिखरं प्रविकम्प्यमानं कैलासशृङ्गसदृशेन दशाननेन ॥
यः पादपद्मपरिपीडनसेव्यमानस्तं शङ्करं शरणदं शरणं व्रजामि ॥ १५ ॥
दक्षाध्वरे च नयने च तथा भगस्य पूष्णस्तथा दशनपङ्क्तिमशातयद्यः ॥
व्यष्टम्भयत्कुलिशहस्तमथेन्द्रमीशं तं शङ्करं शरणदं शरणं व्रजामि ॥१६॥
येनासकृद्दितिसुताश्च दनोः सुताश्च विद्याधरोरगगणाश्च वरैः समग्रैः ॥
संयोजिता मुनिवराः फलमूलभक्षास्तं शङ्करं शरणदं शरणं व्रजामि ॥ १७ ॥
एवं कृतेपि विषयेष्वपि सक्तभावा ज्ञानेन च श्रुतगुणैरपि तेन युक्ताः ॥
यं संश्रिताः सुखभुजः पुरुषा भवन्ति तं शङ्करं शरणदं शरणं व्रजा मि ॥ १८ ॥
ब्रह्मेन्द्रविष्णुमरुतां च सषण्मुखानां योऽदाद्वरान्सुबहुशो भगवान्महेशः ॥
सूतं च मृत्युवदनात्पुनरुज्जहार तं शङ्करं शरणदं शरणं व्रजामि ॥ १९ ॥
आराधितस्तु तपसा हिमवन्निकुञ्जे धूम्रव्रतेन तपसा च परैरगम्यः ॥
सञ्जीवनीं समददाद्भृगवे महात्मा तं शङ्करं शरणदं शरणं व्रजामि ॥5.1.38.२०॥
क्रीडार्थमेव भगवान्भुवनानि सप्त नानानदीविहगपादपमण्डितानि ॥
सब्रह्मकानि ससृजे सुकृताभिधानि तं शङ्करं शरणदं शरणं व्रजामि ॥ २१ ॥
यः सव्यपाणिकमलाग्रनखेन देवस्तत्पञ्चमं प्रसभमेव करालरन्ध्रम् ॥
ब्राह्म्यं शिरस्तरणिपद्मनिभं चकर्त तं शङ्करं शरणदं शरणं व्रजामि ॥ २२ ॥
ये त्वां सुरोत्तमगुरुं पुरुषा विमूढा जानन्ति नास्य जगतः सचराचरस्य ॥
ऐश्वर्यमानविगमेऽनुशयेन पश्चात्ते यातनामनुभवन्ति यथाहमेव ॥ २३ ॥
यः पठेत्स्तुतिमिमां शुचिकर्मा यः शृणोति सततं शिवभक्तः ॥
विप्रसंसदि सदा शुभकर्मा स प्रयाति शिवलोक मखण्डम् ॥ २४ ॥
॥ सनत्कुमार उवाच ॥ ॥
तस्यैवं स्तुवतो देवः शूलपाणिर्वृषध्वजः ॥
पूर्णे वर्षशतस्यान्ते प्रीतः प्रोवाच शङ्करः ॥ २५ ॥
पुत्र तुष्टोऽस्मि भद्रं ते जातस्त्वं निर्मलोऽधुना ॥
दिव्यं ददामि ते चक्षुः पश्य मां विगतज्वरः ॥ २६ ॥
यच्च ते मनसा वापि किञ्चिच्च काङ्क्षितं फलम् ॥
तत्तत्सर्वं प्रदास्यामि ब्रूहि दानवसत्तम ॥ २७ ॥
॥ दानव उवाच ॥ ॥
ब्राह्म्यं वैष्णवमेन्द्रं वा पदमावृत्तिलक्षणम् ॥
विदितं मम तत्सर्वं मनागपि न काङ्क्षये ॥ २८ ॥
यदि तुष्टोऽसि देवेश गाणपत्यं ददस्व मे ॥
सविशेषं विशुद्धं च तदक्षय्यं च सर्वदा ॥ २९ ॥
॥ महादेव उवाच ॥ ॥
अमरो जरया त्यक्तः सर्वदुःखविवर्जितः ॥
भविष्यसि गणाध्यक्षः सर्वलोकनमस्कृतः ॥ 5.1.38.३० ॥
कामरूपो महायोगी महासत्त्वो महाबलः ॥
अणिमादिगुणैर्युक्तः प्रियश्च मम सर्वदा ॥ ३१ ॥
॥ सनत्कुमार उवाच ॥ ॥
ततश्च सोंऽधकः श्रीमान्वराल्ँलब्ध्वा सुदुर्लभान् ॥
महादेवगणो भूत्वा तत्रैवान्तरधीयत ॥ ३२ ॥
गतेंऽधके ततो देव्यो ब्रह्माण्याद्याः समागताः ॥
स देवो यत्र भगवानन्धकस्य वरप्रदः ॥ ३३ ॥
तास्तष्टुवुर्महादेवमथ तुष्टो महेश्वरः ॥
चामुण्डा च महेशेन समाश्वस्ता शिवाऽभवत् ॥ ३४ ॥
शङ्करं प्रणतं दृष्ट्वा तासामग्रे व्यवस्थितम् ॥
ब्रह्मादयोऽपि ते हृष्टास्तुष्टुबुर्विविधैः स्तवैः ॥ ३५ ॥
प्रशान्तास्ता यदा हृष्टाः शम्भुना रुधिराशनाः॥
तदा वोचदिदं वाक्यं तासां स्थित्यर्थमुत्तमम् ॥ ३६ ॥
आवन्त्ये विषये सर्वा यस्माजाता महाबलाः ॥
आवन्त्यमातरस्तस्मात्ख्याता लोके भविष्यथ ॥ ॥ ३७ ॥
अवन्त्यां प्रीतिसम्पन्नाः सर्वपापप्रणाशिनीः ॥
स्थिरा वसन्त्यो लोकानां वरदाश्च भविष्यथ ॥ ३८ ॥
श्रावणस्य तु मासस्य अमावास्यां समाहिताः ॥
ये द्रक्ष्यन्ति सदा भक्त्या तेषां लोका महोदयाः ॥ ३९ ॥
अपुत्रो लभते पुत्रान्धनार्थी लभते धनम् ॥
रूपवान्सुभगो भोगी सर्वशास्त्रविशारदः ॥ 5.1.38.४० ॥
हंसयुक्तेन यानेन पितृलोके महीयते ॥
पुरीमिमां च रक्षध्वं कल्पेकल्पे क्रमेण तु॥ ४१ ॥
एवमुक्त्वा तु देवेशो गतः कैलास पर्वतम् ॥
स्तूयमानो गणै रौद्रैर्दैत्यामरगणेश्वरैः ॥ ४२ ॥
असुरसुरगणानां नायकस्यानुकीर्तिं कथयति कथनीयां श्रद्धया यः शृणोति ॥
सकल सुखनिधानं रुद्रलोकं स कान्तं सुरगणदनुनाथैरर्चितं यात्यनन्तम् ॥ ४३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽन्धकवृत्तान्तवर्णनन्नामाष्टात्रिंशोऽध्यायः ॥ ३८ ॥ ॥ छ ॥